॥ अशोकवन ॥

पांशुप्रदानावदानं यो असौ स्वमांसतनुभिर् यजनानि कृत्वा अतप्यच्चिरं करुणाय जगतो हिताय । तस्य श्रमस्य सफलीकरणाय सन्तः साऽवर्जितं शृणुत साम्प्रतभाष्यमाणं ॥ एवं मया श्रुतं एकस्मिन् समये भगवान् श्रावस्त्यां विहरति । इति सूत्रं वक्तव्यं । अत्र तावद्- भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गत वचनसरत्सलिलधारासम्पातापनीतरागद्वेष मोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायाऽदितर्कशास्त्रार्थावलोकनौत्पन्न प्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्ध काराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपान शौण्डानां गुरूणां संनिधौ सर्वाववादकश्रेष्ठं (शक्रब्रह्मईशानयमवरुणकुवेरवासवसोम आदित्याऽदिभिर्- आ,शक्रब्रह्मईशानयमवरुणकुवेरवसवसोम आदित्याऽदिभिर् ) अप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महाऽऽत्मानं अतिमहर्द्धिकं स्थविरौपगुप्तं आरभ्य काञ्चिद्- एव विबुधजनमनःप्रसादकरीं धर्म्यां कथां समनुस्मरिष्यामः । तत्र तावद्गुरुभिर् अवहितश्रोत्रैर् भवितव्यं । उपगुप्तौपाख्यानं एवं अनुश्रूयते । यदा भगवान् परिनिर्वाणकालसमये अपलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च तेषां मथुरां अनुप्राप्तः । तत्र भगवान् आयुष्मन्तं आनन्दं आमन्त्रयते स्म । अस्यां आनन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति । तस्य पुत्रो भविष्यति उपगौप्तनाम अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति । तस्य अववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात् करिष्यन्ति । ते अष्टादशहस्तां आयामेन द्वादशहस्तां विस्तरेण चतुरङ्गुलमात्राभिः शलाकाभिऋ गुहां पूरयिष्यन्ति । एषो अग्रो मे आनन्द श्रावकाणां भविष्यति अववादकानां यदुत उपगुप्तो भिक्षुः । पश्यसि त्वं आनन्द दूरतए एव नीलनीलाम्बरराजिं । एवं भदन्त । एष आनन्द उरुमुण्डो नाम पर्वतः । अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर् भविष्यति । सो अत्र उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति । उपगुप्तं च प्रव्राजयिष्यति । मथुरायां आनन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिणौ भविष्यतः । तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः । तस्य नटभटिका इति सञ्ज्ञा भविष्यति । एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्याऽसनानां यदिदं नटभटिकारण्याऽयतनं । अथ आयुश्मान् आनन्दो भगवन्तं इदं अवोचत् । आश्चर्यं भदन्त यदीदृशं आयुष्मान् उपगुप्तो बहुजनहितं करिष्यति । भगवान् आह । न आनन्द एतर्हि यथा अतीते अप्यध्वनि तेन विनिपतितशरीरेण अप्यत्र एव बहुजनहितं कृतं । उरुमुण्डपर्वते त्रयः पार्श्वाः । एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति । द्वितीये पञ्चर्षिशतानि । तृतीये पञ्चमर्कटशतानि । तत्र यो असौ पञ्चानां मर्कटशतानां यूथपतिः स तं यूथं अपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः । तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः । स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि च उपनामयति यदा च ते पर्यङ्केण उपविष्टा भवन्ति स वृद्धान्ते प्रणामं कृत्वा यावन् नवान्तं गत्वा पर्यङ्केण उपविशति । यावत् ते प्रत्येकबुद्धाः परिनिर्वृताः । स तेषां शीर्णपर्णानि मूलफलानि च उपनामयति । ते न प्रतिगृह्णन्ति । स तेषां चीवरकर्णिकानि आकर्षयति । पादौ गृह्णाति । यावत् स मर्कटश्चिन्तयति । नियतं एते कालगता भविष्यन्ति । ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति । ते च ऋषयः केचित् कण्टकापाश्रयाः केचिद्- भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित् पञ्चाऽतपावस्थिताः । स तेषां तेषां ईर्यापथान् विकोपयितुं आरब्धः । ये कण्टकापाश्रयास्तेषां कण्टकान् उद्धरति । भस्मापाश्रयाणां भस्म विधुनोति । ऊर्ध्वहस्तानां अधो हस्तं पातयति । पञ्चाऽतपावस्थितानां अग्निं अवकिरति । यदा च तैर् ईर्यापथो विकोपितो भवति तदा स तेषां अग्रतः पर्यङ्कं बध्नाति । यावत् तैर् ऋषिभिर् आचार्याय निवेदितं । तेन अपि च उक्तं । पर्यङ्केण तावन् निषीदत । यावत् तानि पञ्चर्षिशतानि पर्यङ्केण उपविष्टानि । ते अनाचार्यका अनुपदेशकाः सप्तत्रिंशद्- बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येकां बोधिं साक्षात् कृतवन्तः । अथ तेषां प्रत्येकबुद्धानां एतदभवद्। यत् किञ्चिदस्माभिः श्रेयो अवाप्तं तत् सर्वं इमं मर्कटं आगम्य । तैर् यावत् स मर्कटः फलमूलैः परिपालितः । कालगतस्य च तच्छरीरं गन्धकाष्ठैर्- ध्मापितं । तत् किं मन्यसे आनन्द यो असौ पञ्चानां मर्कटशतानां यूथपतिः स एष उपगुप्तः । तदा अपि तेन विनिपतितशरीरेण अप्यत्र एव उरुमुण्डपर्वते बहुजनहितं कृतं । अनागते अप्यध्वनि वर्षशतपरिनिर्वृतस्य मम अत्र एव उरुमुण्डपर्वते बहुजनहितं करिष्यति । तच्च यथा एवं तथा उपदर्शयिष्यामः । शाणकवास्य्-उपाख्यानं यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः समन्वाहरति । किं असौ गान्धिक उत्पन्नः । अथ अद्य अपि न उत्पद्यतए इति । पश्यत्युत्पन्नः । स यावत् समन्वाहरति । यो असौ तस्य पुत्र उपगुप्तो नाम्ना अलक्षणको बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति इति किं असावुत्पन्नः । अथ अद्य अपि न उत्पद्यतए इति । पश्यत्यद्य अपि न उत्पद्यते । तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासने अभिप्रसादितः । स यदा अभिप्रसन्नस्तदा स्थविरः सम्बहुलैर्- भिक्षुभिः सार्धं एकदिवसं तस्य गृहं प्रविष्टः । अपरस्मिन्नहनि आत्मद्वितीयः । अन्यस्मिन्नहनि एकाकी । यावद्गुप्तो गान्धिकः स्थविरं शाणकवासिनं एकाकिनं दृष्ट्वा कथयति । न खल्वार्यस्य कश्चित् पश्चाच्छ्रमणः । स्थविर उवाच । जराधर्माणां कुतो अस्माकं पश्चाच्छ्रमणो भवति ।

% Text title            : ashokavana
% File name             : ashoka.itx
% itxtitle              : ashokavana
% engtitle              : The Ashokavadana
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : October 1, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


BACK TO TOP