श्रीसूर्यशतकम्
श्रिया समेत श्रितपारिजातं
वियत्प्रदीपं विततप्रतापम् ।
नयप्रचारं नगराजधीरं
दयासमुद्रं तपनं नमामि ॥ १॥
तेजोमये मण्डलमध्यभागे
सिंहासने रत्नमयेऽब्जरूपे ।
असीनमुग्रायुधदीप्तहस्तं,
छायापतिं चण्डकरं नमामि ॥ २॥
हिरण्यगर्भाप्तवरान् बलाढ्यान्
मन्देहदैत्याननलोग्रबाणैः ।
सर्वासु सन्ध्यासु निवारयन्तं
संज्ञापतिं देवमहं नमामि ॥ ३॥
हिरण्यगर्भाच्युतपार्वतीशैः
स्वपार्श्वसंस्थैः परिगीयमानम् ।
मुक्तिस्थलीयायिमुनीश्वराणां
घण्टापथं भास्करमाश्रयामि ॥ ४॥
किरीट-काञ्ची-वलयाङ्गुलाद्यै-
र्विभूषणैर्भूषितमग्निवर्णम् ।
सौवर्णवस्त्रं श्रितवालखिल्यैः
संसेव्यमानं हरिमाश्रयेऽहम् ॥ ५॥
अष्टापदश्मश्रुकचैश्च सर्वै-
र्हिरण्मयाङ्गैर्युतमप्रतर्क्यम् ।
देदीप्यमानं किरणैः सहस्रै-
रम्भोजमित्रं रविमाश्रयामि ॥ ६॥
अनूरुवैदग्ध्यनिजाध्वधाव-
त्सप्ताश्वयुक्ते फणिपाशबद्धे ।
छन्दोमये दिव्यरथे स्थितं श्री-
सरोजिनीनाथमहं नमामि ॥ ७॥
दिने दिने मेरुगिरेः समन्तात्
प्रदक्षिणप्रक्रमणं वहन्तम् ।
सुरासुरैर्वन्दितपादपद्मं
प्रभाकरं त्वां शरणं प्रपद्ये ॥ ८॥
मित्रं पवित्रं नलिनीकलत्रं
हिरण्यगात्रं हिमवीतिहोत्रम् ।
तमोलतादात्रममर्त्यचैत्रं
विशालनेत्रं रविमाश्रयेऽहम ॥ ९॥
अजाण्डगेहान्तररत्नदीपं
सन्ध्यासु सन्ध्यासु समस्तविप्रैः ।
होमार्चनध्यानतपोजपाद्यौ-
राराध्यमानं दिननाथमीडे ॥ १०॥
चतुःशतैरंशुभिरम्बुवृष्टिं
तावन्मि तैरातपमुग्ररूपम् ।
तदर्धमानैः किरणैर्हिमानीम् ।
प्रकाशयन्तं प्रभुमाश्रयामि ॥ ११॥
मासाष्टकं भूमिगताम्बु पीत्वा
क्षितौ पुनर्मासचतुष्टयेन ।
वृ ष्ट्या तटाकादिजलप्रदेशान्
प्रपूरयन्तं पुरुषं भजेऽहम् ॥ १२॥
यन्मण्डले वारिधरप्रकोपात्
अदृश्यमाने दिवसो नराणाम् ।
स्याद्दुर्दिनं तस्य दिवाकरस्य ।
श्रीपादयुग्मं शरणं भजेऽहम् ॥ १३॥
प्रत्यक्षदैवं परिपूर्णबिम्बं
समुज्ज्वलं दीधितिभिः सहस्रैः ।
निशातमश्चित्तगतं तमश्च
प्रध्वंसयन्तं परमेशमीडे ॥ १४॥
कलिङ्गदेशेष्वभिमानपूर्णं
प्रागाननं सारसपीठसंस्थम् ।
प्रवालसङ्काशलसच्छरीरं
प्रभाकरं त्वां प्रणमामि भक्त्या ॥ १५॥
प्रभाकराय प्रमदप्रदाय
प्राचीनवाक्प्रत्ययकारणाय ।
प्रपञ्चकेषु प्रकटीकृतात्म-
प्रसिद्धये चास्तु नमः प्रभाते ॥ १६॥
ऋग्वेदरूपेण च मण्डलेन
सामस्वरूपैः किरणैः सहस्रैः ।
यजुर्मयाञ्चद्वपुषा समेतं
त्रयीमयं सप्तहयं नमामि ॥ १७॥
यो याज्ञवल्क्याख्यमुनीश्वराय
साङ्गं ददौ शुक्लयजुर्विशेषम् ।
सप्ताष्टशाखासहितं पवित्रं
तस्मै नमो देशिकदेशिकाय ॥ १८॥
तपः प्रपूर्णाय मयासुराय
ग्रहागमं यं प्रददौ समग्रम् ।
वेदाङ्गभूतं परमं रहस्यं
नमोऽस्तु तस्मै नलिनीप्रियाय ॥ १९॥
दिने दिने कोटिसुवर्णनिष्का-
नुत्पादयन्तं जगदेकपूज्यम् ।
ददौ स्यमन्ताख्यमणीवरं यः
सत्राजिते तं सवितारमीडे ॥ २०॥
तमोऽभिभूतं भवतीति विश्वं
सञ्चिन्त्य सायं समये कृशानौ ।
निधाय तेजोलवमात्मनो यो
ययौ तमीशं करुणार्द्रमीडे ॥ २१॥
यद्रश्मयो वारिधिगर्भसंस्था
वायुप्रकोपेषु तटिल्लताः स्युः ।
दृश्यार्धभागे प्रसृता हिमांशु-
कलास्तमीडेऽमितकान्तिपुञ्जम् ॥ २२॥
यस्यामृतान्नौ भिषजौ सुराणां
हविर्भुजौ मर्दितदैत्यवर्यौ ।
हयाधिरूढौ तनयावभूतां
दस्रौ तमर्कं शरणं ब्रजामि ॥ २३॥
यस्यात्मजो धर्मभृतां वरिष्ठो
वर्णाश्रमाचारविधानकर्ता ।
नृपालवंशादिमबीजभूतो
मनुस्तम्भोजहितं नमामि ॥ २४॥
विद्युन्मणीजाठरबाडबाग्नि-
ग्रहर्क्षजाम्बूनदचन्द्रकान्तिः ।
यदंशलेशद्युतिसम्भवा तं
प्रभामयं देवमहं नमामि ॥ २५॥
यन्नन्दनः प्राणिकृताघपुण्य-
फलप्रदो याम्यदिशाधिनाथः ।
धर्मिष्ठवर्यः समवर्तनोऽभू-
द्यमस्तमम्भोजहितं नमामि ॥ २६॥
मासर्तुवर्षादिविभक्तकालः
खण्डाह्वयो येन समुत्थितोऽभूत् ।
तं विश्वसर्गावननाशहेतुं-
नमाम्यहं काश्यपगोत्रमीशम् ॥ २७॥
वियोगदुःखार्दितचक्रवाक-
द्विजानवश्यायनिपीडिताङ्गान् ।
पद्मांश्च शीतार्तियुतान् दरिद्रान्
सन्तोषयन्तं सवितारमीडे ॥ २८॥
उद्बोधका यस्य मरीचयः स्युः
विश्वस्य निद्राभरविस्मृतस्य ।
चोरव्रजस्यायसशृङ्खलाः स्युः
तस्मै नमः सारसबान्धवाय ॥ २९॥
सन्ध्याद्वये यस्य मरीचयः स्युः
बन्धूकपुष्पप्रतिमानवर्णाः ।
मध्यन्दिने वज्रविभोपमानाः
तस्मै नमस्तीव्रकराय तुभ्यम् ॥ ३०॥
त्रिनाभियुक्तामररूपकैक-
चक्रेण संविन्मयकूबरेण ।
समन्विते दिव्यरथे वसन्तं
नितान्तकान्तं भगवन्तमीडे ॥ ३१॥
यः कश्यपः स्यादिति गर्भगोलात्
जातः सुरेन्द्राय जयं प्रदातुम् ।
द्विषट्करूपैरमितप्रभाढ्यैः
तं हेमवर्णं पुरुषं नमामि ॥ ३२॥
नमः प्रभाते विधिरूपकाय
मध्यन्दिने माधवरूपकाय ।
दिनावसाने हररूपकाय
निशासु सर्वासु चिदात्मकाय ॥ ३३॥
पूर्वाचलाग्रेऽस्तनगस्य शृङ्गे
सुराध्वमध्ये विचरन्तमह्नि ।
निशासु पातालगताम्बरे च
प्रभाकरं त्वां प्रणमामि भक्त्या ॥ ३४॥
लोकस्य बन्धुं गगनस्य रत्नं
चक्षुष्मता नेत्रमजाण्डरूपम् ।
वेदस्य मूलं पतिमम्बुजानां
प्रभाततेजस्करमीशमीडे ॥ ३५॥
रक्तप्रसूनाक्षतगन्धपर्णैः
यन्त्रे च मूर्तौ मनुजोऽतिभक्त्या ।
यमर्चयित्वा लभते स्वकामां-
स्तं वासुदेवं हृदि भावयामि ॥ ३६॥
शुद्धाशयाङ्गा मनुजाः प्रभाते
सौरारुणिभ्यां विधिवद्यमीशम् ।
सम्पूज्य कामानपवर्गसौख्य-
मवाप्नुयुस्तं पुरुषं भजेऽहम् ॥ ३७॥
छायास्ति भाति प्रियनामरूपे-
ष्वन्त्या चतुर्थी कथिता च संज्ञा ।
आद्यत्रयं त्वं परमात्मतत्त्वं
ततो रवे त्वां शरणं ब्रजामि ॥ ३८॥
नमः पतङ्गाय सुरार्चिताय
नमस्तमोघ्नाय हिमान्तकाय ।
नमः सवित्रे जगदेकभर्त्रे
नमो ग्रहेशाय नमोऽव्ययाय ॥ ३९॥
यमन्तरादित्यसमग्रविद्या-
हृत्पद्मकोशान्तररन्ध्रसंस्थम् ।
नीवारशूकादपि सूक्ष्ममीशं
प्रोवाच तं चिन्मयमाश्रयामि ॥ ४०॥
यद्रश्मयः स्युः परिवेषरूपाः
सितासिताभोज्ज्वलकेतवश्च ।
भीमाशनीपातशतह्रदाश्च
तस्मै नमो दीधितिमालिने ते ॥ ४१॥
तुषारवृष्ट्यान्वितपुष्करे य-
न्मरीचयो रत्नचयाञ्चितस्य ।
सुरेन्द्रचापस्य समानरूपाः
भवन्ति तं द्वादशरूपमीडे ॥ ४२॥
मित्राणि यस्येन्दुसुरेज्यभौमाः
शत्रू सितार्की शशिजस्तटस्थः ।
त्रिषड्दशा येषु गतश्च राशेः
शुभप्रदस्तं श्रुतिबोध्यमीडे ॥ ४३॥
प्रभातकालेऽस्तमयाख्यकाले
यन्मण्डलं व्योम्नि वितस्तिमानम् ।
अष्टाङ्गुलं स्यात् कुतपे च दृष्टं
तस्मै नमः श्रीनलिनीप्रियाय ॥ ४४॥
तुलादिषट्-सङ्क्रमणेषु यस्य
बिम्बं भवेद्दक्षिणभागसंस्थम् ।
मेषादिषट्के च निरक्षदेशात्
उदक्स्थितं तं प्रणमामि भानुम् ॥ ४५॥
अहःक्षयं कर्कटकादिषट्के
निशाक्षयं नक्रगृहादिषट्के ।
निरक्षदेशोत्तरसंस्थितानां
करोति यस्तं दिननाथमीडे ॥ ४६॥
यन्मण्डले राशियुगे च संस्थे
सङ्क्रान्तिनामाधिकपुण्यकालः ।
चन्द्रान्विते दर्शसमाह्वयः स्यात्
तस्मै नमो देवपितृस्तुताय ॥ ४७॥
अहर्निशाह्रासविवृद्धिदान-
मनेकधा भिन्नमहीगतानाम् ।
कुर्वन्तमर्कं घृणिमण्डलस्थ-
महोमयं वेदमयं नमामि ॥ ४८॥
धीरं महोदारममेयसारं
सूरं नुतारं धृतचारुहारम् ।
वीराधिवीरं कृतवारिपूरं
शुभप्रचारं सुविचारमीडे ॥ ४९॥
यस्यांशजः कीशगणाधिनाथो
विकर्णनासं युधि कुम्भकर्णम् ।
पादाहतं पङ्क्तिगलं च चक्रे-
रुमापतिस्तं शरणं ब्रजामि ॥ ५०॥
यद्वंशजातो भगवान् मुकुन्दो
विश्वस्य सर्वस्य च रक्षणाय ।
क्रूरासुराणां च वधाय रामः
परात्परं तं दिवसेशमीडे ॥ ५१॥
ध्यानस्य कालेऽखिलयोगिवर्या
यद्बिम्बमादौ हृदये विचिन्त्य ।
ध्यायन्ति तन्मण्डलमध्यदेशे
देवं तमीशं तदभिन्नमीडे ॥ ५२॥
यस्यात्मजा रूपवती कलिन्द-
कन्या मुकुन्दस्य सती बभूव ।
प्रवाहरूपेण पयःपयोघिं
गता तमर्कं मनसा स्मरामि ॥ ५३॥
घटीद्वयध्यानतपोऽधिकाय
युधिष्ठिरायाधिकधार्मिकाय ।
अक्षय्यमन्नं प्रददौ रसाढ्यं
यः पुण्यवांस्तं ग्रहराजमीडे ॥ ५४॥
सन्ध्याविधौ होमविधौ द्विजेन्द्रैः
दिने दिने यः परिपूज्यमानः ।
यस्यार्चनं वर्गचतुष्कदान-
क्षमं तमीशं शरणं व्रजामि ॥ ५५॥
उद्यन्तमर्कं भजते पुमान् यः
स वै नरो ब्राह्मणशब्दवाच्यः ।
उपैति भद्रं परमार्थरूप-
मित्याह वेदः खलु विश्वनाथ ॥ ५६॥
ब्रह्मेति नाम त्वयि योगरूढि-
प्राप्तं श्रुतिः प्राह वियुक्तबाधम् ।
सन्ध्यासु सन्ध्यासु च विप्रवर्यैः
तदेव सूक्तं खलु पद्मबन्धो ॥ ५७॥
चराचराणामिह सूर्य आत्मे-
त्यन्तस्तमुक्त्वा यमयन्तमीशम् ।
तेषां च संविन्मयरूपमर्कं
पुनः श्रुतिः प्राह दिनाधिपं त्वाम् ॥ ५८॥
ज्ञानस्वरूपस्य तवाज्ञता न
ज्ञानं च सत्त्वप्रकृतेश्च योगात् ।
अनन्तकल्याणगुणाश्च भान्ति
मेऽध्यात्मकाले जलजातबन्धो ॥ ५९॥
त्वां कर्मणां साक्षिणमागमानां
स्वरूपभूतं जगतां च बन्धुम् ।
कालस्य कर्तारमुशन्ति वेदाः
परात्परस्त्वामपहाय कोऽन्यः ॥ ६०॥
श्रीशङ्कराचार्यगुरुर्महात्मा
पञ्चामराणां प्रथमं यमाह ।
आलोक्य सर्वोपनिषन्निगूढ-
वाक्यानि वन्दे पुरुषं तमर्कम् ॥ ६१॥
प्राग्भूमिभृन्मौलिधृतं प्रभाते
माणिक्यकोटीरमिव प्रदीप्तम् ।
सरोजिनीपुण्यफलस्वरूप-
मुद्यन्तमर्कं प्रणमामि भक्त्या ॥ ६२॥
प्राचीवधूरम्यमुखे हिमाम्बु-
प्रक्षालिते कुङ्कुमपङ्कचित्रम् ।
काल्येन निक्षिप्तमिव प्रदीप्त-
मुद्यन्तमर्कं मृदुरश्मिमीडे ॥ ६३॥
सन्ध्यास्त्रिया कालकुमारकस्य
प्राक्शैलमञ्चोर्ध्वतले निबद्धम् ।
गुञ्जामयं गुच्छमिव प्रदीप्तं
बालं रविं कोमलदेहमीडे ॥ ६४॥
कालप्रबोधाय सुराधिपेन
प्राक्शैलहर्म्योर्ध्वतले निबद्धा ।
रत्नब्रजस्थापितझल्लरीव
यः संस्थितस्तं पृथुकार्कमीडे ॥ ६५॥
प्रभातकालाह्वयकेशवस्य
प्राचीदिशाख्येन्दिरया युतस्य ।
समर्पितं कौस्तुभनामरत्न-
मिव ज्वलन्तं पृथुकार्कमीडे ॥ ६६॥
सुरेन्द्रदिक्पर्वतवेदिकायां
कालाख्ययज्वप्रवरेण दीप्तम् ।
अङ्गारसङ्घातमिव ज्वलन्तं
बालं रविं शोणतनुं नमामि ॥ ६७॥
निशाख्यगौरीकृतपूजनेन
गाढान्धकाराङ्गजताडितेन ।
उन्मीलितं प्राग्गिरिशङ्करेण
जालामयाक्षीव लसन्तमीडे ॥ ६८॥
पूर्वाद्रिशृङ्गस्थितकिङ्किरात-
द्रुमे प्रभाताख्यवसन्तकाले ।
जातं महागुच्छमिवारुणांशुं
नमाम्यहं कश्यपमौनिपुत्रम् ॥ ६९॥
दृष्ट्वा शचीसंयुतमात्मनाथं
प्रागङ्गनायाः पतिकोपवत्याः ।
रक्तांशुयुक्तास्यमिव स्फुरन्तं
नमामि बालं नलिनीकलत्रम् ॥ ७०॥
काल्यप्रभाशोणनदीप्रवाहे
मरीचिकिञ्जल्कविराजमानम् ।
रक्तोत्पलं जातमतीव भान्तम्
उद्यन्तमर्कं हरिदश्वमीडे ॥ ७१॥
मन्दाकिनीकोकसुरासुरौघैः
काल्यप्रभामन्दरपर्वतेन ।
चान्द्रीपयोब्धौ भथिते प्रभूत-
चिन्तामणीव स्थितमर्कमीडे ॥ ७२॥
प्रभातसूनोरभिषेचनाय
प्राचीरमण्यातपवारिदीप्तम् ।
आनीतमष्टापदरत्नकुम्भ-
मिव स्थितं पद्महितं नमामि ॥ ७३॥
प्रभातनारायणहस्तसंस्थं
गाढान्धकारासुररक्तसिक्तम् ।
मरीचिधारापरिपूर्णचक्र-
मिव स्थित बालरविं नमामि ॥ १४॥
प्रागब्धिवेलावलयोद्भवाया
हिमाम्बुसद्योहदवर्धितायाः ।
काल्यप्रभाविद्रुमवल्लि कायाः
फलेन तुल्यं तरुणार्कमीडे ॥ ७५॥
हिमोदकोद्रेकमवेक्ष्य रात्रौ
पानाय तस्याब्धिजलं विहाय ।
नभोगतौर्वाग्निमिव प्रदीप्तं
शोणद्युतिं बालरविं नमामि ॥ ७६॥
चक्रद्विजानामतनुक्रियाणा-
मुद्बोधकं रात्रिमुखेऽतिमोहात् ।
अम्भोजिनीकुड्मलमध्यगस्य
भृङ्गस्य मोक्षप्रदमर्कमीडे ॥ ७७॥
इन्दीवराणां पललाशनानां
घूकादिकानां च विभावरीणाम् ।
जारस्य चोरस्य च दुःखहेतुं
सतां च वृद्धिप्रदमर्कमीडे ॥ ७८॥
भास्वान् रविर्भानुरनन्तरत्नं
दिवाकरश्चण्डगभस्तिरर्कः ।
मार्ताण्ड आदित्य इनो विवस्वान्
मित्रोऽर्यमा रक्षतु मां दयाब्धिः ॥ ७९॥
रक्तातपत्रध्वजचामराढ्यं
रक्ताम्बरं रक्तमरीचिबिम्बम् ।
रक्तैर्विभूषासुमगन्धमाला-
बजैर्युतं पद्महितं नमामि ॥ ८०॥
आनन्दकन्दं हतशत्रुवृन्दं
दयासमुद्रं दमशालिभद्रम् ।
संज्ञासमेतं सवनप्रपूतं
दीप्तप्रबोधं दिननाथमीडे ॥ ८१॥
यस्योदये दीधितयः रबकीया
मन्देहदेहक्षतजोपमानाः ।
प्राचीसतीभूषणरत्नरोचि-
र्निभास्तमादित्यमहं नमामि ॥ ८२॥
यन्मण्डलं पञ्चशताधिकाञ्च-
त्सहस्रषट्कोज्ज्वलयोजनेन ।
व्यासेन युक्तं घनगोलरूपं
तस्मै नमः पङ्कजबान्धवाय ॥ ८३॥
सव्यं सुराणामपसव्यवृत्त्या
रक्षोवराणां गगने चरन्तम् ।
तेषां दिन मानववत्सरेण
प्रपूरयन्तं रविमाश्रयामि ॥ ८४॥
नमामि देवं महितप्रभावं
विपक्षदावं परिशुद्धभावम् ।
रणाङ्गगणप्रोत्थितशङ्खरावं
छायासतीकल्पितनूत्नसेवम् ॥ ८५॥
समञ्चिताह्लादमुरुप्रसादं
सरोजपादं श्रितसर्ववेदम् ।
मृगेन्द्रनाथं कृतदैत्यखेदं
समग्रवादं सवितारमीडे ॥ ८६॥
नमामि सूर्य नगराजधैर्यं
कृपार्द्रचर्यं कृतपुण्यकार्यम् ।
सुपर्ववर्यं सुगुणौघधुर्यं
पञ्चास्यवीर्यं परिपालितार्यम् ॥ ८७॥
वन्दे दिनेशं वरहेमकेशं
सत्कीर्तिकाशं सततप्रकाशम् ।
श्रीमत्प्रदेशं श्रितपापनाशं
प्रभावृताशं प्रथितप्रजेशम् ॥ ८८॥
सत्याय नित्याय चिदात्मकाय
गूढाय रूढाय परात्पराय ।
दिव्याय भव्याय दिवाकराय
मान्याय धन्याय नमो नमस्ते ॥ ८९॥
अचिन्त्यमव्यक्तमनादिमध्यं
चिद्रूपमानन्दघनं प्रशान्तम् ।
ज्योतिर्मयं यं प्रवदन्ति वेदाः
तस्मै नमस्तेऽस्तु विकर्तनाय ॥ ९०॥
दुर्गागणाधीश्वरशम्भुविष्णु-
सूर्याह्वयैः पञ्चविधस्वरूपैः ।
समन्वितं भक्तजनाय कामान्
दिशन्तमीशं प्रणमामि नित्यम् ॥ ९१॥
ग्रहर्क्षभूगोलसहस्रकोटि-
प्रस्फीतवेधोऽण्डशतायुतस्य ।
अन्तर्बहिःपूर्णमनन्तशक्ति-
महोमयं देवमहं प्रपद्ये ॥ ९२॥
कल्याणरूपं कविराजसेव्यं
समग्रसत्त्वं विततात्मबिम्बम् ।
कल्याणरूपं कविराजसेव्यं
समग्रसत्वं विततं नमामि ॥ ९३॥
यं योगिनः साङ्ख्यविदश्च पाञ्च-
रात्रव्रताः पाशुपतागमज्ञाः ।
वेदान्तविद्यानिरता भजन्तः
प्रयान्ति मुक्तिं तमजं भजेऽहम् ॥ ९४॥
सर्वेषु कालेषु च बालरूपं
सर्वेषु कालेषु च यौवनस्थम् ।
सर्वेषु कालेषु च वृद्धभावं
विकारशून्यं रविमाश्रयामि ॥ ९५॥
निरञ्जनं निर्गुणमप्रमेयं
कूटस्थमव्यक्तमनन्तमाद्यम् ।
निर्द्वन्द्वमानन्दमखण्डमेकं
चैतन्यरूपं रविमाश्रयामि ॥ ९६॥
कोदण्डरामाह्वयविप्रवर्य-
प्रपूजितं श्लोकशताब्जपुष्पैः ।
छायाख्यबिब्बोकवतीसमेतं
संज्ञापतिं त्वां शरणं प्रपद्ये ॥ ९७॥
योगीश्वरो वेङ्कटकुष्णयज्वा
तत्पुत्रकं कोट्केलपूडिवंश्यम् ।
कोदण्डरामाह्वयविप्रवर्यं
मां पाहि मां पाहि सरोजबन्धो ॥ ९८॥
हे सूर्य हे भास्कर हे दिनेश
हे देव हे काश्यप तमोघ्न ।
पापैः समेतं समवर्तिभीतं
मां रक्ष मां रक्ष कृपार्द्रदृष्टे ॥ ९९॥
भव त्कुमारं शमनं गुणाढ्यं
केनाप्युपायेन तु शान्तचित्तम् ।
मद्रक्षणायाशु कुरुष्व नो चेत्
सायुज्यमुक्तिं दिश मे दिनेश ॥ १००॥
संसारकूपे पतितं महाघैः
जुष्टं यमाद्भीतमपुण्यलेशम् ।
मां रक्षितुं त्वामपहाय कोऽन्यः
शक्तोऽस्ति भानो परिपालयाशु ॥ १०१॥
पुण्यात्मनां रक्षणतो न ते स्यात्
घनत्वमब्जप्रिय मादृशानाम् ।
पापात्मनां रक्षणतो यशस्ते
भवत्यपारं परमेश पाहि ॥ १०२॥
श्रुतिस्मृतिभ्यां निगमान्तहोरा-
गमैः पुराणैर्भवदीयतत्त्वम् ।
जानामि किञ्चिद्दिननाथ तस्मा-
त्संरक्षणीयोऽस्मि तवाहमद्य ॥ १०३॥
त्यागेन दोषो भवतीश्वराणां
भक्तस्य पुंसः शरणागतस्य ।
अज्ञातमर्थं तव नास्ति तस्मात्
रक्षस्व भानो शरणागतं माम् ॥ १०४॥
संज्ञान्विताय श्रितरक्षकाय
छायासमेताय परात्पराय ।
चक्रस्तुतायाम्बुजिनीप्रियाय
महात्मने मङ्गलमस्तु नित्यम् ॥ १०५॥
त्वत्सुन्दरीभ्यां भवदात्मजेभ्यः
त्वत्पुत्रिकाभ्यस्तव सेवकेभ्यः ।
तुभ्यं हरे सौम्यमते दयालो
जगद्गते मङ्गलमस्तु नित्यम् ॥ १०६॥
कोदण्डरामार्यकृतस्तुतिं ये
पठन्ति शृण्वन्ति च भक्तियुक्ताः ।
तेषां श्रियं पुत्रकलत्रसौख्यं
स्वर्गं च मोक्षं दिननाथ देहि ॥ १०७॥
॥ इति श्रीसूर्यशतकं सम्पूर्णम् ॥
Proofread by Musiri Janakiraman
Stotrarnava 06.42