सोमोत्पत्तिस्तोत्रम्
याजुर्वैदिकी पारमात्मिकोपनिषदन्तर्गतं
॥ हरिः ॐ ॥
ऋषय ऊचुः -
कौतूहलं समुत्पन्नं देवता ऋषिभिः सह ।
संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ १॥
कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् ।
इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ २॥
व्यास उवच -
शृण्वन्तु देवताः सर्वे यदर्थमिह आगताः ।
तमर्थं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ ३॥
अग्नौ हुतं च दत्तं च सर्वं सोमगतं भवेत् ।
तत्र सोमः समुत्पन्नः स्मितांशुहिमवर्षणः ॥ ४॥
अष्टाशीति सहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तत् ॥ ५॥
षोडशी तु कलाप्यत्र इत्येकोऽपि विधिर्भवेत् ।
तं च सोमं पपुर्देवाः पर्यायेणानुपूर्बशः ॥ ६॥
प्रथमां पिबते वह्निः द्वितियां पिबते रविः ।
विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः ॥ ७॥
पञ्चमीं तु वषट्कारः षष्टीं पिबत वासवः ।
सप्तमीं ऋषयो दिव्याः अष्टमीमज एकपात् ॥ ८॥
नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् ।
दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥ ९॥
द्वादशीं पितरः सर्वे सम्प्राश्नन्ति भागशः ।
त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ॥ १०॥
चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः ।
निष्पीत एककलाशेषः चन्द्रमा न प्रकाशते ॥ ११॥
कला षोडशकायां तु आपः प्रविशते सदा ।
अमायां तु सदा सोमः ओषधिः प्रतिपद्यते ॥ १२॥
तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् ।
यत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥ १३॥
हुतमग्निषु यज्ञेषु पुनराप्यायते शशी ।
दिने दिने कलावृद्धिः पौर्णिमास्यां तु पूर्णतः ॥ १४॥
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे ।
भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तगति दीर्घमायुः ॥ १५॥
त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं जले वसेत् ।
त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥ १६॥
वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां ब्रूणहत्यायां युज्यते नात्र संशयः ॥ १७॥
वनस्पतिगते सोमे अनडुहो यस्तु वाहयेत् ।
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ १८॥
वनस्पतिगते सोमे पन्थानं यस्तु कारयेत् ।
गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥ १९॥
वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति ।
स्वर्गस्थाः पितरस्तस्य च्यवन्ते नात्र सेशयः ॥ २०॥
वनस्पतिगते सोमे परान्नं यस्तु भुञ्जति ।
तस्य मासकृतो होमः दातारमधिगच्छति ॥ २१॥
वनस्पतिगते सोमे यः कुर्याद्दन्तधावनम् ।
चन्द्रमा भक्षितो येन पितृवंशस्य घातकः ॥ २२॥
सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् ।
तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ २३॥
सोमोत्पत्तिमिमां यस्तु गुर्विणीं श्रावयेत्प्रियाम् ।
ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥ २४॥
सोमोत्पत्तिमिमां यस्तु पर्वकाले सदा पठेत् ।
सर्वान् कामानवाप्नोति सोमलोकं स गच्छति ॥ २५॥
श्रीसोमलोकं स गच्छत्यों नम इति ॥
शुक्ले देवान्, पितॄन् कृष्णे, तर्पयत्यमृतेन च
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २६॥
इति सोमोत्पत्तिः स्तोत्रं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥
Proofread by PSA Easwaran