तरणिवाक्कुसुमाज्जलिः

तरणिवाक्कुसुमाज्जलिः

श्रीगणेशाय नमः । अरुणकमलासनस्थं त्रिनयनवेदत्रयाकृतिं हस्तैः । दानाभये सरोजे दधतं वन्देऽहमर्कमरुणाभम् ॥ १॥ केयूरकटककुण्डलहारविभूषाविभूषणोत्तंसम् । उदयाचलचूडामणिमनिशं धामैव वेद्मि किमपि परम् ॥ २॥ हित्वा चरणाम्भोजं भोजं भोजं ह विषयविषवल्लिम् । माद्यन्मनोमिलिन्दस्त्वया त्रपो मेऽज किमुपेक्ष्यः ॥ ३॥ विषकन्दलौ, तरुण्याः कुचौ विजानन्नमृतकुम्भौ । घूर्णंस्तत्र निमग्नः पूर्णं परिमन्यमानः एव स्वम् ॥ ४॥ परिणामदुःखसाधनमखिलं सुखसा[ध]नत्वेन । गृह्णन् परापवादं परनिन्दां परविमत्सरं कुर्वन् ॥ ५॥ मदमत्ययं त्वदन्यैखार्यमाप्ते मनोमिलिन्दे मे । यदिहौदासि(सी)न्यं ते गदहन्तृत्त्वं तवैव हतम् ॥ ६॥ संसारसा(शा)खिशाखामृगया मे हा मनोवृत्त्या । कामातिशीतशान्त्यै त्वत्स्मृतिवह्निर्न कामकाकिन्यः ॥ ७॥ त्रातो मयूरमुख्यो जातो यशसः समुद्रेकः । किमतः प्रयोजनं ते स्वयशःसङ्कोचनिर्भीकः ॥ ८॥ यद्यतिपापिष्ठोऽहं तथापि ते नाथ नोपेक्ष्यः । मात्रोदरपतितः किं सर्पः परिपाल्यते नैव ॥ ९॥ मोहान्धतमसबहुतरपरिभृत्यपरसुन्दरीदर्याम् । मय्यशक्ते कौशिकबुद्‍ध्या करुणोऽसि किमित नेन्द्रे हा ॥ १०॥ त्वमदीनोऽहं दीनस्त्वं सर्वज्ञो ह्यहं तु किञ्चिज्ज्ञः । त्वं शक्तोऽहमशक्तः कथमुभयोः शोभनाचर्य्यम् ॥ ११॥ त्वदुपेक्षितं त्वनाथ । वदति जने मां न लज्जसे नाथ । उचितं का गुणचिन्तां वेदान्ते निर्गुणे गीते ॥ १२॥ पापशवादुत्पन्ना मन्मतिजायैव तेन विहरन्ती । आशापाशं दत्त्वा भवकूपे क्षिपति पाहि दीन पुमान् ॥ १३॥ करुणागौरवहितं लिप्सालघुमल्पमनिशं माम् । अल्पोऽपि विषयवायुर्भ्रमयति बहु तूलमलसोऽसि ॥ १४॥ त्वद्भक्तिसारशून्यं विषयमरुद्भ्रामितं कृपाचन्द्र । करुणाकटाक्षकिरणस्तृणमिव किं मां विहाय विस्फुरति ॥ १५॥ त्रिभुवनपाल महेश म्लायति ते बालकुलोऽसौ । कामदवानलदग्धः करुणामृतसेचने कथं कठिनः ॥ १६॥ तृष्णोत्कलिकाकुलितान्काममहानक्रकवलितान्तनयान् । संसारसागरे मग्नाद्भीतः कथं सहस्रकरः ॥ १७॥ विश्वम्भर त्वदाज्ञोल्लङ्घिनमव मां गले पतितम् । पाययति न पयोधरमम्बा कुटिलं शिशुं गले लग्नम् ॥ १८॥ दिशि दिशि सरस्सु सरसीरुहेषु कृपया करः कथं स्फुरति । दीनदयालय तव मम शिरोऽम्बुजे नो स्वतन्त्रस्य ॥ १९॥ गुणगुर्वी त्वन्माया नवरसमय मां नटं भुवनरङ्गे । नर्त्तयति त्वत्पुरतस्तुष्यसि नानेकजन्मभूमिकया ॥ २०॥ बलिपदवीं न न च सुधां प्रभुत्वमैन्द्रं पदं न याचेऽहम् । करुणाकटाक्षलेशं शेषे भवतः कथं निमीलितदृक् ॥ २१॥ रागद्वेषारण्यक कण्डगरीयातिजनितपङ्कमलम् । संशोष्य मानसं मे सरः कथं पूर्यते न बोधजलैः ॥ २२॥ रटनां श‍ृणोषि नो मे विकर्तनानेकशोऽर्थितोऽपि बटोः । सुप्तः किं गुरुकार्याशक्तः किं वा विकर्णोऽसि ॥ २३॥ कामादिशत्रुभिर्मे पुरं वशीकृत्य पुण्यधनम् । बोभुज्यते दयालो नैव शयालुत्वमुचितं ते ॥ २४॥ शरणागते तु पामरबुद्‍ध्या मयि नावहेलनं घटते । शबरी रामेण कथं कथय कृपालो कृता कृपापात्रम् ॥ २५॥ दुःखचपेटां दातुं यद्युद्युक्तोऽसि तेऽंशुकप्राप्तम् । मुञ्चेयं त्वपराधी लालनमभिलाषुकः कथं तात ॥ २६॥ विष्णो मदीयसुमतिदुपदसुतां धर्मदुर्बलेशां हा । कर्षति केशग्राहं मत्सरदुःशासनो गतः क्वासि ॥ २७॥ उदरे नारककुण्डे पुनःपुनश्चेन्न तुष्यसि क्षिपसि । क्षिप निःसृतं सृतौ मां मायापाशैर्बधान हृत्स्वामिन् ॥ २८॥ तेजोऽभावस्तम इति वितथं किं नो भणन्ति काणादाः । भवति त्रिभुवनदीपेऽन्यथा कथं तधृदि स्यान्मे ॥ २९॥ त्रिभुवनदीपालोके तेऽर्थाञ्ज गतोऽवभास्यति तूर्णम् । दूरीकृत्य तमो मे मनसि ततस्त्वं स्वयं न भासि कथम् ॥ ३०॥ तरणौ मामपराधिनमति यदि जानास्यखण्डविततगुणैः । स्वैर्बद्ध्वा करुणाब्धौ विरूपितं किं न मिहिर मज्जयसि ॥ ३१॥ सप्ताश्वमनसतुरगः कामवशो मे स्ववृत्तिपरिणतिषु । वडवासु किं वृषस्यति नारुह्य द्राक् कथं वशीकुरुषे ॥ ३२॥ समदृष्टेस्तव 'करुणा मयि भूतलवज्जपासु लौहित्यम् । अन्यत्र स्फटिक इव प्रभाति वैषम्यमिति कुतोऽधीतम् ॥ ३३॥ रटयसि बहुलं घटयसि मयि न स्नेहं मनाङ्विरमति मे । चेतस्तत् कटुवाग्भिर्यद्यसि रुष्टः कथं न नाशयसि ॥ ३४॥ त्वत्करुणा द्वापरिणा त्वत्स्मृतिदुःखे मया प्रभो भजता । सेषन्मुमुक्षुणाप्तानुमीयतेऽतो विरम्यते नैव ॥ ३५॥ यद्यङ्कुरितानुमिता जन्यजनकभावभञ्जनापत्तेः । साऽस्त्येव पामरे मयि पूर्णय पूर्णोऽसि नैव तेऽपेक्षा ॥ ३६॥ गुणवर्णनोपदेशः प्रतारणेयं न विश्वरूपकृता । गुणवर्णनं त्वदीयं जन्मशतेनापि केन कर्तव्यम् ॥ ३७॥ मन्मतिरत्यल्पातोऽल्पमपि त्वां स्तोतुमीश ह्रेषेयम् । करुणाकटाक्षरहितस्तस्त्रहि तस्यां न शक्तिह्रासः स्यात् ॥ ३८॥ भवभयहारमहार्यं निगुर्णधार्यं भयादनुत्तार्यम् । परमानन्दाचार्यं तमयानार्यं जहातु मा मूढः ॥ ३९॥ पूरयति मानसं यस्त्वत्स्मृतिधाराभिरवकरव्याप्तम् । भूषयति परमहंसस्तत्तेऽस्या लोलिताः प्रगततीराः ॥ ४०॥ त्वन्नामस्मृत्यरणी समुद्गते ज्ञानहुतभुजि जितकालाः । विषयहवींष्याजुहाति ये वैराग्यत्रुरुचा बुधाः खकुण्डस्थे ॥ ४१॥ मानसररक्तो हंसो भवत्कथाकामधेनुपीयूषम् । यः पिबति विषयनीरादुद्धत्यास्मान्न परमहंसोऽन्यः ॥ ४२॥ कल्पतरुकामदोग्धीचिन्तामणयोऽपि यन्मनोरथदाः । फलसि स्वं फलमुचितं स्वसेवितुस्तन्मनःपथातीतम् ॥ ४३॥ क्षुण्णं यन्मनसा तत् स्वविलसितं कल्पपादपः फलति । त्वमतः स्वसेवितुः स्वं फलं विजाने मनःपथातीतम् ॥ ४४॥ त्वद्भक्तिकामधेनुं दोग्ध्यमृतं दुग्धरत्नगोर्मेरोः । शिर आक्रमते कलयति कुटिलं कालं पलालसदृशं सः ॥ ४५॥ त्वज्जन्ममधुरिमा यैरनुभूतस्ते बुधा बुधा न बुधाः । स्पृहयन्ति त्वन्निपीताधरैम्बायै न रम्भायै ॥ ४६॥ आरूढभक्तिवीरुद्भवदाह्वा मन्दाचलक्षुभितात् । करुणाब्धेर्भवतोऽमृतमाप्तमनन्तं त एव बुधाः ॥ ४७॥ अग्रस्थितमुखचन्द्राद्गलोदयाद्रेरुदितमात्तम् । त्वन्नमहृद्गुहायास्तमस्ततिं हरति किं भवत्स्पर्धि ॥ ४८॥ शतकोटिदानदक्षं विदग्धपापौघपर्वतस्मरणम् । विमदीकृतपविपरिणतमैन्द्रपदत्वेन नाम भवदीयम् ॥ ४९॥ पैतामहीं तनुं तां तदुज्झितां रागिणीं यदुदयास्ते । यत् सम्पर्कात् प्रणमति हरोऽप्यतरोऽस्मात् परं न मन्येऽहम् ॥ ५०॥ यश्चरिकरिति हि विश्वम्बरी भरित्यपि च सञ्जरिहरतितमाम् । अञ्जलिरकारि तैरपि सायं प्रातर्यदग्रतो वन्दे ॥ ५१॥ उदये विधिरूपस्त्वं मध्याह्ने शङ्करः स्वयं सायम् । विष्णुरिति वदन्तु विमला वयं तु यत्त्वं न तन्न जानीमः ॥ ५२॥ सप्तस्वरोदकान्तं रसमिव शान्तं सुवर्णसप्ताश्वैः । सप्तभिरिव सामभिरहमूढं धामैव वेद्मि किमपि परम् ॥ ५३॥ प्राक्तनमनुदिनमुदितं विरजस्कं रागिणं सदयमदयम् । फलदमफलदं शरणं कुरु कुरु रे जीव जहिहि मृत्युभयम् ॥ ५४॥ दीनदयालय रङ्कं शङ्कर कामानलातिपरितप्तम् । गङ्गाधर भवजलधौ मग्नं मां पाहि परतन्त्रम् ॥ ५५॥ अशुचिं चण्डचरित्रं मां यदि जानासि चण्डिकाजाने । हालाहलं कपालं व्यालं भालानलप्रभो जहिहि ॥ ५६॥ पापं त्वदेकशरणं हालाहलमेव मन्यसे यदि माम् । तद्वत्कण्ठविलग्नं तत्र निमग्नं कथं कुरुषे वा ॥ ५७॥ त्वन्महिममदपराधौ पारेसङ्ख्यं त्वपादपरिमाणौ । तदनुपमत्वं गच्छति परिकरबन्धं कथं न कुरुषे द्राक् ॥ ५८॥ मत्सदृशः पतितः स्यान्न पतितपावन कथं तथा त्वं ते । मामतिपतितं मत्वा हित्वा वोढासि कां यशोग्रन्थिम् ॥ ५९॥ यदि पतितपावनत्वं लब्धुं पतितोऽपि सृष्टाऽस्ति । तल्लब्ध्वा मदुपेक्षाव्याधिनिवृत्तौ भिषग्द्रोहः ॥ ६०॥ कलिकाले जनतायाः स्वार्थपरत्वं कथं हि दोषाय । प्रभुरपि तथाविधः किं यन्मां कीनाश आर्पयसि पतितम् ॥ ६१॥ सधृदयं नवनीतं मुञ्च कठोरत्वमुचितं ते । संसारानलतप्तं मज्जय करुणामृतान्बुधौ मां ते ॥ ६२॥ अपराधाम्बुधिवल्लभ रामसुतोत्थं वचो विषं कण्ठे । सह राक्षेपकटुत्वं दधाति हरता न हस्तगा तस्य ॥ ६३॥ साहुनृपतिबहुमान्यो गोकुलतनयः सुखानन्दः । तदनुजवल्लभरामात्मेच्छारामेण मिहिरमग्नहृदा ॥ ६४॥ श्रीमन्माधवनरपतिविरचितजीवातुजनितसत्त्ववता । विलसितपदपत्रार्पितनन्दकसद्गन्धमुदितसमधुपम् ॥ रचितं वाक्कुसुमाञ्जलि मीने फलदं युधोऽर्पयतु ॥ ६५॥ ॥ इति श्रीइच्छारामशास्त्रिविरचितस्तरणिवाक्कुसुमाज्जलिः समाप्तः ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : taraNivAkkusumAnjaliH Shlokas addressed to Sun God and Lord Shiva
% File name             : taraNivAkkusumAnjaliH.itx
% itxtitle              : taraNivAkkusumAnjaliH (ichChArAmashAstrivirachitA)
% engtitle              : taraNivAkkusumAnjaliH
% Category              : navagraha, shiva
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Author                : Ichcharamashastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description/comments  : Article is by Sharmila Bagchi, pp 393-400, Srutimahati, Glory of Sanskrit Tradition, Ram Karan Sarma Felicitation Volume, Ed. Radhavallabh Tripathi, Part 2
% Indexextra            : (article)
% Latest update         : September 4, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org