बृहत्संहिता

बृहत्संहिता

१ उपनयनाध्यायः

जयति जगतः प्रसूतिर्विश्वात्मा सहजभूषणं नभसः । द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता ॥ १.०१॥ प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्य अर्थम् । नातिलघुग्विपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ॥ १.०२॥ मुनिग्विरचितमिदमिति यच्चिरन्तनं साधु न मनुजग्रथितम् । तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥ १.०३॥ क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्ते । कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदिव्य*कृतेः ॥ १.०४॥ (K.कृते) आब्रह्मादिग्विनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः । क्रियमाणकमेवैतत् समासतोऽतो ममोत्साहः ॥ १.०५॥ आसीत् तमः किलेदं तत्रापां तैजसेऽभवद्धैमे । स्वर्भूशकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥ १.०६॥ कपिलः प्रधानमाह द्रव्यादीन् कणकभुगस्य विश्वस्य । कालं कारणमेके स्वभावमपरे जगुः कर्म ॥ १.०७॥ तदलमतिविस्तरेण प्रसङ्गवादार्थनिर्णयोऽतिमहान् । ज्योतिःशास्त्राङ्गानां वक्तव्यो निर्णयोऽत्र मया ॥ १.०८॥ ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं तत्ग्कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता । स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ॥ १.०९॥ वक्रानुवक्रास्तमयोदयाद्यास्ताराग्रहाणां करणे मयाउक्ताः । होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वमुक्तम् ॥ १.१०॥ प्रश्नप्रतिप्रश्नकथाप्रसङ्गान् स्वल्पोपयोगान् ग्रहसम्भवाम्श्च । सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ॥ १.११॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां उपनयनाध्यायः समाप्तः ॥ ०१॥

२ सांवत्सरसूत्राध्यायः

न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः । निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ॥ २.०१॥ ग्रन्थोऽन्यथान्यथाग्*अर्थं करणं यश्चान्यथा करोत्यबुधः । (K.अर्थः) स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम् ॥ २.०२॥ तन्त्रे सुपरिज्ञाते लग्ने छायाम्बुयन्त्रसंविदिते । होरार्थे च सुरूढे नादेष्टुर्भारती वन्ध्या ॥ २.०३॥ अप्यर्णवस्य पुरुषः प्रतरन् कदा चिद् आसादयेदनिलवेगवशेन पारम् । न त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदा चिदनृषिर्मनसापि पारम् ॥ २.०४॥ जगति प्रसारितमिवालिखितमिव मतौ निषिक्तमिव हृदये । शास्त्रं यस्य सभगणं नादेशा *निष्फलास् तस्य ॥ २.०५॥ (K.निःफलास्) कृत्स्नाङ्गोपाङ्गकुशलं होरागणितनैष्ठिकम् । यो न पूजयते राजा स नाशमुपागच्छति ॥ २.०६॥ वनं समाश्रिता येऽपि निर्ममा निष्परिग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ॥ २.०७॥ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथासांवत्सरो राजा भ्रम्यत्यन्ध इवाध्वनि ॥ २.०८॥ *मुहूर्त ग्तिथिनक्षत्रं ऋतवश्चायने तथा । (K.मुहूर्तं) सर्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥ २.०९॥ तस्माद्राज्ञाधिगन्तव्यो विद्वान् सांवत्सरोऽग्रणीः । जयं यशः श्रियं भोगान् श्रेयश्च समभीप्सता ॥ २.१०॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ २.११॥ न सांवत्सरपाठी च नरकेषूपपद्यते । ब्रह्मलोकप्रतिष्ठां च लभते दैवचिन्तकः ॥ २.१२॥ ग्रन्थतश्चार्थतश्चैतत् कृत्स्नं जानति यो द्विजः । अग्रभुक्स भवेत्ग्श्राद्धे पूजितः पङ्क्तिपावनः ॥ २.१३॥ म्लेच्छा हि यवनास्तेषु सम्यक्शास्त्रमिदं स्थितम् । ऋषिवत् तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः ॥ २.१४॥ कुहकावेशपिहितैः कर्णोपश्रुतिहेतुभिः । कृतादेशो न सर्वत्र प्रष्टव्यो न स दैववित् ॥ २.१५॥ अविदित्वा एव *यत् शास्त्रं दैवज्ञत्वं प्रपद्यते । (K.यः) नक्षत्रसूचकोद्दिष्टमुपहासं करोति यः । K.२.१८.३/ स व्रजत्यन्धताग्मिस्रं सार्धं ऋक्षविडम्बिना ॥) नगरद्वारलोष्टस्य यद्वत् स्यादुपयाचितम् । आदेशस्तद्वदज्ञानां यः सत्यः स विभाव्यते ॥ २.१७॥ सम्पत्त्या योजितादेशस्तद्ग्विच्छिन्नकथाप्रियः । मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता ॥ २.१८॥ यस्तु सम्यविजानाति होरागणितसंहिताः । ह्यर्च्यः स नरेन्द्रेण स्वीकर्तव्यो जयैषिणा ॥ २.१९॥ न तत् सहस्रं करिणां वाजिनां च चतुर्गुणम् । करोति देशकालज्ञो *यथाएको दैवचिन्तकः ॥ २.२०॥ (K.यदेको) दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि । क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा भसंवादम् ॥ २.२१॥ न तथागिच्छति भूपतेः पिता जननी वा स्वजनोऽथ वा सुहृत् । स्वयशोहिविवृद्धये यथा हितमाप्तः सबलस्य दैववित् ॥ २.२२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सांवत्सरसूत्राध्यायः समाप्तः ॥ ०२॥

३ आदित्यचाराध्यायः

आश्लेषार्धाद्दक्षिणमुत्तरमयनं *रवेर् धनिष्ठाद्यम् । (K.ओमित्तेद्) नूनं कदा चिदासीद्येनोक्तं पूर्वशास्त्रेषु ॥ ३.०१॥ साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत् । उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ॥ ३.०२॥ दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः । छायाग्प्रवेशनिर्गमचिह्नैर्वा मण्डले महति ॥ ३.०३॥ अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम् । कर्कटकमसंप्राप्तो विनिवृत्तश्चोत्तरां सऽइन्द्रीम् ॥ ३.०४॥ उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः । प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ॥ ३.०५॥ सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निग्दुर्भिक्षैः ॥ ३.०६॥ तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् । वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥ ३.०७॥ ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि ॥ ३.०८॥ तेषामुदये रूपाण्यम्भः कलुषं रजोग्वृतं व्योम । नगतरुशिखर*आमर्दी सशर्करो मारुतश्चण्डः ॥ ३.०९॥ (K.विमर्दी) ऋतुग्विपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः । निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः ॥ ३.१०॥ न पृथक्फलानि तेषां शिखिग्कीलकराहुदर्शनानि यदि । तद्गुदयकारणमेषां केतुआदीनां फलं ब्रूयात् ॥ ३.११॥ यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिम्बस्था । तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम् ॥ ३.१२॥ क्षुत्ग्प्रम्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः । निर्मांसबालहस्ताः कृच्छ्रेणायान्ति *परदेशम् ॥ ३.१३॥ (K.परदेशान्) तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः । सन्तः सन्नशरीराः शोकोद्भव*वाष्प रुद्धदृशः ॥ ३.१४॥ (K.स्त्र्। बाष्प) क्षामा जुगुप्समानाः स्वनृपतिग्परचक्रपीडिता मनुजाः । स्वनृपतिचरितं कर्म *न(K.च) *पुरा कृतं प्रब्रुवन्त्यन्ये ॥ ३.१५॥ (K.पराकृतं, K.स्त्र्। पुराकृतं) गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं क्व चित् क्वचिज्जायते सस्यम् ॥ ३.१६॥ दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् *कबन्धसंस्थाने । (K.कवन्धसंस्थाने) ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥ ३.१७॥ राजोपकरणरूपैश्छत्रध्वजचामरादिभिर्विद्धः । राजान्यत्वकृदर्कः स्फुलिङ्गधूमादिभिर्जनहा ॥ ३.१८॥ एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय । सितरक्तपीतकृष्णैस्तैर्विद्धोऽर्कोऽनुवर्णघ्नः ॥ ३.१९॥ *द्वश्यन्ते च यतस्ते रविग्बिम्बस्योत्थिता महाउत्पाताः । (K. ऊ।दृश्यन्ते) आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥ ३.२०॥ ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति । पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ॥ ३.२१॥ चित्रोऽथ वापि धूम्रो रविरश्मिर्*व्याकुलाम्(K.व्याकुलां) करोत्य्*ऊर्धम् । (K.महीम्) तस्करशस्त्रनिपातैर्यदि सलिलं नाशु पातयति ॥ ३.२२॥ ताम्रः कपिलो वार्कः शिशिरे हरिग्कुङ्कुमच्छविश्च मधौ । आपाण्डुग्कनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ॥ ३.२३॥ शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः । प्रावृट्काले स्निग्धः सर्वगृतुनिभोऽपि शुभदायी ॥ ३.२४॥ रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति । पीतो वैश्यान् कृष्णस्ततो अपरान् शुभकरः स्निग्धः ॥ ३.२५॥ ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् । हेमन्ते पीतोऽर्कः करोति *न चिरेण रोगभयम् ॥ ३.२६॥ (K.अचिरेण) सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः । प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् ॥ ३.२७॥ वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः । शिखिग्पत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥ ३.२८॥ श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् । यस्यगृक्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य ॥ ३.२९॥ शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः । शशिग्सदृशे *नृपतिबधः क्षिप्रं चान्यो नृपो भवति ॥ ३.३०॥ (K.नृपतिवद्धः) क्षुत्ग्मारकृत् घटनिभः खण्डो *जनहा विदीधितिर्भयदः । (K.नृपहा) तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥ ३.३१॥ ध्वजग्चापनिभे युद्धानि भास्करे वेपने च रूक्षे च । कृष्णा रेखा सवितरि यदि हन्ति ततो *नृपं सचिवः ॥ ३.३२॥ (K.नृपं ततः) *दिनकरम्(K.दिवसकरम्) *उदयास्तसंस्थितम् उल्काशनिविद्युतो यदा हन्युः । (K.उदयसंस्थितम्) नरपतिग्मरणं विन्द्यात् तदान्यराज*प्रतिष्ठा च ॥ ३.३३॥ (K.प्रतिष्ठां) प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा । रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥ ३.३४॥ प्रहरणसदृशैर्जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी । मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥ ३.३५॥ दिनकरकराभितापादृक्षमवाप्नोति सुमहतीं पीडाम् । भवति तु पश्चात्ग्शुद्धं कनकमिव हुताशपरितापात् ॥ ३.३६॥ दिवसकृतः प्रतिसूर्यो जलकृदुददक्षिणे स्थितोऽनिलकृत् । उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥ ३.३७॥ रुधिरग्निभो वियत्यवनिपान्तकरो न चिरात् परुषरजोऽरुणीकृततनुर्यदि वा दिनकृत् । असितविचित्रनीलपरुषो जनघातकरः खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ॥ ३.३८॥ अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः । अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥ ३.३९॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां आदित्यचाराध्यायः समाप्तः ॥ ०३॥

४ चन्द्रचाराध्यायः

नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्धम् । स्वच्छाययान्यदसितं कुम्भस्येवातपस्थस्य ॥ ४.०१॥ सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदर*निहिता इव मन्दिरस्यान्तः ॥ ४.०२॥ (K.निहता) त्यजतोऽर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम् । दिनकरवशात् तथाइन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥ ४.०३॥ प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः । भवति शशिनोऽपराह्णे पश्चाद्भागे घटस्येव ४.०४॥ ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य *चायातः । (K.वा यातः) याम्येन *वीज ग्जलचरकाननहा वह्निभयदश्च ॥ ४.०५॥ (K.ऊ।बीज) दक्षिणपार्श्वेन गतः शशी विशाखानुराधयोः पापः । मध्येन तु प्रशस्तः *पितृदेव ग्विशाखयोश्चापि ॥ ४.०६॥ (K.पित्र्यस्य) षड् अनागतानि पौष्णाद्द्वादश रौद्राच्च मध्ययोगीनि । ज्येष्ठाद्यानि नवगृक्षाण्युडुपतिनातीत्य युज्यन्ते ॥ ४.०७॥ उन्नतमीषच्ग्छृङ्गं नौसंस्थाने विशालता चोक्ता । नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य ॥ ४.०८॥ अर्द्धोन्नते च लाङ्गलमिति पीडा तद्गुपजीविनां तस्मिन् । प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ॥ ४.०९॥ दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत् । पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च ॥ ४.१०॥ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः । दण्डवदुदिते पीडा गवां नृपश्चोग्रदण्डोऽत्र ॥ ४.११॥ कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम् । स्थानं युगमिति याम्योत्तरायतं भूमिग्कम्पाय ॥ ४.१२॥ युगमेव याम्यकोट्यां किं चित् तुङ्गं स पार्श्वशायीइति विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥ ४.१३॥ ह्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुखं भवेत्ग्छृङ्गम् । आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि ॥ ४.१४॥ अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम् । अस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥ ४.१५॥ प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः । दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥ ४.१६॥ श‍ृङ्गेणैकेनग्*इन्दुर्(K.इन्दुं) विलीनमथ वाप्यवाङ्मुखं *श‍ृङ्गम् । (K.अश‍ृङ्गम्) सम्पूर्णं चाभिनवं दृष्ट्वा एको जीविताद्भ्रश्येत् ॥ ४.१७॥ संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः । स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः ॥ ४.१८॥ मध्यतनुर्वज्राख्यः क्षुद्भयदः सम्भ्रमाय राज्ञां च । चन्द्रो मृदङ्गग्रूपः क्षेमसुभिक्षावहो भवति ॥ ४.१९॥ ज्ञेयो विशालमूर्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः । स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्तिः ॥ ४.२०॥ प्रत्यन्तान् कुग्नृपांश्च हन्त्युडुपतिः श‍ृङ्गे कुजेनाहते शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् । श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान् नृपान् शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम् ॥ ४.२१॥ भिन्नः सितेन मगधान् यवनान् पुलिन्दान् नेपालभृङ्गि*मरुकच्छ सुराष्ट्रमद्रान् । (K.स्त्र्। मरुकुच्च) पाञ्चालकैकयकुलूतकपुरुषादान् हन्यादुशीनरग्जनान् अपि सप्त मासान् ॥ ४.२२॥ गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान् द्रविडाधिपांश्च । द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः ॥ ४.२३॥ उद्युक्तान् सह वाहनैर्नरपतींस्त्रैगर्तकान् मालवान् कौलिन्दान् गणपुङ्गवान् अथ शिबीन् आयोध्यकान् पार्थिवान् । हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यान् अपि प्रालेयांशुरसृग्रहे तनुगते षण्मासमर्यादया ॥ ४.२४॥ यौधेयान् सचिवान् सकौरवान् प्रागीशान् अथ चार्जुनायनान् । हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया ॥ ४.२५॥ मगधान् मथुरां च पीडयेद्वेणायाश्च तटं शशाङ्कजः । अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः ॥ ४.२६॥ क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः । कुर्यादायुधग्जीविविनाशं चौराणामधिकेन च पीडाम् ॥ ४.२७॥ उल्कया यदा शशी ग्रस्त एव हन्यते । हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥ ४.२८॥ भस्मग्निभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीणः । श्यावतनुः स्फुटितः स्फुरणो वा *क्षुड्डमर आमयचौरभयाय ॥ ४.२९॥ (K.क्षुत्समरा) प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः । उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय ॥ ४.३०॥ शुक्ले पक्षे संप्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च । हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन ॥ ४.३१॥ यदि कुमुदमृणालहारगौरस्तिथिनियमात् क्षयमेति वर्द्धते वा । अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥ ४.३२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां चन्द्रचाराध्यायः समाप्तः ॥ ०४॥

५ राहुचाराध्यायः

अमृतास्वादविशेषाच्च्छिन्नमपि शिरः किलासुरस्येदम् । प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥ ५.०१॥ इन्द्वर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने । अन्यत्र पर्वकालाद्वरप्रदानात् कमलयोनेः ॥ ५.०२॥ मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये । कथयन्त्यमूर्तमपरे तमोग्मयं सैंहिकेयाख्याख्यम् ॥ ५.०३॥ यदि मूर्तो भविचारी शिरोऽथ वा भवति मण्डली राहुः । भगणार्धेनग्*अन्तरितौ (K.अन्तरितो) गृह्णाति कथं नियतचारः ॥ ५.०४॥ अनियतग्चारः खलु चेदुपलब्धिः सङ्ख्यया कथं तस्य । पुच्छाननाभिधानोऽन्तरेण कस्मान् न गृह्णाति ॥ ५.०५॥ अथ तु भुजगेन्द्रग्रूपः पुच्छेन मुखेन वा स गृह्णाति । मुखपुच्छान्तरसंस्थं स्थगयति कस्मान् न भगणार्धम् ॥ ५.०६॥ राहुग्द्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथ वाउदिते चन्द्रे । तत्समगतिनान्येन ग्रस्तः सूर्योऽपि दृश्यते ॥ ५.०७॥ भूग्च्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः । प्रग्रहणमतः पश्चान् नेन्दोर्भानोश्च पूर्वार्धात् ॥ ५.०८॥ वृक्षस्य स्वच्छाया यथाग्*एकपार्श्वे (K.एकपार्श्वेन) भवति *दीर्घचया । (K.दीर्घा च) निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥ ५.०९॥ सूर्यात् सप्तमग्राशौ यदि चोदग्दक्षिणेन नातिगतः । चन्द्रः पूर्वाभिमुखश्छायामौर्वीं तदा विशति ॥ ५.१०॥ चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात् । प्रतिदेशमतश्चित्रं दृष्टिग्वशाद्भास्करग्रहणम् ॥ ५.११॥ आवरणं महदिन्दोः कुण्ठविषाणस्ततोऽर्धसञ्च्छन्नः । स्वल्पं रवेर्यतोऽतस्तीक्ष्णविषाणो रविर्भवति ॥ ५.१२॥ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्यैः । राहुरकारणमस्मिन्न् इत्युक्तः शास्त्रसद्भावः ॥ ५.१३॥ योऽसौ असुरो राहुस्तस्य वरो ब्रह्मणाऽयमाज्ञप्तः । आप्यायनमुपरागे दत्तघुतांशेन ते भविता ॥ ५.१४॥ तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यते तेन ॥ ५.१५॥ न कथं चिदपि निमित्तैर्ग्रहणं विज्ञायते निमित्तानि । अन्यस्मिन्न् अपि काले भवन्त्यथोत्पातग्रूपाणि ॥ ५.१६॥ पञ्चग्रहसंयोगान् न किल ग्रहणस्य सम्भवो भवति । तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥ ५.१७॥ अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनयावनत्या च । तिथ्य्गवसानाद्वेला करणे कथितानि तानि मया ॥ ५.१८॥ षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः । ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः ॥ ५.१९॥ ब्राह्मे द्विजपशु*वृद्धिः क्षेमारोग्याणि सस्यसम्पत्च । (K.वृद्धिक्षेमारोग्याणि) तद्वत् सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च ॥ ५.२०॥ ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् । कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च ॥ ५.२१॥ वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम् । आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुग्करम् ॥ ५.२२॥ याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम् । यदतः परं तदशुभं क्षुत्ग्मारावृष्टिदं पर्व ॥ ५.२३॥ वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च । अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥ ५.२४॥ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् । स्फुटगणितविदः कालः कथञ् चिदपि नान्यथा भवति ॥ ५.२५॥ यद्येकस्मिन् मासे ग्रहणं रविग्सोमयोस्तदा क्षितिपाः । स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥ ५.२६॥ ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ । सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ॥ ५.२७॥ अर्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च । अग्न्युपजीविगुणाधिकविप्राश्रमिणो *युगेऽभ्युदितः ॥ ५.२८॥ (K.अयुगाभ्युदितः) कर्षकग्*पाखण्डि(K.पाषण्डि)वणिक्क्षत्रियबलनायकान् *द्वितीयांशे । (K.द्वितीयेऽंशे) कारुकशूद्रम्लेच्छान् खतृतीयाम्शे समन्त्रिजनान् ॥ ५.२९॥ मध्याह्ने नरपतिग्मध्यदेशहा शोभनश्च धान्यार्घः । तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ॥ ५.३०॥ स्त्रीग्शूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहास्तमयकाले । यस्मिन् खांशे मोक्षस्तत्ग्प्रोक्तानां शिवं भवति ॥ ५.३१॥ द्विजग्नृपतीन् उदगयने विट्शूद्रान् दक्षिणायने हन्ति । राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥ ५.३२॥ म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्धुताशसक्तांश्च । सलिलग्चरदन्तिघाती याम्येनोदगवामशुभः ॥ ५.३३॥ पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ ५.३४॥ पाञ्चालकलिङ्गशूरसेनाः काम्बोजोड्रकिरातशस्त्रवार्त्ताः । जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे ॥ ५.३५॥ गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः । पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथ वा वृषे ॥ ५.३६॥ मिथुने प्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः । यमुनाग्तटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ॥ ५.३७॥ आभीरान्ग्शबरान् सपह्लवान् मल्लान् मत्स्यकुरूञ् छकान् अपि । पाञ्चालान् विकलांश्च पीडयत्यन्नं चापि निहन्ति कर्कटे ॥ ५.३८॥ सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान् राजोपमान् नरपतीन् वनगोचरांश्च । षष्ठे तु सस्यकविलेखकगेयसक्तान् हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ॥ ५.३९॥ तुलाधरेऽवन्त्य्गपरान्त्यसाधून् वणिग्दशार्णान् *मरुकच्छपांश् च । (K.भरुकच्छपांश्) अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥ ५.४०॥ धन्विन्यमात्यवरवाजिविदेहमल्लान् पाञ्चालवैद्यवणिजो विषमायुधज्ञान् । हन्यान् मृगे तु झषमन्त्रिकुलानि नीचान् मन्त्राउषधीषु कुशलान् स्थविरायुधीयान् ॥ ५.४१॥ कुम्भेऽन्तर्गिरिजान् सपश्चिमग्जनान् भारोद्वहांस्तस्करान् आभीरान् दरदार्यसिंहपुरकान् हन्यात् तथा बर्बरान् । छेच्केद्) मीने सागरकूलसागरजलद्रव्याणि *वन्यान् जनान् प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद्वदेत् ॥ ५.४२॥ (K.मान्यान्) सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः । आघ्रातं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥ ५.४३॥ सव्यगते तमसि जगज्ग्जलप्लुतं भवति मुदितमभयं च । अपसव्ये नरपतिग्तस्करावमर्दैः प्रजानाशः ॥ ५.४४॥ *जिह्वोपलेढि परितस्तिमिरग्नुदो मण्डलं यदि स लेहः । (K.जिह्वेवलेढि) प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही ॥ ५.४५॥ ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथ वाप्यर्धम् । स्फीतग्नृपवित्तहानिः पीडा च स्फीतदेशानाम् ॥ ५.४६॥ पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् । स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥ ५.४७॥ अवमर्दनमिति निःशेषमेव सञ्छाद्य यदि चिरं तिष्ठेत् । हन्यात् प्रधानभूपान् *प्रधानदेशांश् च तिमिरमयः ॥ ५.४८॥ (K.प्रधानदेशान् प्रधानभूपांश्) वृत्ते ग्रहे यदि तमस्तत्क्षणमावृत्य दृश्यते भूयः । आरोहणमित्यन्योन्यमर्दनैर्भयकरं राज्ञाम् ॥ ५.४९॥ दर्पण इवैकदेशे *सबाष्प ग्निःश्वासमारुतोपहतः । (K.सवाष्प) दृश्येताघ्रातं तत् सुवृष्टिग्वृद्ध्यावहं जगतः ॥ ५.५०॥ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः तन्ग्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥ ५.५१॥ पर्यन्तेष्वतिबहुलं स्वल्पं मध्ये तमस्तमोन्त्याख्ये । सस्यानामीतिग्भयं भयमस्मिंस्तस्कराणां च ॥ ५.५२॥ श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ । अग्निग्भयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥ ५.५३॥ हरिते रोगग्*उल्बणता सस्यानामीतिभिश्च विध्वंसः । (K.उल्वणता) कपिले शीघ्रगसत्त्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥ ५.५४॥ अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा । आधूम्रे क्षेमसुभिक्षमादिशेत् मन्दवृष्टिं च ॥ ५.५५॥ कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् । कापोतः शूद्राणां व्याधिग्करः कृष्णवर्णश्च ॥ ५.५६॥ विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय । सार्चिष्मत्यग्निग्भयं गैरिकरूपे तु युद्धानि ॥ ५.५७॥ दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेत् मरकम् । अशनिग्भयसंप्रदायी *पाटल कुसुमोपमो राहुः ॥ ५.५८॥ (K.पाटलि) पांशुग्विलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च । बालग्रविकमलसुरचापरूपभृत् शस्त्रकोपाय ॥ ५.५९॥ पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्णां च । भौमः समरविमर्दं शिखिकोपं तस्करभयं च ॥ ५.६०॥ शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम् । रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥ ५.६१॥ यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा । सुरपतिगुरुणावलोकिते तत्ग्शममुपयाति जलैरिवाग्निरिद्धः ॥ ५.६२॥ ग्रस्ते क्रमान् निमित्तैः पुनर्ग्रहो मासग्षट्कपरिवृद्ध्या । पवनोल्कापातग्रजः क्षितिकम्पतमोऽशनिनिपातैः ॥ ५.६३॥ आवन्तिका जनपदाः कावेरीग्नर्मदातटाश्रयिणः । दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥ ५.६४॥ अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम् । स्त्रीग्नृपयोधकुमारान् सह विद्वद्भिर्बुधो हन्ति ॥ ५.६५॥ ग्रहणोपगते जीवे विद्वन्ग्नृपमन्त्रिगजहयध्वंसः । सिन्धुग्तटवासिनामप्युदग्दिशं संश्रितानां च ॥ ५.६६॥ भृगुतनये राहुगते *दाशेरक कैकयाः सयौधेयाः । (K.दसेरकाः) आर्यावर्त्ताः शिबयः स्त्रीग्सचिवगणाश्च पीड्यन्ते ॥ ५.६७॥ सौरे मरुग्भवपुष्कर*सौराष्ट्रिक धातवोऽर्बुदान्त्यजनाः । (K.सौराष्ट्रा) गोमन्तपारियात्राश्रिताश् च नाशं व्रजन्त्याशु ॥ ५.६८॥ (K.स्त्र्। गोमन्तः पारियात्रा) कार्त्तिक्यामनलोपजीविग्मगधान् प्राच्याधिपान् कोशलान् कल्माषान् अथ शूरसेनसहितान् काशीश्च सन्तापयेत् । *हन्याद् आशु कलिङ्गदेशग्नृपतिं सामात्यभृत्यं तमो (K.हन्याद्च) दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥ ५.६९॥ काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश्च हन्यादपरान्तकांश्च । ये सोमपास्तांश्च निहन्त्य्सौम्ये सुवृष्टिग्कृत् क्षेमसुभिक्षकृत्च ॥ ५.७०॥ पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः । ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुतम् ॥ ५.७१॥ माघे तु मातृग्पितृभक्तवसिष्ठगोत्रान् स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गान् । वङ्गाङ्गकाशिमनुजांश्च दुनोति राहुर् वृष्टिं च कर्षकजनग्*अभिमतां करोति ॥ ५.७२॥ (K.अनुमतां) पीडाग्करं फाल्गुनमासि पर्व *वङ्गाश्मकावन्तिक मेकलानाम् । (K.वन्तक) *नृत्यज्ञ ग्सस्यप्रवराङ्गनानां धनुष्करक्षत्रतपस्विनां च ॥ ५.७३॥ (K.नृत्तज्ञ) *चैत्र्यां तु चित्रकरलेखगेयसक्तान् (K.चैत्रे) रूपोपजीविग्निगमज्ञहिरण्यपण्यान् । पौण्ड्राउड्रकैकयजनान् अथ चाश्मकांश्च तापः स्पृशत्यमरपोऽत्र विचित्रवर्षी ॥ ५.७४॥ वैशाखग्*मासे ग्रहणे विनाशमायान्ति कर्पासतिलाः समुद्गाः । (K.मासि) इक्ष्वाकुग्यौधेयशकाः कलिङ्गाः *सोपप्लवाः किन्तु सुभिक्षमस्मिन् ॥ ५.७५॥ (K.सोपद्रवाः) ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च । (K.ज्यैष्ठे) प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसङ्घाः ॥ ५.७६॥ आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान् । गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेद्मण्डलवर्षमस्मिन् ॥ ५.७७॥ काश्मीरान् सपुलिन्दग्चीनयवनान् हन्यात् कुरुक्षेत्रजान् गान्धारान् अपि मध्यदेशसहितान् वृष्टो ग्रहः श्रावणे । काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान् इमान् अन्यत्र प्रचुरान्नघृष्टमनुजैर्धात्रीं करोत्यावृताम् ॥ ५.७८॥ कलिङ्गवङ्गान् मगधान् सुराष्ट्रान् म्लेच्छान् सुवीरान् *दरदाश्मकांश् च । (K.दरदाञ् छकांश्) स्त्रीणां च गर्भान् असुरो निहन्ति सुभिक्षकृद्भाद्रपदेऽभ्युपेतः ॥ ५.७९॥ काम्बोजग्चीनयवनान् सह शल्यहृद्भिर् *बाह्लीक ग्सिन्धुतटवासिजनांश्च हन्यात् । (K.वाल्हीक) *आनर्त्त ग्पौण्ड्रभिषजश्च तथा किरातान् (K.आनर्त) दृष्टोऽसुरोऽश्वयुजि भूरिग्सुभिक्षकृच्च ॥ ५.८०॥ हनुग्कुक्षिपायुभेदा द्विर्द्विः सञ्छर्दनं च जरणं च । मध्यान्तयोश्च विदरणमिति दश शशिग्सूर्ययोर्मोक्षाः ॥ ५.८१॥ आग्नेय्यामपगमनं दक्षिणघनुभेदसंज्ञितं शशिनः । सस्यविमर्दो मुखरुग्नृपपीडा स्यात् सुवृष्टिश्च ॥ ५.८२॥ पूर्वोत्तरेण वामो हनुग्भेदो नृपकुमारभयदायी । मुखरोगं शस्त्रभयं तस्मिन् विन्द्यात् सुभिक्षं च ॥ ५.८३॥ दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन् मोक्षः । पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥ ५.८४॥ वामस्तु कुक्षिग्भेदो यद्युत्तरमार्गसंस्थितो राहुः । स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥ ५.८५॥ नैरृतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ । गुह्यग्रुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥ ५.८६॥ पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत । सञ्छर्दनमिति तत् क्षेमसस्यहार्दिप्रदं जगतः ॥ ५.८७॥ प्राक्प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम् । क्षुत्ग्शस्त्रभय*उद्विग्ना न शरणमुपयान्ति तत्र जनाः ॥ ५.८८॥ (K.उद्विग्नाः क्व) मध्ये यदि प्रकाशः प्रथमं तन् मध्यविदरणं नाम । अन्तःकोपकरं स्यात् सुभिक्षदं नातिवृष्टिकरम् ॥ ५.८९॥ पर्यन्तेषु विमलता बहुलं मध्ये तमोऽन्त्य ग्दरणाख्यः । (K.अन्त) मध्याख्यदेशग्नाशः शारदसस्यक्षयश्चास्मिन् ॥ ५.९०॥ एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र । पूर्वा दिक्शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥ ५.९१॥ मुक्ते सप्ताहान्तः पांशुग्निपातोऽन्नसंक्षयं कुरुते । नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ॥ ५.९२॥ उल्का मन्त्रिग्विनाशं नानावर्णा घनाश्च भयमतुलम् । स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥ ५.९३॥ परिवेषो रुक्ग्पीडां दिग्दाहो नृपभयं च साग्निभयम् । रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥ ५.९४॥ निर्घातः सुरचापं दण्डश्च क्षुद्ग्भयं सपरचक्रम् । *ग्रहयुद्धे नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥ ५.९५॥ (K.ग्रहयुद्धं) अविकृतसलिल*निपातैः सप्ताहान्तः सुभिक्षमादेश्यम् । (K.निपाते) यच्चाशुभं ग्रहणजं तत् सर्वं नाशन् उपयाति ॥ ५.९६॥ सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य । तत्रानयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥ ५.९७॥ अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः । नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥ ५.९८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां राहुचाराध्यायः समाप्तः ॥ ०५॥

६ भौमचाराध्यायः

यद्युदयगृक्षाद्वक्रं करोति नवमाष्टसप्तमऋक्षेषु । तद्*वक्त्राम् उष्णमुदये पीडाग्करमग्निवार्त्तानाम् ॥ ६.०१॥ (K.वक्रमू।वक्त्रम्) द्वादशदशमैकादशनक्षत्राद्वक्रिते कुजेऽश्रुमुखम् । दूषयति रसान् उदये करोति रोगान् अवृष्टिं च ॥ ६.०२॥ व्यालं त्रयोदशगृक्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये । दंष्ट्रिग्व्यालमृगेभ्यः करोति पीडां सुभिक्षं च ॥ ६.०३॥ रुधिराननमिति वक्त्रं पञ्चदशात् षोडशाच्च विनिवृत्ते । तत्ग्कालं मुखरोगं सभयं च सुभिक्षमावहति ॥ ६.०४॥ असिग्मुशलं सप्तदशादष्टादशतोऽपि वा तदनुवक्रे । दस्युगणेभ्यः पीदां करोत्यवृष्टिं सशस्त्रभयाम् ॥ ६.०५॥ भाग्यार्यमागुदिते यदि निवर्तते वैश्वदैवते भौमः । प्राजापत्येऽस्तमितस्त्रीन् अपि लोकान् निपीडयति ॥ ६.०६॥ श्रवणोदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत् । यस्मिन्न् ऋक्षेऽभ्युदितस्तद्ग्दिग्व्यूहान् जनान् हन्ति ॥ ६.०७॥ मध्येन यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिम् ॥ ६.०८॥ भित्त्वा *मघा विशाखां भिन्दन् भौमः करोति दुर्भिक्षम् । (K.मघां) मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति ॥ ६.०९॥ दक्षिणतो रोहिण्यास्चरन् महीजोऽर्घवृष्टिनिग्रहकृत् । धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान् ॥ ६.१०॥ प्राजापत्ये श्रवणे मूले *त्रिषु चोत्तरेषु शाक्रे च । (K.तिसृषूत्तरासु) विचरन् घनग्निवहानामुपघातकरः क्षमातनयः ॥ ६.११॥ चारोदयाः प्रशस्ताः श्रवणमघाआदित्य*हस्तमूलेषु । (K.मूलहस्तेषु) एकपदाश्विग्विशाखाप्राजापत्येषु च कुजस्य ॥ ६.१२॥ विपुलविमलमूर्तिः किंशुकाशोकवर्णः स्फुटग्रुचिरमयूखस्तप्तताम्रप्रभाआभः । विचरति यदि मार्गं चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्दिदश्च प्रजानाम् ॥ ६.१३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां भौमचाराध्यायः समाप्तः ॥ ०६॥

७ बुधचाराध्यायः

नोत्पातपरित्यक्तः कदा चिदपि चन्द्रजो व्रजत्युदयम् । जलदहनपवनभयकृद्धान्यार्घक्षयविवृद्धौ वा ॥ ७.०१॥ विचरन् श्रवणधनिष्ठाप्रजापत्य(ऊ।प्राजापत्य)इन्दु*वैश्वदेवानि । (K.विश्वदैवानि) मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥ ७.०२॥ रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा । शस्त्रग्निपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥ ७.०३॥ हस्तादीनि *चरन् षडृक्षाण्युपपीडयन् गवामशुभः । (K.विचरन्) स्नेहग्रसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् ॥ ७.०४॥ आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥ ७.०५॥ आश्विनवारुणमूलान्युपमृद्नन् रेवतीं च चन्द्रसुतः । पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥ ७.०६॥ पूर्वाद्य्गृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् । क्षुत्ग्शस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ ७.०७॥ प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥ ७.०८॥ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिग्शिवपितृ*भुजगदेवानि ॥ ७.०९॥ (K.भुजगदैवानि) संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीग्द्वयं चेति । तीक्ष्णायां भद्रपदाग्द्वयं सशाक्राश्वयुक्पौष्णम् ॥ ७.१०॥ योगान्तिकागिति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः । घोरा श्रवणस्त्वाष्ट्रं *वसुदैवं वारुणं चैव ॥ ७.११॥ (K.वसुदेवं) पापाख्या सावित्रं मैत्रं शक्राग्निग्दैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ ७.१२॥ चत्वारिंशत्(४०) त्रिंशद्(३०) द्विसमेता विंशतिर्(२२) द्विनवकं(१८) च । नव(९) मासार्धं(१५) दश चैकसंयुताः(११) प्राकृताद्यानाम् ॥ ७.१३॥ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥ ७.१४॥ ऋज्वीगतिवक्रावक्रा विकला च मतेन देवलस्यैताः । पञ्चग्चतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥ ७.१५॥ ऋज्वी हिता प्रजानां *अतिवक्राऽर्घं गतिर्विनाशयति । (K.अतिवक्रार्थं) शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥ ७.१६॥ पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु । वृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु ॥ ७.१७॥ *कार्तिके ऽश्वयुजि वा यदि मासे दृश्यते तनुग्भवः शिशिरांशोः । (K.कार्त्तिके) शस्त्रग्चौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ७.१८॥ रुद्धानि सौम्येऽस्तगते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् । (K.अस्तमिते) अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ज्ञाः ॥ ७.१९॥ हेमकान्तिरथ वा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृत् शशिपुत्रः ॥ ७.२०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां बुधचाराध्यायः समाप्तः ॥ ०७॥

८ बृहस्पतिचाराध्यायः

नक्षत्रेण सहोदयमुपगच्छति येन देवपतिग्मन्त्री । तत्ग्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥ ८.०१॥ वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि । क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥ ८.०२॥ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च । वृद्धिस्तु रक्तपीतककुसुमानां कार्त्तिके वर्षे ॥ ८.०३॥ सौम्येऽब्देऽनावृष्टिर्मृगाखुग्शलभाण्डजैश्च सस्यवधः । व्याधिग्भयं मित्रैरपि भूपानां जायते वैरम् ॥ ८.०४॥ शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः । द्विग्त्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥ ८.०५॥ पितृपूजाग्परिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् । आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥ ८.०६॥ फाल्गुनवर्षे विन्द्यात् क्व चित् क्व चित् क्षेमवृष्टिसस्यानि । दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥ ८.०७॥ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः । वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥ ८.०८॥ वैशाखे *धर्मग्रता विगतभयाः प्रमुदिताः प्रजाः सनृपाः । (K.धर्मपरा) यज्ञक्रियाप्रावृत्तिर्निष्पत्तिः सर्वसस्यानाम् ॥ ८.०९॥ ज्यैष्ठे जातिग्कुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः । पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥ ८.१०॥ आषाढे जायन्ते सस्यानि क्व चिदवृष्टिरन्यत्र । योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥ ८.११॥ श्रावणवर्षे क्षेमं सम्यक्सस्यानि पाकमुपयान्ति । क्षुद्रा ये *पाखण्डाः पीड्यन्ते ये च तद्ग्भक्ताः ॥ ८.१२॥ (K.पाषण्डाः) भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च । न भवत्यपरं सस्यं क्व चित् सुभिक्षं क्वचिच्च भयम् ॥ ८.१३॥ आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणग्चयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥ ८.१४॥ उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्ग्विपरीतो मध्येन तु मध्यफलदायी ॥ ८.१५॥ विचरन् भद्वयमिष्टस्तत्सार्धं वत्सरेण मध्यफलः । सस्यानां विध्वंसी विचरेदधिकं यदि कदा चित् ॥ ८.१६॥ अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे । हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥ ८.१७॥ धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे । विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥ ८.१८॥ रोहिण्योऽनलभं च वत्सरतनुर्नाभिस्त्वषाढद्वयं सार्पं हृत्ग्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् । देहे क्रूरग्निपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥ ८.१९॥ गतानि वर्षाणि शकेन्द्रकालाद् धतानि रुद्रैर्गुणयेच्चतुर्भिः । नवाष्टपञ्चाष्ट(८५८९)युतानि कृत्वा विभाजयेच्ग्शून्यशरागरामैः(३७५०) ॥ ८.२०॥ *लब्धेन युक्तं शकभूपकालं (K.फलेन) संशोध्य षष्ट्या विषयैर्विभज्य । युगानि नारायणपूर्वकाणि लब्धानि शेषाः क्रमशः समाः स्युः ॥ ८.२१॥ एकैकमब्देषु नवाहतेषु दत्त्वा पृथद्वादशकं क्रमेण । हृत्वा चतुर्भिर्वसुदेवतागाद्यान्युडूनि शेषांशकपूर्वमब्दम् ॥ ८.२२॥ विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरप्रोष्ठपदाधिपश्च । क्रमाद्युगेशाः पितृग्विश्व*सोम शक्रानलाख्याश्विभगाः प्रदिष्टाः ॥ ८.२३॥ (K.सोमाः) संवत्सरोऽग्निः परिवत्सरोऽर्क इदागादिकः शीतमयूखमाली । प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥ ८.२४॥ वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये । पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम् ॥ ८.२५॥ चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रग्जीवानलदैवतानि । चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विन्द्यात् ॥ ८.२६॥ आद्यं धनिष्टांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः । षष्ट्य्गब्दपूर्वः प्रभवः स नाम्ना *प्रपद्यते भूतहितस्तदाब्दः ॥ ८.२७॥ (K.प्रवर्तते) क्व चित् त्ववृष्टिः पवनाग्निग्कोपः सन्तिईतयः श्लेष्मकृताश्च रोगाः । संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि ॥ ८.२८॥ तस्माद्द्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः । प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलान्य्*अथैषाम् ॥ ८.२९॥ (K.चैषाम्) निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम् । संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥ ८.३०॥ आद्योऽङ्गिराः श्रीमुखभावसाआह्वौ *युवा सुधातेति युगे द्वितीये । (K.युवाथ धातेति) वर्षाणि पञ्चैव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे ॥ ८.३१॥ त्रिष्व्*आद्यवर्षेषु(K.अङ्गिराद्येषु, K.स्त्र्। आद्यवर्षेषु) निकामवर्षी देवी निरातङ्क*भयश् च लोकः । (K.भयाश्) दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्च ॥ ८.३२॥ शाक्रे युगे पूर्वमथगीश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः । प्रमाथिनं विक्रममप्य्*अथान्यद् वृषं च विन्द्याद्गुरुचारयोगात् ॥ ८.३३॥ (K.अतोऽन्यद्) आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् । पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥ ८.३४॥ श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् । मध्यं द्वितीयं तु सुभानुग्संज्ञं रोगप्रदं मृत्युकरं *न तं च ॥ ८.३५॥ (K.न तच्च) तारणं तद्गनु भूरिवारिदं सस्यवृद्धि*मुदिताति पार्थिवम् । (K.मुदितं च) पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥ ८.३६॥ त्वाष्ट्रे युगे सर्वजिद्गाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी । तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥ ८.३७॥ नन्दनोऽथ विजयो जयस्तथा मन्मथोऽस्य परतश्च दुर्मुखः । कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः ॥ ८.३८॥ हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च । शर्वरीति तद्गनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥ ८.३९॥ *ईतिग्प्राया प्रचुरपवना वृष्टिरब्दे तु पूर्वे (K.इतिप्रायः) मन्दं सस्यं न बहुग्सलिलं वत्सरेऽतो द्वितीये । अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरिग्तोयः ॥ ८.४०॥ वैश्वे युगे *शोकहृद् इत्यथाद्यः संवत्सरोऽतः शुभकृद्द्वितीयः । (K.शोभकृद्) क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥ ८.४१॥ पूर्वाग्परौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः । अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगोभयं च ॥ ८.४२॥ आद्यः प्लवङ्गो नवमे युगेऽब्दः स्यात् कीलकोऽन्यः परतश्च सौम्यः । साधारणो रोधकृदित्य्*अथैवं शुभप्रदौ कीलकसौम्यसंज्ञौ ॥ ८.४३॥ (K.अथाब्दः) कष्टः प्लवङ्गो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च । यः पञ्चमो रोधकृदित्यथाब्दश्चित्रं जलं तत्र च सस्यसम्पत् ॥ ८.४४॥ इन्द्राग्निदैवं दशमं युगं यत् *तत्राद्यवर्षं परिधाविसंज्ञम् । (K.तराद्यमब्दं) *प्रमादिनं विक्रममप्यतोऽन्यत् स्याद्राक्षसं चानलसंज्ञितं च ॥ ८.४५॥ (K.प्रमाद्यथानन्दमतः परं यत्) परिधाविनि मध्यदेशग्नाशो नृपहानिर्जलमल्पमग्निकोपः । अलसस्तु जनः प्रमादिग्संज्ञे डमरं रक्तकपुष्पबीजनाशः ॥ ८.४६॥ *विक्रमः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा । (K.तत्परः) ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः ॥ ८.४७॥ एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च । आद्ये तु व्षृटिर्महती सचौरा श्वासो हनूग्कम्पयुतश्च कासः ॥ ८.४८॥ यत् कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च । रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः ॥ ८.४९॥ भाग्ये युगे दुन्दुभिग्संज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति । *अङ्गारसंज्ञं तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ॥ ८.५०॥ (K.उद्गारिसंज्ञं) रक्ताक्षमब्दं कथितं तृतीयं तस्मिन् भयं दंष्ट्रिग्कृतं गदाश्च । क्रोधं बहुग्क्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ॥ ८.५१॥ क्षयमिति युगस्यान्त्यस्यान्त्यं बहुग्क्षयकारकं जनयति भयं तद्ग्विप्राणां कृषीबलवृद्धिदम् । उपचयकरं विट्शूद्राणां परस्वहृतां तथा कथितमखिलं षष्ट्य्गब्दे यत् तदत्र समासतः ॥ ८.५२॥ अकलुषांशुग्जटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः । ग्रहघतो न यदि सत्पथवर्ती *हितकरो ऽमरगुरुर्मनुजानाम् ॥ ८.५३॥ (K.हतकिरो) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां बृहस्पतिचाराध्यायः समाप्तः ॥ ०८॥

९ शुक्रचाराध्यायः

नागगजाइरावतवृषभगोजरद्गवमृगाजदहनाख्याः । अश्विन्य्गाद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः ॥ ९.०१॥ नागा तु पवनयाम्यानलानि पैतामहात् त्रिभास्तिस्रः । गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥ ९.०२॥ जारद्गव्यां श्रवणात् त्रिभं मृगाख्या त्रिभं तु मैत्राद्यम् । हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना ॥ ९.०३॥ तिस्रस्तिस्रस्तासां क्रमादुदङ्ग्मध्ययाम्यमार्गस्थाः । तासामप्युत्तरमध्य*दक्षिणेन स्थितैकैका ॥ ९.०४॥ (K.दक्षिणावस्थितैकैका) वीथीग्मार्गान् अपरे कथयन्ति यथास्थितान् भमार्गस्य । नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ॥ ९.०५॥ उत्तरमार्गो याम्यादि निगदितो मध्यमस्तु भाग्याद्यः । दक्षिणमार्गोआषाढाआदि कैश्चिदेवं कृता मार्गाः ॥ ९.०६॥ *ज्यौतिषम् आगमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । (K.ज्योतिसम्) स्वयमेवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ॥ ९.०७॥ उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं *च । (K.वा) मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥ ९.०८॥ अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् । *कष्टतरं सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् ॥ ९.०९॥ (K.कष्टतमं) भरणीग्पूर्वं मण्डलं ऋक्षचतुष्कं सुभिक्षकरमाद्यम् । वङ्गाङ्गमहिष*बाह्लिक कलिङ्गदेशेषु भयजननम् ॥ ९.१०॥ (K.वाह्लिक) अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात् । भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥ ९.११॥ भचतुष्टयमार्द्रागाद्यं द्वितीयममिताम्बुसस्यसम्पत्त्यै । विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥ ९.१२॥ अन्येनात्राक्रान्ते म्लेच्छाग्*आटविक श्वजीविगोमन्तान् । (K. ऊ।आतविका) गोनर्दग्नीचशूद्रान् वैदेहांश्चानयः स्पृशति ॥ ९.१३॥ विचरन् मघागादिपञ्चकमुदितः सस्यप्रणाशकृत्शुक्रः । क्षुत्ग्तस्करभयजननो नीचोन्नतिसङ्करकरश्च ॥ ९.१४॥ पित्र्याद्येऽवष्टब्धो हन्त्यन्येनाविकान् शबरशूद्रान् । पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥ ९.१५॥ स्वात्य्गाद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् । ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ॥ ९.१६॥ अत्राक्रान्ते मृत्युः किरातभर्तुःग्पिनष्टि चेक्ष्वाकून् । प्रत्यन्तावन्तिग्पुलिन्दतङ्गणान् शूरसेनांश्च ॥ ९.१७॥ ज्येष्ठागाद्यं पञ्चऋक्षं क्षुत्तस्कररोगदं प्रबाधयते । काश्मीराश्मकमत्स्यान् सचारुदेवीन् अवन्तींश्च ॥ ९.१८॥ अत्रारोहेद्द्रविडाम्बष्ठ)ग्त्रिगर्तसौराष्ट्रान् । नाशयन्ति सिन्धुग्सौवीरकांश्च काशिईश्वरस्य वधः ॥ ९.१९॥ षष्ठं षण्नक्षत्रं शुभमेतन् मण्डलं धनिष्ठागाद्यम् । भूरिग्धनगोकुलाकुलमनल्पधान्यं क्व चित् सभयम् ॥ ९.२०॥ अत्रग्*आरोहेच् शूलिकगान्धारावन्तयः प्रपीड्यन्ते । (K.आरोहे) वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥ ९.२१॥ अपरस्यां स्वात्य्गाद्यं ज्येष्ठाआद्यं चापि मण्डलं शुभदम् । पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥ ९.२२॥ दृष्टोऽनस्तमिते भयकृत् क्षुद्रोगकृत् समस्तमहः । (K.ऽनस्तगतेऽर्के) *अर्धदिवसे च सेन्दुर्नृपबलपुरभेदकृत्शुक्रः ॥ ९.२३॥ (K.अर्थदिवसं) भिन्दन् गतोऽनलगृक्षं कूलातिक्रान्तवारिवाहाभिः । अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ॥ ९.२४॥ प्राजापत्ये शकटे भिन्ने कृत्वागिव पातकं वसुधा । केशास्थिग्शकलशबला कापालमिव व्रतं धत्ते ॥ ९.२५॥ सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः । आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥ ९.२६॥ अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महान् अनयः । पुष्ये पुष्टा वृष्टिर्*विद्याधररण(ऊ।विद्याधर)ग्विमर्दश्च ॥ ९.२७॥ आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः । भिन्दन् मघां महामात्रदोषकृद्भूरिवृष्टिकरः ॥ ९.२८॥ भाग्ये शबरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय । आर्यम्णे कुरुग्जाङ्गलपाञ्चालघ्नः सलिलदायी ॥ ९.२९॥ कौरवग्चित्रकराणां हस्ते पीडा जलस्य च निरोधः । कूपकृद्गण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥ ९.३०॥ स्वातौ प्रभूतवृष्टिर्दूतवणिग्नाविकान् स्पृशत्यनयः । ऐन्द्राग्नेऽपि सुवृष्टिर्वणिजां च भयं विजानीयात् ॥ ९.३१॥ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥ ९.३२॥ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति । श्रवणे श्रवणव्याधिः *पाखण्डि भयं धनिष्ठासु ॥ ९.३३॥ (K.पाषण्डि) शतभिषजि शौण्डिकानां *अजैकभे(K.अजैकपे) द्यूतजीविनां *पीडां । (K.पीडा) कुरुग्पाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥ ९.३४॥ आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् । अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥ ९.३५॥ *चतुर्दशीं पञ्चदशीं तथाष्टमीं(K.चतुर्दशे पञ्चदशे तथाष्टमे) तमिस्रपक्षस्य *तिथिं भृगोः सुतः । (K.तिथौ) यदा व्रजेद्दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ॥ ९.३६॥ गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा । तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् ॥ ९.३७॥ यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः । नृग्नागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ॥ ९.३८॥ न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्न रता द्विजातयः । न चाल्पमप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् ॥ ९.३९॥ शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः । पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदोद्भवैः ॥ ९.४०॥ निहन्ति शुक्रः क्षितिजेऽग्रतः *प्रजां हुताशशस्त्रक्षुदवृष्टितस्करैः । (K.प्रजा) चराचरं व्यक्तमथोत्तरापथं दिशोऽग्निग्विद्युद्रजसा च पीड्येत् ॥ ९.४१॥ बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् । दिशं च पूर्वां करकासृजोऽम्बुदा गले गदा भूरि भवेच्च शारदम् ॥ ९.४२॥ सौम्योऽस्तोदयोः पुरो भृगुसुतस्यावस्थितस्तोयकृद् रोगान् पित्तजग्*कामलांश्(K.कामलां K.स्त्र्। कामलाम्शोर्कामलाश्) च कुरुते पुष्णाति च *ग्रैष्मिकान् । (K.ग्रैष्मिकम्) हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ॥ ९.४३॥ शिखिग्भयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद्भस्मरूक्षासिताभे ॥ ९.४४॥ दधिग्कुमुदशशाङ्ककान्तिभृत् स्फुटविकसत्किरणो बृहत्तनुः । सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥ ९.४५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शुक्रचाराध्यायः समाप्तः ॥ ०९॥

१० शनैश्चरचाराध्यायः

श्रवणानिलघस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य । प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥ १०.०१॥ अहिग्वरुणपुरन्दरदैवतेषु सुक्षेमकृन् न चातिजलम् । क्षुत्ग्शस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥ १०.०२॥ तुरगतुरगोपचारककविवैद्यामात्यहार्कजोऽश्विगतः । याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ॥ १०.०३॥ बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्चमूपाश्च । रोहिण्यां कोशलमद्रकाशिपञ्चालशाकटिकाः ॥ १०.०४॥ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशास्च । रौद्रस्थे *पारतरमठास्तैलिकरजक चौराश्च ॥ १०.०५॥ (K.पारतरातैलिकरजक) आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः । पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि ॥ १०.०६॥ सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः । शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥ १०.०७॥ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः । आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला ॥ १०.०८॥ हस्ते नापितग्चाक्रिकचौरभिषक्सूचिका द्विपग्राहाः । बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥ १०.०९॥ चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि । स्वातौ मागधग्चरदूतसूतपोतप्लवनटाद्याः ॥ १०.१०॥ ऐन्द्राग्नाख्ये त्रैगर्तग्चीनकौलूतकुङ्कुमं लाक्षा । सस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति ॥ १०.११॥ मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः । उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥ १०.१२॥ ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः । मूले तु काशिग्कोशलपाञ्चालफलाउषधीयोधाः ॥ १०.१३॥ आप्येऽङ्गवङ्गकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च । उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥ १०.१४॥ विश्वेश्वरेऽर्कपुत्रश्चरन् दशार्णान् निहन्ति यवनांश्च । उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च ॥ १०.१५॥ श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिङ्गान् । वसुभे मगधेशग्जयो वृद्धिश्च धनेष्वधिकृतानाम् ॥ १०.१६॥ साजे शतभिषजि भिषक्ग्कविशौण्डिकपण्यनीति*वृत्तीनाम् । (K.वर्त्तानाम्) आहिर्बुध्न्ये नद्यो यानकराः स्त्रीघिरण्यं च ॥ १०.१७॥ रेवत्यां राजभृताः क्रौञ्चद्वीपाश्रिताः शरत्सस्यम् । शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥ १०.१८॥ यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनऋक्षयातः । तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोर्भमेकम् ॥ १०.१९॥ अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः । शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥ १०.२०॥ वैदूर्यकान्तिग्विमलः शुभकृत् प्रजानां बाणातसीकुसुमवर्णनिभश्च शस्तः । *यं चापि वर्णमुपगच्छति तत्सवर्णान् (K.पञ्चापि) सूर्यात्मजः क्षयतीति मुनिग्प्रवादः ॥ १०.२१॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शनैश्चरचाराध्यायः समाप्तः ॥ १०॥

११ केतुचाराध्यायः

गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च । अन्यांश्च बहून् दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥ ११.०१॥ दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम् । दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥ ११.०२॥ अहुताशेऽनलरूपं यस्मिंस्तत्ग्केतुरूपमेवोक्तम् । खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥ ११.०३॥ ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते । दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥ ११.०४॥ शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् । बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥ ११.०५॥ यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् । उदयास्तमयैः स्थानैः स्पर्शैराधूमनैर्वर्णैः ॥ ११.०६॥ यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः । मासैरब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः ॥ ११.०७॥ ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः । उदितोऽथ वाभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥ ११.०८॥ (K.वाप्यभिदृष्टः) उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥ ११.०९॥ हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः । प्रागपरदिशोर्दृश्या नृपतिग्विरोधावहा रविजाः ॥ ११.१०॥ शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः । आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥ ११.११॥ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः । दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च ॥ ११.१२॥ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः । क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैलनिभाः ॥ ११.१३॥ शशिकिरणग्रजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः । उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥ ११.१४॥ ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः । अनियतदिक्संप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ॥ ११.१५॥ शतमभिहितमेकसमेतमेतदेकेन विरहितान्यस्मात् । कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥ ११.१६॥ सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः । विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥ ११.१७॥ स्निग्धाः प्रभाग्समेता द्विशिखाः षष्टिः शनैश्चराङ्गरुहाः । अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥ ११.१८॥ विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः । षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः ॥ ११.१९॥ नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथागिष्टदिक्प्रभवाः । बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥ ११.२०॥ क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः । नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ॥ ११.२१॥ त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः । रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥ ११.२२॥ विंशत्यधिकमन्यत्ग्शतमग्नेर्विश्वरूपसंज्ञानाम् । तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥ ११.२३॥ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः । अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ॥ ११.२४॥ तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ । द्वे च शते चतुरधिके *चतुरस्रा ब्रह्मसन्तानाः ॥ ११.२५॥ (K.चतुरश्रा) कङ्का नाम वरुणजा द्वात्रिंशद्ग्वंशगुल्मसंस्थानाः । शशिवत्ग्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥ ११.२६॥ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः । *पुण्ड्र गभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥ ११.२७॥ (K.चण्ड) शुक्लविपुलैकतारा नव विदिशां केतवः समुत्पन्नाः । एवं केतुग्सहस्रं विशेषमेषामतो वक्ष्ये ॥ ११.२८॥ उदगायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः । सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥ ११.२९॥ तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्ग्भयावहः प्रोक्तः । स्निग्धस्तादृक्प्राच्यां शस्त्राख्यो डमरमरकाय ॥ ११.३०॥ दृश्योऽमावास्यायां कपालकेतुः सधूम्रग्रश्मिशिखः । प्राङ् नभसोऽर्धविचारी क्षुत्ग्मरकावृष्टिरोगकरः ॥ ११.३१॥ प्राग्*वैश्वानर मार्गे शूलाग्रः श्यावग्रूक्षताम्रार्चिः । (K.वश्वानर, K.स्त्र्। वैश्वानर) नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥ ११.३२॥ अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रितया । गच्छेद्यथा यथोदक्तथा तथा दैर्घ्यमायाति ॥ ११.३३॥ सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः । नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥ ११.३४॥ हन्यात् प्रयागकूलाद्यावदवन्तीं च *पुष्करारण्यम् । (K.पुष्कराण्यम्) उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ॥ ११.३५॥ अन्यान् अपि स देशान् क्व चित् क्व चिद्धन्ति रोगदुर्भिक्षैः । दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ॥ ११.३६॥ प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च । क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ॥ ११.३७॥ स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः । दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥ ११.३८॥ श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः । विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥ ११.३९॥ आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः । ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥ ११.४०॥ ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् । दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥ ११.४१॥ सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् । गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥ ११.४२॥ कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्शिखो निशामेकाम् । दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥ ११.४३॥ सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः । ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ॥ ११.४४॥ उदयन्न् एव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् । प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥ ११.४५॥ जलकेतुरपि च पश्चात् स्निग्धः शिखयापरेण चोन्नतया । नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥ ११.४६॥ भवकेतुरेकरात्रं दृश्यः प्राक्सूक्ष्मतारकः स्निग्धः । हरिलाङ्गूलोपमया प्रदक्षिणावर्तया शिखया ॥ ११.४७॥ यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेत्ग्मासान् । तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥ ११.४८॥ अपरेण पद्मकेतुर्मृणालगौरो भवेन् निशामेकाम् । सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ॥ ११.४९॥ आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः । यावत् क्षणान् स दृश्यस्तावन् मासान् सुभिक्षकरः ॥ ११.५०॥ पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः । आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥ ११.५१॥ यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति । भूपान् शस्त्रग्निपातैरुदयऋक्षं चापि पीडयति ॥ ११.५२॥ ये शस्तास्तान् हित्वा केतुभिर्*आधूपिते ऽथ वा स्पृष्टे । (K.आधूमिते) नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥ ११.५३॥ अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् । बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ॥ ११.५४॥ औशीनरमपि सौम्ये जलजाजीवाधिपं तथार्द्रासु । आदित्येऽश्मक*नाथान् पुष्ये मघधाधिपं हन्ति ॥ ११.५५॥ (K.नाथं) असिकेशं भौजङ्गे पित्र्येऽङ्गं पाण्ड्यनाथमपि भाग्ये । *औज्जयिनिकम् आर्यम्णे सावित्रे दण्डकाधिपतिम् ॥ ११.५६॥ (K.औज्जयनिकम्) चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ज्ञः । काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥ ११.५७॥ इक्ष्वाकुरलक*नाथश् च हन्यते यदि भवेद्विशाखासु । (K.नाथौ, K.स्त्र्। नाथो) मैत्रे पुण्ड्राधिपतिर्*ज्येष्ठासु च सार्वभौमवधः ॥ ११.५८॥ (K.ज्येष्ठास्वथ) मूलेऽन्ध्रमद्रकपती जलदेवे काशिपो मरणमेति । यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे च ॥ ११.५९॥ हन्यात् कैकयनाथं पाञ्चनदं सिंहलाधिपं वाङ्गम् । नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमशः ॥ ११.६०॥ उल्काभिताडितशिखः शिखी शिवः शिवतरोऽतिदृष्टो यः । (K.अभिवृष्टो) अशुभः स एव चोलावगाणसितहूणचीनानाम् ॥ ११.६१॥ नम्रा यतः शिखिग्शिखाभिसृता यतो वा ऋक्षं च यत् स्पृशति तत् कथितांश्च देशान् । दिव्यप्रभावनिहतान् स यथा गरुत्मान् भुङ्क्ते गतो नरपतिः परभोगिभोगान् ॥ ११.६२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां केतुचाराध्यायः समाप्तः ॥ ११॥

१२ अगस्त्यचाराध्यायः

समुद्रोऽन्तः शैलैर्मकरग्नखरोत्खातशिखरैः कृतस्तोयोच्छित्त्या सपदि सुतरां येन रुचिरः । पतन् मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिवहैः सुरान् प्रत्यादेष्टुं *मित ग्मुकुटरत्नान् इव पुरा ॥ १२.०१॥ (K.सित) येन चाम्बुहरणेऽपि विद्रुमैर्भूधरैः समणिरत्नविद्रुमैः । निर्गतैस्तद्गुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥ १२.०२॥ प्रस्फुरत्ग्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः । आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥ १२.०३॥ प्रचलत्ग्तिमिशुक्तिजशङ्खचितः सलिलेऽपहृतेऽपि पतिः सरिताम् । सतरङ्गसितोत्पलहंसभृतः सरसः शरदीव विभर्ति *रुचिम् ॥ १२.०४॥ (K.रुचम्) तिमिग्सिताम्बुधरं मणितारकं स्फटिकचन्द्रमनम्बुशरद्द्युतिः । फणिग्फणोपलरश्मिशिखिग्रहं कुटिलगेशवियच्च चकार यः ॥ १२.०५॥ दिनकरग्रथमार्गविच्छित्तयेऽभ्युद्यतं यच्चलत्श‍ृङ्गमुद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्ताङ्कदेहावलम्बाम्बर*अत्य् उच्छ्रितोद्धूयमानध्वजैः शोभितम् । (K.अभ्य्) करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनोत्तमाङ्गैः कृतान् बाणपुष्पैरिवोत्तंसकान् धारयद्भिर्मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम् । गगनतलमिवोल्लिखन्तं प्रवृद्धैर्गजाकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफावली*हृष्ट मन्द्रस्वनैः शैलकूटैस्तरक्षऋक्षशार्दूलशाखामृगाध्यासितैः । (K.गीत) रहसि मदनसक्तया रेवया कान्तयागिवोपगूढं सुराध्यासितोद्यानमम्भोशनान्नमूलानिलाहारविप्रान्वितं विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम् ॥ १२.०६॥ उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि । हृदयानि सतामिव स्वभावात् पुनरम्बूनि भवन्ति निर्मलानि ॥ १२.०७॥ पार्श्वद्वयाधिष्ठितग्चक्रवाकामापुष्णती सस्वनहंसपङ्क्तिम् । ताम्बूलग्रक्तोत्कषिताग्रदन्ती विभाति योषाइव *शरत् सहासा ॥ १२.०८॥ (K.सरित्) इन्दीवरासन्नसितोत्पलान्विता *शरद् भ्रमत्षट्पदपङ्क्तिभूषिता । (K.सरित्) सभ्रूलताक्षेपकटाक्षवीक्षणा विदधयोषागिव विभाति सस्मरा ॥ १२.०९॥ इन्दोः पयोदविगमोपहितां विभूतिं द्रष्टुं तरङ्गवलया कुमुदं निशासु । उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवासिततारकान्तम् ॥ १२.१०॥ नानाग्विचित्राम्बुजहंसकोककारण्डवापूर्णतडागहस्ता । रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्ने ॥ १२.११॥ सलिलममरपाज्ञयागुज्झितं यद्धनपरिवेष्टितमूर्तिभिर्भुजङ्गैः । फणिग्जनितविषाग्निसंप्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥ १२.१२॥ स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिर्वरुणाङ्गरुहः । मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ १२.१३॥ सङ्ख्याविधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः । तच्चग्*उज्जयिन्याम् अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य ॥ १२.१४॥ (K.उज्जयन्याम्) ईषत्प्रभिन्नेऽरुणरश्मिजालैर्नैशेऽन्धकारे दिशि दक्षिणस्याम् । सांवत्सरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥ १२.१५॥ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च रत्नैश्च सागरभवैः कनकाम्बरैश्च । धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैर् दध्य्गक्षतैः सुरभिधूपविलेपनैश्च ॥ १२.१६॥ नरपतिरिममर्घं श्रद्दधानो दधानः प्रविगतगददोषो निर्जितारातिपक्षः । भवति यदि च दद्यात् सप्त वर्षाणि सम्यग् जलनिधि*रशनायाः स्वामितां याति भूमेः ॥ १२.१७॥ (K.रसनायाः) द्विजो यथालाभमुपाहृतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान् । वैश्यश्च गां भूरि घनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥ १२.१८॥ रोगान् करोति परुषः कपिलस्त्ववृष्टिं धूम्रो गवामशुभकृत् स्फुरणो भयाय । माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च कुर्यादणुश्च पुररोधमगस्त्यनामा ॥ १२.१९॥ शातकुम्भसदृशः स्फटिकाभस्तर्पयन्न् इव महीं *किरणाग्रैः । (K.किरणौघैः) दृश्यते यदि *तदा प्रचुरान्ना भूर्भवत्यभयग्रोगजनाढ्या ॥ १२.२०॥ (K.ततः) उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव *विधत्ते । (K.धत्ते) दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥ १२.२१॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां अगस्त्यचाराध्यायः समाप्तः ॥ १२॥

१३ सप्तर्षिचाराध्यायः

सैकावलीव राजति ससितोत्पलमालिनी सहासेव । नाथवतीव च दिग्यैः कौवेरी सप्तभिर्मुनिभिः ॥ १३.०१॥ ध्रुवनायकोपदेशान् *नरिनर्ती गिवोत्तरा भ्रमद्भिश्च । (K.नरिनर्त्ती) यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ १३.०२॥ आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्ञश्च ॥ १३.०३॥ एकैकस्मिन्न् ऋक्षे शतं शतं ते चरन्ति वर्षाणाम् । *प्रागुदयतोऽप्यविवराद्र्जून् नयति तत्र संयुक्ताः ॥ १३.०४॥ (K.प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः) पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् । तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥ १३.०५॥ पुलहः क्रतुरिति भगान् आसन्ना अनुक्रमेण *पूर्वाद्यात् । (K.पूर्वाद्याः) तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥ १३.०६॥ उल्काशनिग्धूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः । हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥ १३.०७॥ गन्धर्वदेवदानवमन्त्राउषधिसिद्धयक्षनागानाम् । पीडाकारो मरीचिर्ज्ञेयो विद्याधराणां च ॥ १३.०८॥ शकयवनदरदपारतकाम्बोजांस्तापसान् वनोपेतान् । हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥ १३.०९॥ अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः । अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ॥ १३.१०॥ रक्षःग्पिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य । पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञभृतः ॥ १३.११॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सप्तर्षिचाराध्यायः समाप्तः ॥ १३॥

१४ नक्षत्रकूर्माध्यायः

नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा । भारतवर्षे *मध्य ग्प्रागादिविभाजिता देशाः ॥ १४.०१॥ (K.मध्यात्) भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसङ्ख्याताः । मरुग्वत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ १४.०२॥ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च । गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥ १४.०३॥ साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः । औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥ १४.०४॥ अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ॥ १४.०५॥ खसमगधशिबिरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः । प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ॥ १४.०६॥ उदयगिरिग्भद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः । एकपदग्*ताम्रलिप्तक कोशलका वर्धमानाश्च ॥ १४.०७॥ (K.तामलिपितक) आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः । शौलिकविदर्भवत्सान्ध्रचेदिकाश्चऊर्ध्वकण्ठाश्च ॥ १४.०८॥ वृषग्नालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी । श्मश्रुधरग्*हेमकुड्य व्यालग्रीवा महाग्रीवाः ॥ १४.०९॥ (K.हेमकूट्य) किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः । सह नग्नपर्णशबरैराश्लेषाद्ये त्रिके देशाः ॥ १४.१०॥ अथ दक्षिणेन लङ्काग्कालाजिनसौरिकीर्णतालिकटाः । गिरिनगरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः ॥ १४.११॥ कङ्कटग्*कङ्कण वनवासिशिबिकफणिकारकोङ्कणाभीराः । (K.टङ्कण) आकरवेणा*आवर्तक दशपुरगोनर्दकेरलकाः ॥ १४.१२॥ (K.आवन्तक) कर्णाटमहाटविचित्रकूटनासिक्यकोल्लगिरिचोलाः । क्रौञ्चद्वीपग्जटाधरकावेर्यो रिष्यमूकश्च ॥ १४.१३॥ वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः । गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ॥ १४.१४॥ तुम्बवनग्*कार्मणयक याम्योदधितापसाश्रमा ऋषिकाः । (K.ऊ।कार्मणेयक) काञ्चीग्मरुचीपट्टनचेर्यार्यकसिंहला ऋषभाः ॥ १४.१५॥ बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः । कच्छोऽथ कुञ्जरदरी सताम्रपर्णीगिति विज्ञेयाः ॥ १४.१६॥ नैरृत्यां दिशि देशाः पह्लवकाम्बोजसिन्धुसौवीराः । वडवामुखारवाम्बष्ठकपिलनारीमुखानर्ताः ॥ १४.१७॥ फेणगिरिग्यवन*मार्गर कर्णप्रावेयपारशवशूद्राः । (K.माकर) बर्बरकिरातखण्ड*क्रव्याद आभीरचञ्चूकाः ॥ १४.१८॥ (K.क्रव्याश्या) हेमगिरिग्सिन्धुकालकरैवतकसुराष्ट्रबादरद्रविडाः । स्वात्य्गाद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥ १४.१९॥ अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः । अपरान्तकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥ १४.२०॥ पञ्चनदग्रमठपारततारक्षितिजृङ्गवैश्यकनकशकाः । निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ॥ १४.२१॥ दिशि पश्चिमोत्तरस्यां माण्डव्यग्*तुषार तालहलमद्राः । (K.तुखार) अश्मककुलूत*हलडाः स्त्रीराज्यनृसिंहवनखस्थाः ॥ १४.२२॥ (K.हड) वेणुमती फल्गुलुका गुलुहा मरुकुच्चग्चर्मरङ्गाख्याः । एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥ १४.२३॥ उत्तरतः कैलासो हिमवान् वसुमान् गिरिर्धनुष्मांश्च । क्रौञ्चो मेरुः कुरवस्तथागुत्तराः क्षुद्रमीनाश्च ॥ १४.२४॥ कैकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः । *आदरान्तर्द्वीपि(K.ऊ।आदर्शान्तद्वीपि)ग्त्रिगर्त*तुरगाननाः श्वमुखाः ॥ १४.२५॥ (K.तुरगाननाश्वमुखाः) केशधरग्चिपिटनासिकदासेरकवाटधानशरधानाः । तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च ॥ १४.२६॥ अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः । माणहलघूणकोहलशीतकमाण्डव्यभूतपुराः ॥ १४.२७॥ गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च । यौधेयदासमेयाः श्यामाकाः क्षेमधूर्ताश्च ॥ १४.२८॥ ऐशान्यां मेरुकग्नष्टराज्यपशुपालकीरकाश्मीराः । हिसारदरदतङ्गणकुलूत*सैरिन्ध्र वनराष्ट्राः ॥ १४.२९॥ (K.सैरिन्ध) ब्रह्मपुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः । *भल्लाः पटोल(K.भल्लापलोल)ग्जटासुर*कुनटखस घोषकुचिकाख्याः ॥ १४.३०॥ (K.कुनठखष) एकचरणग्*अनुविद्धाः(K.अनुविश्वाः) सुवर्णभूर्*वसुधनं दिविष्ठाश्च । (K.वसुवनं) पौरवग्*चीरनिवासि(K.चीरनिवासन)त्रिनेत्रमुञ्जाद्रि*गान्धर्वाः ॥ १४.३१॥ (K.गन्धर्वाः) वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः । पाञ्चालो मागधिकः कालिङ्गश्च क्षयं यान्ति ॥ १४.३२॥ आवन्तोऽथानर्तो मृत्युं चायाति सिन्धुसौवीरः । राजा च हारहौरो मद्रेशोऽन्यश्च कौणिन्दः ॥ १४.३३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्रकूर्माध्यायः समाप्तः ॥ १४॥

१५ नक्षत्रव्यूहाध्यायः

आग्नेये सितकुसुमाहिताग्निग्मन्त्रज्ञसूत्रभाष्यज्ञाः । आकरिकग्नापितद्विजघटकारपुरोहिताब्दज्ञाः ॥ १५.०१॥ रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः । गोग्वृषजलचरकर्षकशिलोच्चयाइश्वर्यसम्पन्नाः ॥ १५.०२॥ मृगशिरसि सुरभिग्वस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः । मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥ १५.०३॥ रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः । तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ॥ १५.०४॥ आदित्ये सत्याउदार्यशौचकुलरूपधीयशोऽर्थयुताः । उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥ १५.०५॥ पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः । सलिलोपजीविनः साधवश्च यज्ञेष्टिग्सक्ताश्च ॥ १५.०६॥ अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि । परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥ १५.०७॥ पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः । पितृग्भक्तवणिक्शूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥ १५.०८॥ प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि । कर्पासलवण*मक्षिक तैलानि कुमारकाश्चापि ॥ १५.०९॥ (K.ऊंआक्षिक) आर्यम्णे मार्दवशौचविनय*पाखण्डि दानशास्त्ररताः । (K.पाषण्डि) शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥ १५.१०॥ हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि । तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥ १५.११॥ त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः । गणितपटुग्तन्तुवायाः शालाक्या राजधान्यानि ॥ १५.१२॥ स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि । अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ॥ १५.१३॥ इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः । कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥ १५.१४॥ मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः । ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥ १५.१५॥ पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः । विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥ १५.१६॥ मूले भेषजभिषजो गणमुख्याः कुसुममूलफल*वार्ताः । (K.वार्त्ताः) बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ॥ १५.१७॥ आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः । सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥ १५.१८॥ विश्वेश्वरे महामात्रमल्लकरितुरगदेवता*सक्ताः । (K.भक्ताः) स्थावरयोधा भोगान्विताश्च ये *तेजसा युक्ताः ॥ १५.१९॥ (K.चौजसा) श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः । उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥ १५.२०॥ वसुभे मानोन्मुक्ताः *क्लीब(K.क्लीबाश्)गचलसौहृदाः स्त्रियां *द्वेष्याः । (K.द्वष्याः, K.स्त्र्। द्वेष्याः) दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥ १५.२१॥ वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः । सौकरिकग्रजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥ १५.२२॥ आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः । धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥ १५.२३॥ *आहिर्बुध्न्ये विप्राः क्रतुग्दानतपोयुता महाविभवाः । (K.आहिर्बुध्न्यु) आश्रमिणः *पाखण्डा नरेश्वराः सारधान्यं च ॥ १५.२४॥ (K.पाषण्डा) पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि । सुरभिग्कुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥ १५.२५॥ अश्विन्यामश्वहराः सेनापतिग्वैद्यसेवकास्तुरगाः । *तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥ १५.२६॥ (K.तुरगारोहाश्च वनिग्) याम्येऽसृक्ग्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः । तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥ १५.२७॥ पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम् ॥ १५.२८॥ आदित्यघस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति *तानि । (K.भानि) मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः *प्रभविष्णुतायाः ॥ १५.२९॥ (K.प्रभविष्णुतायाम्) सौम्याइन्द्रग्चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि । सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेर्*अभिनिर्दिशन्ति ॥ १५.३०॥ (K.इति निर्दशन्ति) रविग्रविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम् । ग्रहणगतमथोल्कया हतं नियतमुषाकरपीडितं च यत् ॥ १५.३१॥ तदुपहतमिति प्रचक्षते प्रकृतिग्विपर्यययातमेव वा । निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥ १५.३२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्रव्यूहाध्यायः समाप्तः ॥ १५॥

१६ ग्रहभक्तियोगाध्यायः

प्राङ् नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गबाह्लीकाः । शकयवनमगधशबरप्राग्ज्योतिषचीनकाम्बोजाः ॥ १६.०१॥ मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च । द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ॥ १६.०२॥ चम्पोदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च । पुण्ड्रा गोलाङ्गूलश्रीपर्वत*वर्धमानानि ॥ १६.०३॥ (K.वर्धमानाश्च) इक्षुमतीगित्यथ तस्करपारतकान्तारगोपबीजानाम् । तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥ १६.०४॥ भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् । व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ॥ १६.०५॥ गिरिग्सलिलदुर्गकोशलभरुकच्छसमुद्ररोमक*तुषाराः । (K.तुखाराः) वनवासिग्तङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ॥ १६.०६॥ मधुररसकुसुमफलसलिललवणमणिशङ्खमौक्तिकाब्जानाम् । शालिग्यवाउषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥ १६.०७॥ सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् । श‍ृङ्गिग्निशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥ १६.०८॥ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः । निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥ १६.०९॥ मन्दाकिनी पयोष्णी महानदी सिन्धुग्मालतीपाराः । उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥ १६.१०॥ द्रविडविदेहान्ध्राश्मक*भासापर कौङ्कणाः समन्त्रिषिकाः । (K.भासापुर) ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥) नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः । K.१६.१२॥ नागरकृषिकरपारतहुताशनाजीवि*शस्त्रवार्तानाम् । (K.शस्त्रवार्त्तानाम्) आटविकदुर्गकर्वट*वधिक नृशंसावलिप्तानाम् ॥ १६.१२॥ (K.वधक) नरपतिग्कुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम् । रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥ १६.१३॥ कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् । शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥ १६.१४॥ लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च । गङ्गाग्कौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥ १६.१५॥ मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः । सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥ १६.१६॥ उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः । आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥ १६.१७॥ चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः । दूतग्नपुंसकहास्यज्ञभूततन्त्रेन्द्रजालज्ञाः ॥ १६.१८॥ आरक्षकग्नटनर्तकघृततैलस्नेहबीजतिक्तानि । व्रतचारिग्रसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥ १६.१९॥ सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः । स्रुघ्नग्*औदीच्य(K.उदीच्य)विपाशासरित्शतद्रू रमठ*शाल्वाः ॥ १६.२०॥ (K.साल्वाः) त्रैगर्तग्*पौरव अम्बष्ठपारता वाटधानयौधेयाः । (K.पौरब) सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥ १६.२१॥ हस्त्य्गश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकासक्ताः । कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥ १६.२२॥ पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः । मनुजेश्वरोपकरणं छत्रध्वजचामराद्यं च ॥ १६.२३॥ शैलेयकुष्ठ मांसीतगररससैन्धवानि वल्लीजम् । (K.कष्ठ) मधुरग्रसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥ १६.२४॥ तक्षशिलग्*मर्तिकावत बहुगिरिगान्धारपुष्कलावतकाः । (K.ऊंआर्तिकावत) प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः ॥ १६.२५॥ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । रथग्रजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥ १६.२६॥ सुरभिग्कुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः । वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥ १६.२७॥ उद्यानसलिलकामुकयशःसुखाउदार्यरूपसम्पन्नाः । विद्वद्गमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ॥ १६.२८॥ कौशेयपट्टकम्बलपत्रौर्णिकरोध्रपत्रचोचानि । जातीफलागुरुग्वचापिप्पल्यश्चन्दनं च भृगोः ॥ १६.२९॥ आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः । नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥ १६.३०॥ कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः । खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्त्वाः ॥ १६.३१॥ *बान्धन ग्शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः । (K.बन्धन) गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥ १६.३२॥ कटुग्तिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः । खरकरभचणक*वातल निष्पावाश्चार्कपुत्रस्य ॥ १६.३३॥ (K.वातुल) गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः । गोमायुग्भक्षशूलिकवोक्काणाश्वमुखविकलाङ्गाः ॥ १६.३४॥ कुलपांसनघिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च । खरग्चरनियुद्धवित्तीव्ररोष*गर्त्ताश्रया नीचाः ॥ १६.३५॥ (K.गर्भाशया) उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे । धर्मेण च सन्त्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥ १६.३६॥ गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः । प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥ १६.३७॥ परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः । मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥ १६.३८॥ उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च न हतो निर्घातोल्काग्रजोग्रहमर्दनैः । स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ॥ १६.३९॥ हिहितविपरीत*लक्षणे क्षयमुपगच्छति तत्परिग्रहः । (K.लक्षनैः) डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥ १६.४०॥ यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा । भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिग्निम्नगासु ॥ १६.४१॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहभक्तियोगाध्यायः समाप्तः ॥ १६॥

१७ ग्रहयुद्धाध्यायः

युद्धं यथा यदा वा *भविष्यम् आदिश्यते त्रिकालज्ञैः । (K.भविष्यद्) तद्विज्ञानं करणे मया कृतं सूर्यग्*सिद्धान्ते ॥ १७.०१॥ (K.सिद्धान्तात्) वियति चरतां ग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् । अतिदूराद्दृग्विषये समतामिव संप्रयातानाम् ॥ १७.०२॥ आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दन*असव्यैः । (K.असव्यः) युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥ १७.०३॥ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च । उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥ १७.०४॥ अम्शुविरोधे युद्धानि भूभृतां शस्त्रग्रुक्क्षुदवमर्दाः । युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥ १७.०५॥ रविराक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी । पौरा बुधगुरुरविजा नित्यं शीतांशुर्*आक्रन्दः ॥ १७.०६॥ (K.आक्रन्द्रः) केतुग्कुजराहुशुक्रा यायिन एते हता *घ्नन्ति । (K.ग्रहा हन्युः) आक्रन्दयायिपौरान् जयिनो *जयदाः स्ववर्गस्य ॥ १७.०७॥ (K.जयदा) पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति । एवं *याय्याक्रन्दा नागरयायिग्रहाश्चैव ॥ १७.०८॥ (K.याय्याक्रन्दौ) दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥ १७.०९॥ उक्तविपरीतलक्षणसम्पन्नो जयगतो *विनिर्देश्यः । (K.विनिर्दिष्टः) विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥ १७.१०॥ द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः । तत्र *अन्योन्यं प्रीतिर् विपरीतावात्मपक्षघ्नौ ॥ १७.११॥ (K.अन्योन्यप्रीतिर्) युद्धं समागमो वा यद्यव्यक्तौ *स्वलक्षणैर् भवतः । (K.तु लक्षणैर्) भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥ १७.१२॥ गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च । (K.अग्निवार्त्ताश्च) शशिजेन शूरसेनाः कलिङ्गग्*शाल्वाश् च पीड्यन्ते ॥ १७.१३॥ (K.साल्वाश्) सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति । *कोष्ठागार ग्म्लेच्छक्षत्रियतापश्च शुक्रजिते ॥ १७.१४॥ (K.कोष्ठागार) भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः । उत्तरदिक्स्थाः क्रतुग्दीक्षिताश्च सन्तापमायान्ति ॥ १७.१५॥ गुरुणा *जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः । (K.बुधे जिते) त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥ १७.१६॥ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः । भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ॥ १७.१७॥ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः । *शाल्वा(K.साल्वा) वत्सा वङ्गा गावः सस्यानि *पीड्यन्ते ॥ १७.१८॥ (K.नश्यन्ति) भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः । सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥ १७.१९॥ शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः । उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥ १७.२०॥ शुक्रे बृहस्पतिग्*जिते यायी श्रेष्ठो विनाशमुपयाति । (K.हते) ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥ १७.२१॥ कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः । महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥ १७.२२॥ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसङ्ग्रामाः । सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥ १७.२३॥ रविजेन सिते विजिते *गुणमुख्याः(ऊ।गणमुख्याः) शस्त्रग्जीविनः क्षत्रम् । जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥ १७.२४॥ असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा । क्षितिजेन तङ्गणान्ध्रोड्रकाशिबाह्लीकदेशानाम् ॥ १७.२५॥ सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः । सन्ताप्यन्ते गुरुणा स्त्रीग्बहुला महिषकशकाश्च ॥ १७.२६॥ अयं विशेषोऽभिहितो हतानां कुजग्ज्ञवागीशसितासितानाम् । फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥ १७.२७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहयुद्धाध्यायः समाप्तः ॥ १७॥

१८ शशिग्रहसमागमाध्यायः

भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः । प्रदक्षिणं तत्ग्*शुभदं नृपाणां याम्येन यातो न शिवः शशाङ्कः ॥ १८.०१॥ (K.शुभकृन्नराणां) चन्द्रमा यदि कुजस्य यात्युदक्पार्वतीयबलशालिनां जयः । क्षत्रियाः प्रमुदिताः सयायिनो भूरिग्धान्यमुदिता वसुन्धरा ॥ १८.०२॥ उत्तरतः स्वसुतस्य शशङ्कः पौरग्जयाय सुभिक्षकरश्च । सस्यग्चयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥ १८.०३॥ बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम् । धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥ १८.०४॥ भार्गवस्य यदि यात्युदक्शशी कोशयुक्तगजवाजिवृद्धिदः । यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥ १८.०५॥ रविजस्य शशी प्रदक्षिणं कुर्याच्चेत् पुरभूभृतां जयः । शकबाह्लिकसिन्धुपह्लवा *मुदभाजो यवनैः समन्विताः ॥ १८.०६॥ (K.मुद्भाजो) येषामुदगच्च्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च । तद्ग्द्रव्यपौरेतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ॥ १८.०७॥ शशिनि फलं *उदक्स्थे यद्ग्रहस्योपदिष्टं (K.उदकस्थे) भवति तदपसव्ये सर्वमेव प्रतीपम् । इति शशिसमवायाः *कीर्तिता भग्रहाणां (K.कीर्त्तिता) न खलु भवति युद्धं साकमिन्दोर्ग्रहगृक्षैः ॥ १८.०८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शशिग्रहसमागमाध्यायः समाप्तः ॥ १८॥

१९ ग्रहवर्षफलाध्यायः

सर्वत्र भूर्विरलसस्ययुता वनानि दैवाद्बिभक्षयिषुदंष्ट्रिसमावृतानि । *नद्यश्(K.स्यन्दन्ति) च नैव *हि(K.च) पयः प्रचुरं *स्रवन्ति (K.स्रवन्त्यो) रुग्भेषजानि न तथातिबलान्वितानि ॥ १९.०१॥ तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले नात्यम्बुदा जलमुचोऽचलसन्निकाशाः । नष्टप्रभगृक्षगणशीतकरं नभश्च सीदन्ति तापसकुलानि सगोकुलानि ॥ १९.०२॥ हस्त्य्गश्वपत्तिमदसह्यबलैरुपेता बाणासनासिग्मुशलातिशयाश्चरन्ति । घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् संवत्सरे दिनकरस्य दिनेऽथ मासे ॥ १९.०३॥ व्याप्तं नभः प्रचलिताचलसन्निकाशैर् व्यालाञ्जनालिगवलच्छविभिः पयोदैः । गां पूरयद्भिरखिलाममलाभिरद्भिर् *उत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥ १९.०४॥ (K.उत्कण्ठकेन) तोयानि पद्मकुमुदोत्पलवन्त्यतीव फुल्लद्रुमाण्युपवनान्यलिनादितानि । गावः प्रभूतपयसो नयनाभिरामा रामा रतैरविरतं रमयन्ति रामान् ॥ १९.०५॥ गोधूमशालियवधान्यवरेक्षुवाटा भूः पाल्यते नृपतिभिर्नगराकराढ्या । चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥ १९.०६॥ वातोद्धतश्चरति वह्निरतिप्रचण्डो ग्रामान् वनानि नगराणि च सन्दिधक्षुः । हाहागिति दस्युगणपातहता रटन्ति निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः ॥ १९.०७॥ ह्युन्नता वियति संहतमूर्तयोऽपि मुञ्चन्ति *कुत्र चिद् अपः प्रचुरं पयोदाः । (K.न क्व चिद्) सीम्नि प्रजातमपि शोषमुपैति सस्यं निष्पन्नमप्यविनयादपरे हरन्ति ॥ १९.०८॥ भूपा न सम्यगभिपालनसक्तचित्ताः पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः । एवंविधैर्*उपहृता भवति प्रजागियं (K.ऊ।उपहता) संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥ १९.०९॥ मायागिन्द्रजालकुहकाकरनागराणां गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः । पिप्रीषया नृपतयोऽद्भुतदर्शनानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥ १९.१०॥ *वार्ता जगत्यवितथा विकला त्रयी च (K.वार्त्ता) सम्यक्चरत्यपि मनोरिव दण्डनीतिः । *अध्यक्षर(K.अध्यक्षरं)स्वभिनिविष्टधियोऽपि के चिद् (K.अत्र) आन्वीक्षिकीषु च परं पदमीहमानाः ॥ १९.११॥ हास्यज्ञदूतकविबालनपुंसकानां युक्तिज्ञसेतुजलपर्वतवासिनां च । हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे मासेऽथ वा *प्रचुरता भुवि चाउषधीनाम् ॥ १९.१२॥ (K.प्रचुरतां) ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् । विचरत्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥ १९.१३॥ क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या । क्षितिपैरभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति ॥ १९.१४॥ विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाभितर्पयद्भिः । सुरराजगुरोः शुभे *तु वर्षे बहुसस्या क्षितिरुत्तमगृद्धियुक्ता ॥ १९.१५॥ (K.अत्र) शालीक्षुमत्यपि धरा धरणीधराभग् धाराधरोज्झितपयःपरिपूर्णवप्रा । श्रीमत्ग्सरोरुहतताम्बुतडागकीर्णा योषागिव भात्यभिनवाभरणोज्ज्वलाङ्गी ॥ १९.१६॥ क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षं उद्घुष्टग्नैकजयशब्दविराविताशम् । संहृष्टशिष्टजनदुष्टविनष्टवर्गां गां पालयन्त्यवनिपा नगराकराढ्याम् ॥ १९.१७॥ पेपीयते मधु मधौ सह कामिनीभिर् जेगीयते श्रवणहारि सवेणुवीणम् । बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्नं दे सितस्य मदनस्य जयावघोषः ॥ १९.१८॥ *उद्वृत्त(ऊ।उद्धत)ग्दस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशुवित्तविनाकृतानि । रोरूयमाणघतबन्धुजनैर्जनैश्च रोगोत्तमाकुलकुलानि बुभुक्षया च ॥ १९.१९॥ वातोद्धताम्बुधरवर्जितमन्तरिक्षं आरुग्णनैकविटपं च धरातलं द्यौः । नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥ १९.२०॥ जातानि कुत्र चिदतोयतया विनाशं ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि । सस्यानि मन्दमभिवर्षति *वृत्रशत्रुर् (K.वृत्रशत्रौ) वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥ १९.२१॥ अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः । यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥ १९.२२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहवर्षफलाध्यायः समाप्तः ॥ १९॥

२० ग्रहश‍ृङ्गाटकाध्यायः

यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे । भवति भयं दिशि तस्यामायुधकोपक्षुधाआतङ्कैः ॥ २०.०१॥ चक्रधनुःश‍ृङ्गाटकदण्डपुरप्रासवज्रसंस्थानाः । क्षुद्ग्वृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥ २०.०२॥ (K.ऊऽवृष्टिकरा) यस्मिन् खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते । तत्रऽन्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥ २०.०३॥ *तस्मिन्न् ऋक्षे कुर्युः समागमं तज्जनान् ग्रहा हन्युः । (K.यस्मिन्न्) *अविभेदिनः परस्परममलमयूखाः शिवास्तेषाम् ॥ २०.०४॥ (K.अविभेदनाः) ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपाताख्याः । कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम् ॥ २०.०५॥ एकगृक्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च । संवर्तो नाम भवेत्ग्शिखिराहुयुतः स सम्मोहः ॥ २०.०६॥ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः । यमग्जीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोशः ॥ २०.०७॥ उदितः पश्चादेकः प्राक्चान्यो यदि स सन्निपाताख्यः । अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥ २०.०८॥ समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् । *समाजसंज्ञो सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥ २०.०९॥ (K.समाज्ञः सुसमः प्रदिष्टो) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहश‍ृङ्गाटकाध्यायः समाप्तः ॥ २०॥

२१ गर्भलक्षणाध्यायः

अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् । यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥ २१.०१॥ तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वागिदम् । क्रियते गर्गपराशरकाश्यप*वज्रादि रचितानि ॥ २१.०२॥ (K.वात्स्यादि) दैवविदविहितचित्तो द्युनिशं यो गर्भलक्षणे भवति । (K.अवहितचित्तो) तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे ॥ २१.०३॥ किं वातः परमन्यत्ग्*शास्त्रज्यायो ऽस्ति यद्विदित्वाएव । (K.शास्त्रं ज्यायो) प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ॥ २१.०४॥ के चिद्वदन्ति *कार्तिक शुक्लान्तमतीत्य गर्भदिवसाः स्युः । (K.कार्त्तिक) न *च तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥ २१.०५॥ (K.तु) *मार्गशिरःसित पक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम् । (K.मार्गशिरशुक्ल) पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥ २१.०६॥ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैव प्रसवमायाति ॥ २१.०७॥ सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ । नक्तम्प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥ २१.०८॥ मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च । पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम् ॥ २१.०९॥ माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माघस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम् ॥ २१.१०॥ फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्शुक्ले ॥ २१.११॥ चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः । चैत्रासितसम्भूताः *कार्तिकशुक्ले ऽभिवर्षन्ति ॥ २१.१२॥ (K.कार्त्तिकशुक्ले) पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः । शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ॥ २१.१३॥ ह्लादिग्मृदूदक्शिवशक्रदिग्भवो मारुतो वियद्विमलम् । स्निग्धसितबहुलपरिवेषपरिवृतौ हिम*मयखार्कौ ॥ २१.१४॥ (K.ऊंअयूखार्कौ) पृथुग्बहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥ २१.१५॥ सुरचापमन्द्रगर्जितविद्युत्*प्रतिसूर्यका शुभा सन्ध्या । (K.प्रतिसूर्यकाः) शशिग्शिवशक्राशास्थाः शान्तरवाः पक्षिमृगसङ्घाः ॥ २१.१६॥ विपुलाः प्रदक्षिणग्चराः स्निग्धमयूखा ग्रहा निरुपसर्गाः । तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥ २१.१७॥ गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः । स्वर्तुग्स्वभावजनितो गर्भ*विवृद्ध्यै तमभिधास्ये ॥ २१.१८॥ (K.विवृद्धौ) पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥ २१.१९॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ । अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥ २१.२०॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः । परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः ॥ २१.२१॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ २१.२२॥ मुक्ताग्रजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः । जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः ॥ २१.२३॥ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः । रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥ २१.२४॥ गर्भोपघातलिङ्गान्युल्काशनिपांशुपातदिग्दाहः । क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥ २१.२५॥ रुधिरादिग्वृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः । इत्युत्पातैरेतैस्त्रिविधैश्चान्यैर्हतो गर्भः ॥ २१.२६॥ स्वर्तुग्स्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः । गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥ २१.२७॥ भद्रपदाग्द्वयविश्वाम्बु*देव पैतामहेष्वथ ऋक्षेषु । (K.दैव) सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥ २१.२८॥ शतभिषगाश्लेषाआर्द्रास्वातिमघासंयुतः शुभो गर्भः । पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥ २१.२९॥ मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतुर्युक्ता । विंशतिरथ दिवसत्रयमेकतमऋक्षेण पञ्चभ्यः ॥ २१.३०॥ पञ्चग्निमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः । वर्षति *पञ्चनिमित्ताद् रूपेणैकेन यो गर्भः ॥ २१.३१॥ (K.पञ्चसमन्ताद्) द्रोणः पञ्चनिमित्ते गर्भे त्रीण्याढकानि पवनेन । षड् विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ॥ २१.३२॥ क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः । शशिनि रवौ वा शुभसंयुतगीक्षिते भूरिवृष्टिकराः ॥ २१.३३॥ ग्रभसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता । द्रोणाष्टांशेऽभ्यधिके वृष्टे गर्भः स्रुतो भवति ॥ २१.३४॥ गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः । आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥ २१.३५॥ काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः । कालातीतं तद्वत् सलिलं काठिन्यमुपयाति ॥ २१.३६॥ पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः स भवति बहुतोयः पञ्चग्रूपाभ्युपेतः । विसृजति यदि तोयं गर्भकालेऽतिभूरि प्रसवसमयमित्वा शीकराम्भः करोति ॥ २१.३७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गर्भलक्षणाध्यायः समाप्तः ॥ २१॥

२२ गर्भधारणाध्यायः

ज्यैष्ठसितेऽष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः । मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥ २२.०१॥ तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्ग्मासाः । श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः ॥ २२.०२॥ यदि ता स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय । तस्करभयदाश्*चोक्ताः श्लोकाश्चाप्यत्र वासिष्ठाः ॥ २२.०३॥ (K.प्रोक्ताः) सविद्युतः सपृषतः सपांशूत्करमारुताः । सार्कग्चन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥ २२.०४॥ यदा तु विद्युतः श्रेष्ठाः *शुभाशाः प्रत्युपस्थिताः । (K.शुभाशा) तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥ २२.०५॥ सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि । पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥ २२.०६॥ रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः । वृष्टिस्तदापि विज्ञेया सर्वसस्यग्*अर्थसाधिका ॥ २२.०७॥ (K.अभिवृद्धये) मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः । तदा स्यान् महती वृष्टिः सर्वसस्यग्*अभिवृद्धये ॥ २२.०८॥ (K.अर्थसाधिका) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गर्भधारणाध्यायः समाप्तः ॥ २२॥

२३ प्रवर्षणाध्यायः

ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिग्संप्रवृष्टेन । शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः ॥ २३.०१॥ हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणग्निर्देशः । पञ्चाशत् पलमाढकमनेन मिनुयाज्जलं पतितम् ॥ २३.०२॥ येन धरित्री मुद्रा जनिता वा बिन्दवस्तृणागाग्रेषु । वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ॥ २३.०३॥ के चिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये । गर्गवसिष्ठपराशरमतमेतद्द्वादशान् न परम् ॥ २३.०४॥ येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः । यदि नाप्यादिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ॥ २३.०५॥ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः । शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ॥ २३.०६॥ श्रवणे मघानुराधाग्भरणीमूलेषु दश चतुर्युक्ताः । फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः ॥ २३.०७॥ *ऐन्द्राग्न्य्गाख्ये वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः । (K.ऐन्द्राग्नाख्ये) आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः ॥ २३.०८॥ पञ्चदशाजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च । रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्व्*एते ॥ २३.०९॥ (K.एषु) रविग्रविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च । भवति *च न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ॥ २३.१०॥ (K.हि) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रवर्षणाध्यायः समाप्तः ॥ २३॥

२४ रोहिणीयोगाध्यायः

कनकशिलाचयविवरजतरुकुसुमासङ्गिमधुकरानुरुते । बहुग्विहगकलहसुरयुवतिगीतमन्द्रस्वनोपवने ॥ २४.०१॥ सुरनिलयशिखरिशिखरे बृहस्पतिर्नारदाय यान् आह । गर्गपराशरकाश्यपमयाश्च यान् शिष्यसङ्घेभ्यः ॥ २४.०२॥ तान् अवलोक्य यथावत् प्राजापत्येन्दुसंप्रयोगार्थान् । *अल्प ग्रन्थेनाहं तान् एवाभ्युद्यतो वक्तुम् ॥ २४.०३॥ (K.स्वल्प) प्राजेशमाषाढतमिस्रपक्षे क्षपाकरेणोपगतं समीक्ष्य । वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाद्ग्रहचिन्तकेन ॥ २४.०४॥ योगो यथानागत एव वाच्यः स धिष्ण्ययोगः करणे मयोक्तः । चन्द्रप्रमाणद्युतिवर्णमार्गैरुत्पातवातैश्च फलं *निगद्यम् ॥ २४.०५॥ (K.निगाद्यम्) पुरादुदग्*यत् पुरतोऽपि वा स्थलं (K.यत्) त्र्यहोषितस्तत्र हुताशतत्परः । ग्रहान् सनक्षत्रगणान् समालिखेत् सधूपपुष्पैर्बलिभिश्च पूजयेत् ॥ २४.०६॥ सरत्नतोयाउषधिभिश्चतुर्दिशं तरुप्रवालापिहितैः सुपूजितैः । अकालमूलैः कलशैरलङ्कृतं कुशास्तृतं स्थण्डिलमावसेद्द्विजः ॥ २४.०७॥ आलभ्य मन्त्रेण महाव्रतेन बीजानि सर्वाणि निधाय कुम्भे । प्लाव्यानि चामीकरदर्भतोयैर् होमो मरुद्वारुणग्*सोम मन्त्रैः ॥ २४.०८॥ (K.सौम्य) श्लक्ष्णां पताकामसितां विदध्याद् दण्डप्रमाणां त्रिगुणोच्छ्रितां च । आदौ कृते दिग्रहणे नभस्वान् ग्राह्यस्तया योगगते शशाङ्के ॥ २४.०९॥ तत्रार्धमासाः प्रहरैर्विकल्प्या वर्षानिमित्तं दिवसास्तदंशैः । सव्येन गच्छन् शुभदः सदैव यस्मिन् प्रतिष्ठा बलवान् स वायुः ॥ २४.१०॥ वृत्ते तु योगेऽङ्कुरितानि यानि सन्तीह बीजानि धृतानि कुम्भे । येषां तु योऽंशोऽङ्कुरितस्तदंशस् तेषां विवृद्धिं समुपैति नान्यः ॥ २४.११॥ शान्तपक्षिमृगराविता दिशो निर्मलं वियदनिन्दितोऽनिलः । शस्यते शशिनि *रोहिणीगते मेघमारुतफलानि वच्म्यतः ॥ २४.१२॥ (K.रोहिणीयते) क्व चिदसितसितैः सितैः क्वचिच्च क्व चिदसितैर्भुजगैरिवाम्बुवाहैः । वलितग्जठरपृष्ठमात्रदृश्यैः स्फुरिततडिद्रसनैर्वृतं विशालैः ॥ २४.१३॥ विकसितकमलोदरावदातैर् अरुणकरद्युतिरञ्जितोपकण्ठैः । छुरितमिव वियद्घनैर्विचित्रैर् मधुकरकुङ्कुमकिंशुकावदातैः ॥ २४.१४॥ असितघननिरुद्धमेव वा चलिततडित्सुरचापचित्रितम् । द्विपमहिषकुलाकुलीकृतं वनमिव दावपरीतमम्बरम् ॥ २४.१५॥ अथ वाञ्जनशैलशिलानिचयप्रतिरूपधरैः स्थगितं गगनम् । हिममौक्तिकशङ्खशशाङ्ककरद्युतिहारिभिरम्बुधरैरथ वा ॥ २४.१६॥ तडिद्ग्धैमकक्ष्यैर्बलाकाग्रदन्तैः स्रवद्ग्वारिदानैश्चलत्प्रान्तहस्तैः । विचित्रेन्द्रचापध्वजोच्छ्रायशोभैस् तमालालिनीलैर्वृतं चाब्दग्नागैः ॥ २४.१७॥ सन्ध्यानुरक्ते नभसि स्थितानां इन्दीवरश्यामरुचां घनानाम् । वृन्दानि पीताम्बरवेष्टितस्य कान्तिं हरेश्चोरयतां यदा वा ॥ २४.१८॥ सशिखिचातकदर्दुरनिःस्वनैर् यदि विमिश्रितमन्द्रपटुस्वनाः । खमवतत्य दिगन्तविलम्बिनः सलिलदाः सलिलौघमुचः क्षितौ ॥ २४.१९॥ निगदितरूपैर्जलधरजालैस् त्र्यहमवरुद्धं द्व्यहमथ वाहः । यदि वियदेवं भवति सुभिक्षं मुदितजना च प्रचुरजला भूः ॥ २४.२०॥ रूक्षैरल्पैर्मारुताग्क्षिप्तदेहैर् उष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः । अन्येषां वा निन्दितानां *स्वरूपैर् (K.सरूपैर्) मूकैश्चाब्दैर्नो शिवं नापि वृष्टिः ॥ २४.२१॥ विगतघने वा वियति विवस्वान् अमृदुमयूखः सलिलकृदेवम् । सर इव फुल्लं निशि कुमुदाढ्यं खमुडुविशुद्धं यदि च सुवृष्ट्यै ॥ २४.२२॥ पूर्वोद्भूतैः सस्यनिष्पत्तिरब्दैर् आग्नेयाशासम्भवैरग्निकोपः । याम्ये सस्यं क्षीयते नैरृतेऽर्धं (K.अर्घं K.स्त्र्। अर्धं) पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥ २४.२३॥ वायव्योत्थैर्वातवृष्टिः क्वचिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः । श्रेष्ठं सस्यं स्थाणुदिक्संप्रवृद्धैर् वायुश्चैवं दिक्षु धत्ते फलानि ॥ २४.२४॥ उल्कानिपातास्तडितोऽशनिश्च दिग्दाहग्निर्घातमहीप्रकम्पाः । नादा मृगाणां सपतत्रिणां च ग्राह्या यथैव अम्बुधरास्तथैव ॥ २४.२५॥ नामाङ्कितैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः । पूर्णैः स मासः सलिलस्य दाता *स्रुतैर् अवृष्टिः परिकल्प्यमूनैः ॥ २४.२६॥ (K.स्रुतर्) अन्यैश्च कुम्भैर्नृपग्नामचिह्नैर् देशाङ्कितैश्चाप्यपरैस्तथैव । भग्नैः स्रुतैर्न्यूनजलैः सुपूर्णैर् भाग्यानि वाच्यानि यथानुरूपम् ॥ २४.२७॥ दूरगो निकटगोऽथ वा शशी दक्षिणे पथि यथा तथा स्थितः । रोहिणीं यदि युनक्ति सर्वथा कष्टमेव जगतो विनिर्दिशेत् ॥ २४.२८॥ स्पृशन्न् उदयाति यदा शशाङ्कस् तदा सुवृष्टिर्बहुलोपसर्गा । असंस्पृशन् योगमुदक्समेतः करोति वृष्टिं विपुलां शिवं च ॥ २४.२९॥ रोहिणीग्शकटमध्यसंस्थिते चन्द्रमस्यशरणीकृता जनाः । क्वापि यान्ति शिशुयाचिताशनाः सूर्यतप्तपिठराम्बुपायिनः ॥ २४.३०॥ उदितं यदि शीतदीधितिं प्रथमं पृष्ठत एति रोहिणी । शुभमेव तदा स्मरातुराः प्रमदाः *कामवशेन संस्थिताः ॥ २४.३१॥ (K.कामिवशे च) अनुगच्छति पृष्टतः शशी *यदि कामी वनितामिव प्रियाम् । (K.ओमित्तेद्) मकरध्वजबाणखेदिताः प्रमदानां वशगास्तदा नराः ॥ २४.३२॥ आग्नेय्यां दिशि चन्द्रमा यदि भवेत् तत्रोपसर्गो महान् नैरृत्यां समुपद्रुतानि निधनं सस्यानि यान्तीतिभिः । प्राजेशानिलदिक्स्थिते हिमकरे सस्यस्य मध्यश्चयो याते स्थाणुदिशं गुणाः सुबहवः सस्यार्घग्*वृष्ट्यादयः ॥ २४.३३॥ (K.वृद्ध्यादयः) ताडयेद्यदि च योगतारकामावृणोति वपुषा यदापि वा । ताडने भयमुशन्ति दारुणं छादने *नृपबधो ऽङ्गनाकृतः ॥ २४.३४॥ (K.नृपवधो) गोप्रवेशसमयेऽग्रतो वृषो याति कृष्णपशुरेव वा पुरः । भूरि वारि शबले तु मध्यमं नो सितेऽम्बुपरिकल्पनापरैः ॥ २४.३५॥ दृश्यते न यदि रोहिणीयुतश्चन्द्रमा नभसि तोयदावृते । रुग्भयं महदुपस्थितं तदा भूश्च भूरिजलसस्यसंयुता ॥ २४.३६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रोहिणीयोगाध्यायः समाप्तः ॥ २४॥

२५ स्वातियोगाध्यायः

यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे । आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥ २५.०१॥ स्वातौ निशांशे प्रथमेऽभिवृष्टे सस्यानि सर्वाण्युपयान्ति वृद्धिम् । भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीयेऽस्ति न शारदानि ॥ २५.०२॥ वृष्टेऽह्निभागे प्रथमे सुवृष्टिस्तद्वद्द्वितीये तु सकीटसर्पा । वृष्टिस्तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे ॥ २५.०३॥ सममुत्तरेण तारा चित्रायाः कीर्त्यते ह्यपांवत्सः । तस्यासन्ने चन्द्रे स्वातेर्योगः शिवो भवति ॥ २५.०४॥ सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे वायुर्वा चण्डवेगः सजलजलधरो वापि गर्जत्यजस्रम् । विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं विज्ञेया प्रावृड् एषा मुदितजनपदा सर्वसस्यैरुपेता ॥ २५.०५॥ तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा । स्वातियोगं विजानीयादाषाढे च विशेषतः ॥ २५.०६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्वातियोगाध्यायः समाप्तः ॥ २५॥

२६ आषाढीयोगाध्यायः

आषाढ्यां समतुलिताधिवासितानां अन्येद्युर्यदधिकतामुपैति बीजम् । तद्वृद्धिर्भवति न जायते यदूनं मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥ २६.०१॥ स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती । दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि ॥ २६.०२॥ येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा । उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ॥ २६.०३॥ यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु । यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम् ॥ २६.०४॥ ब्रह्मणो दुहितासि त्वमादित्येति प्रकीर्तिता । काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला ॥ २६.०५॥ क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्यकवस्त्रमस्याः । सूत्रप्रमाणं च दशाङ्गुलानि षड् एव *कक्ष्य गुभयशिक्यमध्ये ॥ २६.०६॥ (K.कक्ष) याम्ये शिक्ये काञ्चनं सन्निवेश्यं शेषद्रव्याण्युत्तरेऽम्बूनि *चैव । (K.चैवम्) तोयैः कौप्यैः *सैन्धवैः सारसैश्च (K.स्यन्दिभिः) वृष्टिर्(वर्।वृद्धिर्) हीना मध्यमा चोत्तमा च ॥ २६.०७॥ दन्तैर्नागा गोघयाद्याश्च लोम्ना हेम्ना भूपाः शिक्थकेन द्विजाद्याः । तद्वद्देशा वर्षमासा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि ॥ २६.०८॥ हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या । विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः ॥ २६.०९॥ हीनस्य नाशोऽभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम् । एतत्तुलाग्कोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥ २६.१०॥ स्वातावषाढास्वथ रोहिणीषु पापग्रहा योगगता न शस्ताः । ग्राह्यं तु योगद्वयमप्युपोष्य यदाधिमासो द्विगुणीकरोति ॥ २६.११॥ त्रयोऽपि योगाः सदृशाः फलेन यदा तदा वाच्यमसंशयेन । विपर्यये यत्त्विह रोहिणीजं फलं तदेवाभ्यधिकं निगद्यम् ॥ २६.१२॥ निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा । बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥ २६.१३॥ वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादगृक्षे/) यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन् न ततः ॥) (K.२६.१४॥ आषाढ्यां पौर्णमास्यां तु यद्यैशानोऽनिलो भवेत्/) अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ॥) (K.२६.१५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां आषाढीयोगाध्यायः समाप्तः ॥ २६॥

२७ वातचक्राध्यायः

आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् । अस्तं गच्छति तीक्ष्णांशौ सस्य सम्पत्तिरुत्तमा ॥ २७.०१॥ पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश् चन्द्रार्कांशुग्सटा*कलाप कलितो वायुर्यदाआकाशतः । (K.अभिघात) नैकान्तस्थितनीलमेघ*पटला(K.पटलां) शारद्य*संवर्धिता । (K. संवर्धितां) वासन्तोत्कटसस्यमण्डित*तला सर्वा मही शोभते ॥ २७.०२॥ (K.तलां विद्यात् तदा मेदिनीम्) यदा *वह्नौ(K.अग्नेयो) वायुर्*वहति गगनेऽखण्डिततनुः (K.मलयशिखरास्फालनपटुः) प्लवत्यस्मिन् योगे भगवति पतङ्गे प्रवसति । तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् ॥ २७.०३॥ तालीग्पत्रलतावितानतरुभिः शाखामृगान् नर्तयन् योगेऽस्मिन् प्लवति *ध्वनिः सपरुषो वायुर्यदा दक्षिणः । (K.ध्वनन्सुपरुषो) *तद्वद्योगसमुत्थितस्तु गजवत् तालाङ्कुशैर्घट्टिताः (K.सर्वोद्योगसमुन्नताश्च) कीनाशा इव मन्दवारि*कणिका मुञ्चन्ति मेघास्तदा ॥ २७.०४॥ (K.कणिकान्) सूक्ष्मैलाग्लवलीलवङ्गनिचयान् व्याघूर्णयन् सागरे भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैरृतः । क्षुत्ग्*तृष्णावृत मानुषास्थिशकलप्रस्तारभारच्छदा (K.तृष्णामृत) मत्ता प्रेतवधूरिवोग्रग्चपला भूमिस्तदा लक्ष्यते ॥ २७.०५॥ यदा रेणूत्पातैः *प्रविचलसटाटोपचपलः (K.प्रविकटसटाटोपचपलः) प्रवातः *पश्चाच्चेद् दिनकरकरापातसमये । (K.पश्चार्धे) तदा सस्योपेता *प्रवरग्निकराबद्धसमरा (K.प्रवरनृव्राबद्धसमरा) *क्षितिः स्थानस्थानेष्व् अविरतवसामांसरुधिरा ॥ २७.०६॥ (K.धरा स्थाने स्थानेष्व्) आषाढीग्पर्वकाले यदि किरणपतेरस्तकालोपपत्तौ वायव्यो वृद्धवेगः *पवनघनवपुः पन्नगार्द्धानुकारि । (K.प्लवति धनरिपुः पन्नगादानुकारी) जानीयाद्वारिग्धाराप्रमुदित*मुदितामुक्त मण्डूककण्ठां (K.मुदितां मुक्त) सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यसेनामिवोर्वीम् ॥ २७.०७॥ मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामोदिग्कदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः । विद्युद्ग्भ्रान्तिसमस्तकान्तिकलना मत्तास्तदा तोयदा उन्मत्ता इव नष्टग्चन्द्रकिरणां गां पूरयन्त्यम्बुभिः ॥ २७.०८॥ *वृत्तायामाषाढ्यां कृष्णग्चतुर्थ्यामजैकपादऋक्षे । (K.ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत्) *यदि वर्षति पर्जन्यः प्रावृत् शस्ता न चेन् न तदा ॥ २७.०९॥ (K.पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः) *नष्टचन्द्रार्ककिरनं नष्टतारं न चेन् नभः । (K.आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला) *न तां भद्रपदां मन्ये यत्र देवो न वर्षति ॥ २७.१०॥ (K.धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस्तदा) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वातचक्राध्यायः समाप्तः ॥ २७॥

२८ सद्योवर्षणाध्यायः

वर्षाप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे । सौम्यैर्दृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमम्भः प्रावृट्काले सृजति न चिरात्ग्चन्द्रवद्भार्गवोऽपि ॥ २८.०१॥ आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा तोयासन्नो भवति यदि वा तोयकार्योन्मुखो वा । प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥ २८.०२॥ उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः । तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान् प्रतपति यदि चोच्चैः खं गतोऽतीव तीक्ष्णम् ॥ २८.०३॥ विरसमुदकं गोनेत्राभं वियद्विमला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेत्नभः । पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो रसनमसकृत्ग्मण्डूकानां जलागमहेतवः ॥ २८.०४॥ मार्जारा भृशमवनिं नखैर्लिखन्तो (K.लिखन्ते) लोहानां मलनिचयः सविस्रगन्धः । रथ्यायां *शिशुरचिताश् च सेतुबन्धाः (K.शिशुनिचिताश्) संप्राप्तं जलमचिरात्ग्निवेदयन्ति ॥ २८.०५॥ गिरयोऽञ्जनचूर्णसन्निभा यदि वा बाष्पनिरुद्धकन्दराः । (K.अञ्जनपुञ्जसन्निभा) कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥ २८.०६॥ विनागुपघातेन पिपीलिकानां अण्डोपसङ्क्रान्तिरहिव्यवायः । *द्रुमावरोहश् च भुजङ्गमानां (K.द्रुमाधिरोहश्) वृष्टेर्निमित्तानि गवां प्लुतं च ॥ २८.०७॥ तरुग्शिखरोपगताः कृकलासा गगनतलस्थितदृष्टिनिपाताः । यदि च गवां रविवीक्षणमूर्ध्वं निपतति वारि तदा न चिरेण ॥ २८.०८॥ नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरान् अपि । पशवः पशुवच्च *कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥ २८.०९॥ (K.कुर्कुरा) यदा स्थिता गृहपटलेषु *कुक्कुरा (K.कुर्कुरा) *रुदन्ति(K.भवन्ति) वा यदि विततं *वियत्ग्मुखाः । (K.दिवोन्मुखाः) दिवा तडिद्यदि च पिनाकिदिग्भवा तदा क्षमा भवति *समैव वारिणा ॥ २८.१०॥ (K.स,आतोवारोंआ) शुककपोतविलोचनसन्निभो मधुग्निभश्च यदा हिमदीधितिः । प्रतिशशी च यदा दिवि राजते पतति वारि तदा न *चिरेण च ॥ २८.११॥ (K.चिराद्दिवः) स्तनितं निशि विद्युतो दिवा रुधिरनिभा यदि दण्डवत्स्थिताः । पवनः पुरतश्च शीतलो यदि सलिलस्य तदागागमो भवेत् ॥ २८.१२॥ वल्लीनां गगनतलोन्मुखाः प्रवालाः स्नायन्ते यदि जलपांशुभिर्विहङ्गाः । सेवन्ते यदि च सरीसृपास्तृणाग्राण्य् आसन्नो भवति तदा जलस्य पातः ॥ २८.१३॥ मयूरशुकचाषचातकसमानवर्णा यदा जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः । जलोर्मिग्नगनक्रकच्छपवराहमीनोपमाः प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः ॥ २८.१४॥ पर्यन्तेषु सुधाग्शशाङ्कधवला मध्येऽञ्जनालित्विषः स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः । माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग्वा अम्बुपाशागुद्भवा ये ते वारिमुचस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ॥ २८.१५॥ शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः । उद्गमास्तमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु ॥ २८.१६॥ यदि तित्तिरपत्रनिभं गगनं मुदिताः प्रवदन्ति च पक्षिगणाः । उदयास्तमये सवितुर्द्युनिशं विसृजन्ति घना न चिरेण जलम् ॥ २८.१७॥ यद्यमोघकिरणाः सहस्रगोर् अस्तभूधरकरा इवोच्छ्रिताः । भूसमं च रसते यदाम्बुदस् तन् महद्भवति वृष्टिग्लक्षणम् ॥ २८.१८॥ प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः । सूर्यसुतान् नवपञ्चमगो वा सप्तमगश्च जलागागमनाय ॥ २८.१९॥ प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसङ्क्रमे च । पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चार्द्राम् ॥ २८.२०॥ समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे । यमारयोः पवनघुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ॥ २८.२१॥ अग्रतः पृष्ठतो वापि ग्रहाः सूर्यावलम्बिनः । यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥ २८.२२॥ प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु । केदारपूरमधिकं वर्षति देवस्तदा न चिरात् ॥ २८.२३॥ वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् । सप्ताहं दुर्दिनमपि तदा पयो नात्र सन्देहः ॥ २८.२४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सद्योवर्षणाध्यायः समाप्तः ॥ २८॥

२९ कुसुमलताध्यायः

फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् । सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ २९.०१॥ शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च । पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥ २९.०२॥ न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति । अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥ २९.०३॥ जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः । गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥ २९.०४॥ अतिमुक्तककुन्दाभ्यां कर्पासं सर्षपान् वदेदशनैः । बदरीभिश्च कुलत्थांश्*चिरविल्वेन गादिशेत्मुद्गान् ॥ २९.०५॥ (K.ऊॅहिरबिल्वेन) अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः । तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन *शणाः ॥ २९.०६॥ (K.शणः) करिणश्च हस्तिकर्णैरादेश्या वाजिनोऽश्वकर्णेन । गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ २९.०७॥ चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन । *कुरवक ग्वृद्ध्या वज्रं वैदूर्यं नन्दिकावर्तैः ॥ २९.०८॥ (K.कुरुवक) विन्द्याच्च सिन्धुवारेण मौक्तिकं *कारुकाः कुसुम्भेन । (K.कुङ्कुमं) रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥ २९.०९॥ श्रेष्ठी *सुवर्णपुष्पात् पद्मैर्विप्राः पुरोहिताः कुमुदैः । (K.सुवर्णपुष्पैः) सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ॥ २९.१०॥ आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथागारोग्यम् । खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥ २९.११॥ पिचुमन्दग्नागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन । निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥ २९.१२॥ दूर्वाग्कुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण । श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥ २९.१३॥ यस्मिन् *काले स्निग्धग्निश्छिद्रपत्राः (K.देशे) सन्दृश्यन्ते वृक्षगुल्मा लताश्च । तस्मिन् वृष्टिः शोभना सप्रदिष्टा रूक्षैश्छिद्रैरल्पमम्भः प्रदिष्टम् ॥ २९.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कुसुमलताध्यायः समाप्तः ॥ २९॥

३० सन्ध्यालक्षणाध्यायः

अर्धास्तमितान् उदितात् सूर्यादस्पष्टभं नभो यावत् । तावत् सन्ध्याकालश्चिह्नैरेतैः फलं चास्मिन् ॥ ३०.०१॥ मृगग्*शकुनि पवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः । (K.शकुन) गन्धर्वनगरग्रविकरदण्डरजः स्नेहवर्णैश्च ॥ ३०.०२॥ भैरवमुच्चैर्विरुवन् मृगोऽसकृद्ग्रामघातमाचष्टे । रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥ ३०.०३॥ अपसव्ये सङ्ग्रामः सव्ये सेनाग्समागमः शान्ते । मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥ ३०.०४॥ दीप्तमृगाण्डजविरुता प्राक्सन्ध्या देशनाशमाख्याति । दक्षिणदिक्ग्स्थैर्विरुता ग्रहणाय पुरस्य दीप्तास्यैः ॥ ३०.०५॥ गृहतरुतोरणमथने सपांशुलोष्टोत्करेऽनिले प्रबले । भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥ ३०.०६॥ मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा । मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या ॥ ३०.०७॥ सन्ध्याकाले स्निग्धा दण्डतडित्मत्स्यपरिधिपरिवेषाः । सुरपतिचापाइरावतग्रविकिरणाश्चाशु वृष्टिकरः ॥ ३०.०८॥ विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः । तनुघ्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ॥ ३०.०९॥ उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः । किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥ ३०.१०॥ शुक्लाः करा दिनकृतो दिवादिग्मध्यान्तगामिनः स्निग्धाः । अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते *त्व् अमोघाख्याः ॥ ३०.११॥ (K.ह्य्) कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः । त्रिदिवानुबन्धिनोऽवृष्टयेऽल्पभयदास्तु सप्ताहात् ॥ ३०.१२॥ ताम्रा बलपतिग्मृत्युं पीतारुणसन्निभाश्च तद्व्यसनम् । हरिताः पशुग्सस्यबधं धूमसवर्णा गवां नाशम् ॥ ३०.१३॥ माञ्जिष्टाभाः शस्त्राग्निग्सम्भ्रमं बभ्रवः पवनवृष्टिम् । भस्मसदृशास्त्ववृष्टिं तनुभावं शबलकल्माषाः ॥ ३०.१४॥ बन्धूकपुष्पाञ्जनचूर्णसन्निभं सान्ध्यं रजोऽभ्येति यदा दिवाकरम् । लोकास्तदा रोगशतैर्निपीड्यते शुक्लं रजो लोकविवृद्धिशान्तये ॥ ३०.१५॥ रविकिरणग्जलदमरुतां सङ्घातो दण्डवत् स्थितो दण्डः । स विदिक्ग्स्थितो नृपाणामशुभो दिक्षु *द्विजादीनाम् ॥ ३०.१६॥ (K.स्त्र्। द्विजातीनाम्) शस्त्रभयातङ्ककरो दृष्टः प्राङ्मध्यसन्धिषु दिनस्य । शुक्लाद्यो विप्रादीन् यदभिमुखस्तां निहन्ति दिशम् ॥ ३०.१७॥ दधिसदृशाग्रो नीलो भानुग्च्छादी खमध्यगोऽभ्रतरुः । पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ॥ ३०.१८॥ अनुलोमगेऽभ्रवृक्षे शमं गते यायिनो नृपस्य बधः । बालतरुग्प्रतिरूपिणि युवराजामात्ययोर्मृत्युः ॥ ३०.१९॥ कुवलयवैदूर्याम्बुजकिञ्जल्काभा प्रभञ्जनोन्मुक्ता । सन्ध्या करोति वृष्टिं रविकिरणोद्भासिता सद्यः ॥ ३०.२०॥ अशुभाकृतिघनगन्धर्वनगरनीहार*धूमपांशुयुता । (K.पांशुधूमयुता) प्रावृषि करोत्यवग्रहमन्यर्तौ शस्त्रकोपकरी ॥ ३०.२१॥ शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः । प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिरन्या ॥ ३०.२२॥ आयुधभृन् नररूपं छिन्नाभ्रं परभयाय रविगामि । सितखपुरेऽर्काक्रान्ते पुरलाभो भेदने नाशः ॥ ३०.२३॥ सितसितान्तघनावरणं रवेर् भवति वृष्टिकरं यदि सव्यतः । यदि च वीरणगुल्मनिभैर्घनैर् दिवसभर्तुरदीप्तदिगुद्भवैः ॥ ३०.२४॥ नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकृत् । कनकग्रूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥ ३०.२५॥ उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयग्*करौ वपुषान्वितौ । (K.कृतौ) अथ समस्तककुप्परिचारिणः परिधयोऽस्ति कणोऽपि न वारिणः ॥ ३०.२६॥ ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः । जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥ ३०.२७॥ पलालधूमसञ्चयस्थितोपमा बलाहकाः । बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥ ३०.२८॥ विलम्बिनो द्रुमोपमाः खरारुणप्रकाशिनः । घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ॥ ३०.२९॥ दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघादियुता च । प्रत्यहमर्कविकारयुता वा देशग्नरेशसुभिक्षबधाय ॥ ३०.३०॥ प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद्वा फलं सप्ताहात् परिवेषग्रेणुपरिघाः कुर्वन्ति सद्यो न चेत् । तद्वत् सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिलास् तस्मिन्न् एव दिनेऽष्टमेऽथ विहगाः सप्ताहपाका मृगाः ॥ ३०.३१॥ एकं दीप्त्या योजनं भाति सन्ध्या विद्युद्भासा षट् प्रकाशीकरोति । पञ्चाब्दानां गर्जितं याति शब्दो नास्तीयत्ता *के चिद् उल्कानिपाते ॥ ३०.३२॥ (K.का चिद्) प्रत्यर्कसंज्ञः परिधिस्तु तस्य *त्रियोजनाभः परिघस्य पञ्च । (K.त्रियोजना भा) षट्पञ्चदृश्यं परिवेषचक्रं दशामरेशस्य धनुर्विभाति ॥ ३०.३३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सन्ध्यालक्षणाध्यायः समाप्तः ॥ ३०॥

३१ दिग्दाहलक्षणाध्यायः

दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः । यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥ ३१.०१॥ योऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद्यः । राज्ञो महद्वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥ ३१.०२॥ प्राक्क्षत्रियाणां सनरेश्वराणां प्राग्दक्षिणे शिल्पिग्कुमारपीडा । याम्ये सहोग्रैः पुरुषैस्तु वैश्या दूताः पुनर्भूप्रमदाश्च कोणे ॥ ३१.०३॥ पश्चात् तु शूद्राः कृषिग्जीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे । पीडां व्रजन्त्युत्तरतश्च विप्राः *पाखण्डिनो वाणिजकाश्च शार्व्याम् ॥ ३१.०४॥ (K.पाषण्डिनो) नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च । दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥ ३१.०५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दिग्दाहलक्षणाध्यायः समाप्तः ॥ ३१॥

३२ भूकम्पलक्षणाध्यायः

क्षितिकम्पमाहुरेके बृहदन्तर्जलनिवासिसत्त्वकृतम् । भूभारखिन्नदिगजविश्रामसमुद्भवं चान्ये ॥ ३२.०१॥ अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्य्*अन्ये । (K.एके) के चित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः ॥ ३२.०२॥ गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पद्भिश्च । आकम्पिता पितामहमाहामरसदसि सव्रीडम् ॥ ३२.०३॥ भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन् न तथा । क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥ ३२.०४॥ तस्याः *सगद्गदगिरं किं चित् स्फुरिताधरं विनतमीषत् । (K.सगड्गदगिरं) साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥ ३२.०५॥ मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह ॥ ३२.०६॥ किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥ ३२.०७॥ चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरोऽश्वयुक्चेति । मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात् ॥ ३२.०८॥ धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम् । विरुजन् द्रुमांश्च विचरति रविरपटुग्करावभासी च ॥ ३२.०९॥ वायव्ये भूकम्पे सस्याम्बुग्वनाउषधीक्षयोऽभिहितः । श्वयथुग्श्वासोन्मादज्वरकास*भवो वणिक्पीडा ॥ ३२.१०॥ (K.भवा) रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः । पीड्यन्ते सौराष्ट्रककुरुमघधदशार्णमत्स्याश्च ॥ ३२.११॥ पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि । वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि ॥ ३२.१२॥ तारागुल्कापातावृतमादीप्तमिवाम्बरं सदिग्दाहम् । विचरति मरुत्ग्सहायः सप्तार्चिः सप्तदिवसान्तः ॥ ३२.१३॥ आग्नेयेऽम्बुदग्नाशः सलिलाशयसंक्षयो नृपतिवैरम् । दद्रूग्विचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ॥ ३२.१४॥ दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गबाह्लीकाः । तङ्गणकलिङ्गवङ्ग*द्रविडाः(ऊ।द्रविणाः) *शबरा अनेकविधाः ॥ ३२.१५॥ (K.शबराश्च नैकविधाः) हिजित्ग्श्रवणधनिष्ठाप्राजापत्याइन्द्रवैश्वमैत्राणि । सुरपतिग्मण्डलमेतद्भवन्ति *चाप्यस्य रूपाणि ॥ ३२.१६॥ (K.च अस्य स्वरूपाणि) चलिताचलवर्ष्माणो गम्भीरविराविणस्*तडिद्वन्तः । (K.तडित्वन्तः) गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥ ३२.१७॥ ऐन्द्रं *स्तुत ग्कुलजातिख्यातावनिपालगणपविध्वंसि । (K.श्रुति) अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥ ३२.१८॥ काशिग्युगन्धरपौरवकिरातकीराभिसारहलमद्राः । अर्बुदग्*सुराष्ट्र मालवपीडाकरमिष्टवृष्टिकरम् ॥ ३२.१९॥ (K.सुवास्तु) पौष्णाप्यार्द्रागाश्लेषामूलाहिर्बुध्न्यवरुणदेवानि । मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥ ३२.२०॥ नीलोत्पलालिग्भिन्नाञ्जनत्विषो मधुरराविणो बहुलाः । तडिद्गुद्भासितदेहा *धाराङ्कुर वर्षिणो जलदाः ॥ ३२.२१॥ (K.धाराङ्कुश) वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् । गोनर्दग्चेदिकुकुरान् किरातवैदेहकान् हन्ति ॥ ३२.२२॥ षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः । अन्यच्च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ॥) हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योन्यम् । वारुणघौतभुजावपि वेलानक्षत्रजाः कम्पाः ॥ ३२.२४॥ प्रथितग्नरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः । क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि ॥ ३२.२५॥ वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके । गावोऽतिभूरिग्पयसो निवृत्तवैराश्च भूपालाः ॥ ३२.२६॥ पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् । सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥ ३२.२७॥ चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । सलिलपतिरशीतिसंयुतं कुलिशधरोऽभ्यधिकं च *षष्टितः ॥ ३२.२८॥ (K.षष्टिकम्) त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे । यदि भवति भूमिकम्पः प्रधानग्नृपनाशनो भवति ॥ ३२.२९॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां भूकम्पलक्षणाध्यायः समाप्तः ॥ ३२॥

३३ उल्कालक्षणाध्यायः

दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः । धिष्ण्यागुल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ॥ ३३.०१॥ उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः । विद्युदहोभिः षड्भिः तद्वत् तारा विपाचयति ॥ ३३.०२॥ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या । तिस्रः सम्पूर्णफला विद्युदथोल्काशनिश्चेति ॥ ३३.०३॥ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥ ३३.०४॥ विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा । कुतिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥ ३३.०५॥ धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम् । ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥ ३३.०६॥ तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा । तिर्यगधश्चगूर्ध्वं वा याति वियत्युह्यमानाइव ॥ ३३.०७॥ उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुग्पुच्छा । दीर्घा *च भवति पुरुषं भेदा बहवो भवत्यस्याः ॥ ३३.०८॥ (K.भवति च) प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः । गोधाहिग्धूमरूपाः पापा या चोभयशिरस्का ॥ ३३.०९॥ ध्वजग्झष*गिरिकरि कमलेन्दुतुरगसन्तप्तरजतहंसाभाः । (K.करिगिरि) *श्रीवृक्ष ग्वज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ॥ ३३.१०॥ (K.श्रीवत्स, K.स्त्र्। श्रीवृक्ष) अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय । बम्भ्रमती गगनोपरि विभ्रममाख्याति लोकस्य ॥ ३३.११॥ संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च । परचक्रागमग्नृपभयदुर्भिक्षावृष्टिभयजननी ॥ ३३.१२॥ पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांशवोः । उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥ ३३.१३॥ शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णघ्नी । क्रमशश्चैतान् हन्युर्मूर्धोरःग्पार्श्वपुच्छस्थाः ॥ ३३.१४॥ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्ग्वृद्ध्यै ॥ ३३.१५॥ *श्यावारुण ग्नीलासृग्दहनासितभस्मसन्निभा रूक्षा । (K.श्यामा वारुण) सन्ध्याग्दिनजा वक्रा दलिता च परागमभयाय ॥ ३३.१६॥ नक्षत्रग्रह*घातैस् तद्भक्तीनां क्षयाय निर्दिष्टा । (K.घाते) उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥ ३३.१७॥ भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम् । विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥ ३३.१८॥ ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् । क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥ ३३.१९॥ कुर्वन्त्येताः पतिता देवप्रतिमासु राजग्राष्ट्रभयम् । शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥ ३३.२०॥ आशाग्रहोपघाते तद्देश्यानां खले कृषिरतानाम् । चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ॥ ३३.२१॥ द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः । ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनो गोष्ठे ॥ ३३.२२॥ क्ष्वेडागास्फोटितवादितगीतोत्कुष्टस्वना भवन्ति यदा । उल्काग्निपातसमये भयाय राष्ट्रस्य सनृपस्य ॥ ३३.२३॥ यस्याश्चिरं तिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय । या चोह्यते तन्तुधृतागिव खस्था या वा महेन्द्रध्वजतुल्यरूपा ॥ ३३.२४॥ श्रेष्ठिनः प्रतीपगा तिर्यगा *नृपाङ्गनानाम् । (K.नृपाङ्गनाः) हन्त्यधोमुखी नृपान् ब्राह्मणान् अथगूर्ध्वगा ॥ ३३.२५॥ *बर्हि ग्पुच्छरूपिणी लोकसंक्षयावहा । (K.वर्हि) सर्पवत् *प्रसर्पती योषितामनिष्टदा ॥ ३३.२६॥ (K.प्रसर्पिणी) हन्ति मण्डला पुरं छत्रवत् पुरोहितम् । वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ ३३.२७॥ व्यालसूकरोपमा विस्फुलिङ्गमालिनी । खण्डशोऽथ वा गता सस्वना च पापदा ॥ ३३.२८॥ सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति । पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥ ३३.२९॥ हिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य । निपतति च यया दिशा प्रदीप्ता जयति रिपून् अचिरात् तया प्रयातः ॥ ३३.३०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां उल्कालक्षणाध्यायः समाप्तः ॥ ३३॥

३४ परिवेषलक्षणाध्यायः

सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ॥ ३४.०१॥ ते रक्तग्नीलपाण्डुरकापोताभ्राभशबल*हरित शुक्लाः । (K.हरि) इन्द्रयमवरुणनिरृतिश्वसनईशपितामह*अम्बु कृताः ॥ ३४.०२॥ (K.अग्नि) धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये । प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ॥ ३४.०३॥ चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः । अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥ ३४.०४॥ सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः । असकलशकटशरासनश‍ृङ्गाटकवत् स्थितः पापः ॥ ३४.०५॥ शिखिगलसमेऽतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे । हरिचापग्निभे युद्धान्यशोककुसुमप्रभे चापि ॥ ३४.०६॥ वर्णेनैकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः । स्वगृतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥ ३४.०७॥ दीप्तग्*मृगविहङ्ग रुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् । (K.विहङ्गमृग) भयकृत् तडिद्गुल्काआद्यैर्हतो नृपं हन्ति शस्त्रेण ॥ ३४.०८॥ प्रतिदिनमर्कघिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः । परिविष्टयोरभीक्षणं लग्नग्*अस्तमय स्थयोस्तद्वत् ॥ ३४.०९॥ (K.अस्तनभः) सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः । त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥ ३४.१०॥ वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे । होराजन्माधिपयोर्जन्मगृक्षे वामशुभो राज्ञः ॥ ३४.११॥ (K.वाशुभो ऊॅह अशुभो) परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यग्नाशकरः । जनयति च वातवृष्टिं स्थावरकृषिकृन् निहन्ता च ॥ ३४.१२॥ भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् । जीवे परिवेषगते पुरोहितामात्यग्नृपपीडा ॥ ३४.१३॥ मन्त्रिग्स्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च । शुक्रे यायिग्क्षत्रिय*राज्ञी पीडा प्रियं चान्नम् ॥ ३४.१४॥ (K.राज्ञां) क्षुद्गनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ । परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥ ३४.१५॥ युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः । दिवसकृतः शशिनो वा क्षुद्गवृष्टिभयं त्रिषु प्रोक्तम् ॥ ३४.१६॥ याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ॥ ३४.१७॥ ताराग्रहस्य कुर्यात् पृथगेव समुत्थितो नरेन्द्रवधम् । नक्षत्राणामथ वा यदि केतोर्नोदयो भवति ॥ ३४.१८॥ विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः । श्रेणीग्पुरकोशानां पञ्चम्यादिष्वशुभकारी ॥ ३४.१९॥ युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः । पुरग्रोधो द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ॥ ३४.२०॥ नरपतिपत्नीग्पीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् । कुर्यात् तु पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥ ३४.२१॥ नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था । परिवेषमध्यरेखा विज्ञेयाआक्रन्दसाराणाम् ॥ ३४.२२॥ रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् । स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम् ॥ ३४.२३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां परिवेषलक्षणाध्यायः समाप्तः ॥ ३४॥

३५ इन्द्रायुद्धलक्षणाध्यायः

सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे । वियति धनुःग्संस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ ३५.०१॥ के चिदनन्तकुलोरगग्निःश्वासोद्भूतमाहुराचार्याः । तद्यायिनां नृपाणामभिमुखमजयावहं भवति ॥ ३५.०२॥ अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् । द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रयच्छति च ॥ ३५.०३॥ विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि । पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥ ३५.०४॥ जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरौ स्थिते व्याधिः । *वाल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥ ३५.०५॥ (K.वल्मीके) वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम् । पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥ ३५.०६॥ चापं मघोनः कुरुते निशायां आखण्डलायां दिशि भूपपीडाम् । याम्यापरोदक्ग्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च ॥ ३५.०७॥ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् । भवति च यस्यां दिशि तद्देश्यं नरपतिग्मुख्यं नचिराद्धन्यात् ॥ ३५.०८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां इन्द्रायुद्धलक्षणाध्यायः समाप्तः ॥ ३५॥

३६ गन्धर्वनगरलक्षणाध्यायः

उदगादि पुरोहितनृपबलपतियुवराजदोषदं खपुरम् । सितग्रक्तपीतकृष्णं विप्रादीनामभावाय ॥ ३६.०१॥ नागरग्नृपतिजयावहमुदग्विदिक्स्थं विवर्णनाशाय । शान्ताशायां दृष्टं सतोरणं नृपतिग्विजयाय ॥ ३६.०२॥ सर्वदिगुत्थं सततोथितं च भयदं नरेन्द्रराष्ट्राणाम् । चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ॥ ३६.०३॥ गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् । दीप्ते नरेन्द्रमृत्युर्वामेऽरिभयं जयः सव्ये ॥ ३६.०४॥ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाग्ध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ॥ ३६.०५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गन्धर्वनगरलक्षणाध्यायः समाप्तः ॥ ३६॥

३७ प्रतिसूर्यलक्षणाध्यायः

प्रतिसूर्यकः प्रशस्तो दिवसकृद्गृतुवर्णसप्रभः स्निग्धः । वैदूर्यग्निभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥ ३७.०१॥ पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय । प्रतिसूर्याणां माला दस्युग्भयातङ्कनृपहन्त्री ॥ ३७.०२॥ दिवसकृतः प्रतिसूर्यो जलकृद्गुदग्दक्षिणे स्थितोऽनिलकृत् । शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः ॥) केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि । K.३८.०८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिसूर्यलक्षणाध्यायः समाप्तः ॥ ३७॥

३८ निर्घातलक्षणाध्यायः

पवनः पवनाभिहतो गगनादवनौ यदा समापतति । भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥ ३८.०१॥ अर्कोदयेऽधिकरणिकग्नृपधनियोधाङ्गनावणिग्वेश्याः । आप्रहरांशेऽजाविकमुपहन्यात्ग्शूद्रपौरांश्च ॥ ३८.०२॥ आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति । वैश्यग्जलदांस्तृतीये चौरान् प्रहरे चतुर्थे तु ॥ ३८.०३॥ अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि । रात्रौ द्वितीययामे पिशाचसङ्घान् निपीडयति ॥ ३८.०४॥ तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च । भैरवग्जर्जरशब्दो याति यतस्तां दिशं हन्ति ॥ ३८.०५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां निर्घातलक्षणाध्यायः समाप्तः ॥ ३८॥

३९ सस्यजातकाध्यायः

वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनोक्ताः । ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥ ३९.०१॥ भानोरलिप्रवेशे केन्द्रैस्तस्मात्ग्शुभग्रहाक्रान्तैः । बलवद्भिः सौम्यैर्वा *निरीक्षिते ग्रैष्मिकविवृद्धिः ॥ ३९.०२॥ (K.निरीक्षितैर्) अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंह*संस्थितयोः । (K.स्थितयोः) सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य ॥ ३९.०३॥ अर्कात् सिते द्वितीये बुधेऽथ वा युगपदेव वा स्थितयोः । व्ययगतयोरपि तद्वन् निष्पत्तिरतीव गुरुदृष्ट्या ॥ ३९.०४॥ शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् । अल्य्गादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥ ३९.०५॥ लाभघिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः । सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ॥ ३९.०६॥ कुम्भे गुरुर्गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे । निष्पत्तिरस्ति महती पश्चात् परचक्रभयरोगम् ॥ ३९.०७॥ मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः । पापः सप्तमराशौ जातं जातं विनाशयति ॥ ३९.०८॥ अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् । सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम् ॥ ३९.०९॥ जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य । सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥ ३९.१०॥ वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ । भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥ ३९.११॥ विधिनानेनैव रविर्वृषप्रवेशे शरत्समुत्थानाम् । विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ॥ ३९.१२॥ त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् । *ग्रैष्मिक(K.ग्रष्मिक)धान्यं कुरुते *समर्घम् अभयोपयोग्यं च ॥ ३९.१३॥ (K.समर्थम्) कार्मुकमृगघटसंस्थः *शारदसस्यस्य तद्वदेव रविः । (K.शारदस्य) सङ्ग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्*योगात् ॥ ३९.१४॥ (K.यागात्) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सस्यजातकाध्यायः समाप्तः ॥ ३९॥

४० द्रव्यनिश्चयाध्यायः

ये येषां द्रव्याणामधिपतयो राशयः समुद्दिष्टाः । मुनिभिः शुभाशुभार्थं तान् आगमतः प्रवक्ष्यामि ॥ ४०.०१॥ वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भवौषधीनां कनकस्य च कीर्तितो मेषः ॥ ४०.०२॥ गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः । मिथुनेऽपि धान्यशारदवल्लीशालूककार्पासाः ॥ ४०.०३॥ कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि । सिंहे तुषधान्यग्रसाः सिंहादीनां त्वचः सगुडाः ॥ ४०.०४॥ षष्ठेऽतसीग्कलायाः कुलत्थगोधूममुद्गनिष्पावाः । सप्तमराशौ माषा *यवगोधूमाः ससर्षपाश्चैव ॥ ४०.०५॥ (K.गोधूमाः सर्षपाः सयवाः) अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि । नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ॥ ४०.०६॥ मकरे तरुगुल्माद्यं सैक्येक्षुसुवर्णकृष्णलोहानि । कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ॥ ४०.०७॥ मीने कपालसम्भवरत्नान्यम्बूद्भवानि वज्राणि । स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥ ४०.०८॥ राशेश्चतुर्ग्दशार्थायसप्तनवपञ्चमस्थितो जीवः । द्व्य्गेकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः ॥ ४०.०९॥ षट्ग्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु । उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ॥ ४०.१०॥ राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः । तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥ ४०.११॥ इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् । तद्द्रव्याणां वृद्धिः *सामर्घ्यं वल्लभत्वं च ॥ ४०.१२॥ (K.सामर्थयमदुर्लभत्वं च) गोचरपीडायामपि राशिर्बलिभिः शुभग्रहैर्दृष्टः । पीडां न करोति तथा क्रूरैरेवं विपर्यासः ॥ ४०.१३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां द्रव्यनिश्चयाध्यायः समाप्तः ॥ ४०॥

४१ अर्घकाण्डाध्यायः

अतिवृष्ट्य्गुल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च । दृष्ट्वामावास्यायामुत्पातान् *पौर्णमास्यां च ॥ ४१.०१॥ (K.पूर्णमास्यां) ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये । अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥ ४१.०२॥ मेषोपगते सूर्ये ग्रीष्मजधान्यस्य सङ्ग्रहं *कृत्वा । (K.कुर्यात्) वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः ॥ ४१.०३॥ मिथुनस्थे सर्वरसान् धान्यानि च सङ्ग्रहं समुपनीय । षष्ठे मासे विपुलं *विक्रेता प्राप्नुयाल्लाभम् ॥ ४१.०४॥ (K.विक्रीणन्) कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय । द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः ॥ ४१.०५॥ सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् । पञ्चममासे लब्धिर्विक्रेतुरतोऽन्यथा छेदः ॥ ४१.०६॥ कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता । षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥ ४१.०७॥ तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि । आदद्याद्धान्यानि च *वर्षार्धाद् द्विगुणिता वृद्धिः ॥ ४१.०८॥ (K.षण्मासाद्) वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि । वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥ ४१.०९॥ चापगते गृह्णीयात् *कुङ्कुम ग्शङ्खप्रवालकाचानि । (K.कुङ्कम) मुक्ताफलानि च ततो वर्षार्धाद्द्विगुणतां यान्ति ॥ ४१.१०॥ *मृगघटसंस्थे सवितरि गृह्णीयाल् लोहभाण्डधान्यानि । (K.मृगधटगे गृह्णीयाद्दिवाकरे) स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥ ४१.११॥ सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि । संस्थाप्य वत्सरार्धं लाभकमिष्टं समाप्नोति ॥ ४१.१२॥ राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा । युक्तोऽधिमित्रदृष्टस्तत्रायं लाभको दिष्टः ॥ ४१.१३॥ सवितृग्सहितः सम्पूर्णो वा शुभैर्युतवीक्षितः शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः । अशुभसहितः सन्दृष्टो वा हिनस्त्यथ वा रविः प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥ ४१.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां अर्घकाण्डाध्यायः समाप्तः ॥ ४१॥

४२ इन्द्रध्वजसम्पदध्यायः

ब्रह्माणमूचुरमरा भगवन् शक्ताः स्म नासुरान् समरे । प्रतियोधयितुमतस्त्वां शरण्यशरणं समुपयाताः ॥ ४२.०१॥ देवान् उवाच भगवान् क्षीरोदे केशवः स वः केतुम् । यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः ॥ ४२.०२॥ लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः । श्रीवत्साङ्कं कौस्तुभमणिकिरनोद्भासितोरस्कम् ॥ ४२.०३॥ श्रीपतिमचिन्त्यमसमं *समं ततः सर्वदेहिनां सूक्ष्मम् । (K.समन्ततः) परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् ॥ ४२.०४॥ तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम् । ध्वजमसुरसुरवधूमुखकमलवनतुषारतीक्ष्णांशुम् ॥ ४२.०५॥ तं विष्णुग्तेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे । देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः ॥ ४२.०६॥ स किङ्किणीग्जाल*परिष्कृतेन स्रक्छत्रघण्टापिटकान्वितेन । (K.परिस्कृतेन) समुच्छ्रितेनामरराड्ग्ध्वजेन निन्ये विनाशं समरेऽरिसैन्यम् ॥ ४२.०७॥ उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम् । यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयामास ॥ ४२.०८॥ प्रीतो महेन *मघवा प्राहैवं ये नृपाः करिष्यन्ति । (K.मघवान्) वसुवद्ग्वसुमन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति ॥ ४२.०९॥ मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः । ध्वजैव चाभिधास्यति जगति निमित्तैः फलं सदसत् ॥ ४२.१०॥ पूजा तस्य नरेन्द्रैर्बलवृद्धिजयार्थिभिर्यथा पूर्वम् । शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि ॥ ४२.११॥ तस्य विधानं शुभकरणदिवसनक्षत्रमङ्गलमुहूर्तैः । प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्रधारश्च ॥ ४२.१२॥ उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः । कुब्जगूर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च ॥ ४२.१३॥ बहुग्विहगालयकोटरपवनानलपीडिताश्च ये तरवः । ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे ॥ ४२.१४॥ श्रेष्ठोऽर्जुनोऽजकर्णः प्रियकधवोदुम्बराश्च पञ्चैते । (K.अश्वकमः) एतेषां *एकतमं प्रशस्तमथ वापरं वृक्षम् ॥ ४२.१५॥ (K.अन्यतमं) गौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्वम् । विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् ॥ ४२.१६॥ यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । उपहारं गृहीत्वागिमं क्रियतां वासपर्ययः ॥ ४२.१७॥ पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम । ध्वजार्थं देवराजस्य पूजागियं प्रतिगृह्यताम् ॥ ४२.१८॥ छिन्द्यात् प्रभातसमये वृक्षमुदक्प्राङ्मुखोऽपि वा भूत्वा । परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥ ४२.१९॥ नृपग्जयदमविध्वंस्तं पतनमनाकुञ्चितं च पूर्वोदक् । अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ॥ ४२.२०॥ छित्त्वाग्रे चतुर्गङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् । उद्धृत्य पुरद्वारं शकटेन नयेन् मनुष्यैर्वा ॥ ४२.२१॥ अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः । अर्थक्षयोऽक्षभङ्गे तथाणिभङ्गे च वर्द्धकिनः ॥ ४२.२२॥ भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा । दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः ॥ ४२.२३॥ अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः । स्रगन्धधूपयुक्तां प्रवेशयेत् शङ्खतूर्यरवैः ॥ ४२.२४॥ रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम् । सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥ ४२.२५॥ ह्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् । नटग्नर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ॥ ४२.२६॥ तत्र पताकाः श्वेता *भवन्ति विजयाय रोगदाः पीताः । (K.विजयाय भवन्ति) जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ॥ ४२.२७॥ यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः । बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे वा ॥ ४२.२८॥ सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे । जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम् ॥ ४२.२९॥ सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः । जुहुयादग्निं साम्वत्सरो निमित्तानि गृह्णीयात् ॥ ४२.३०॥ इष्टद्रव्याकारः सुरभिः स्निग्धो घनोऽनलोऽर्चिष्मान् । शुभकृदतोऽन्योऽनिष्टो यात्रायां विस्तरोऽभिहितः ॥ ४२.३१॥ (K.नेष्टो) स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धः प्रदक्षिणशिखो हुतभुग्नृपस्य । गङ्गाग्दिवाकरसुताजलचारुहारां धात्रीं *समुद्रग्रशनां वशगां करोति ॥ ४२.३२॥ (K.समुद्ररसनां) चामीकराशोककुरण्टकाब्ज- वैदूर्यग्नीलोत्पलसन्निभेऽग्नौ । न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुघतं नृपस्य ॥ ४२.३३॥ येषां रथौघार्णवमेघदन्तिनां समस्वनोऽग्निर्यदि वापि दुन्दुभेः । तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिरोपमा दिशः ॥ ४२.३४॥ ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम् । उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥ ४२.३५॥ द्विरदमदमहीसरोजलाजा घृतमधुना च हुताशने सगन्धे । (K.लाजैः) प्रणतग्नृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य ॥ ४२.३६॥ उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः । तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ॥ ४२.३७॥ गुडपूपपायसाद्यैर्विप्रान् अभ्यर्च्य दक्षिणाभिश्च । श्रवणेन द्वादश्यामुत्थाप्योऽन्यत्र वा श्रवणात् ॥ ४२.३८॥ शक्रकुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तज्ज्ञैः । नन्दोपनन्दसंज्ञे *पादऊनार्धे ध्वजोच्छ्रायात् ॥ ४२.३९॥ (K.पादेनार्धेन चोच्छ्रायात्) षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये । अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम् ॥ ४२.४०॥ प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः । तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि ॥ ४२.४१॥ रक्ताशोकग्निकाशं *चतुरस्रं विश्वकर्मणा प्रथमम् । (K.चतुरश्रम्) *रशना(K.रसना) स्वयम्भुवा शङ्करेण *चानेकवर्णगा दत्ता ॥ ४२.४२॥ (K.चानेकवर्णधरी) अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् । असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् ॥ ४२.४३॥ मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम् । मयूरं केयूरं षष्ठं वायुर्जलदनीलम् ॥ ४२.४४॥ स्कन्धः स्वं केयूरं सप्तममददद्ध्वजाय बहुचित्रम् । अष्टममनलग्ज्वालासङ्काशं हव्यभुग्*वृत्तम् ॥ ४२.४५॥ (K.दत्तम्) वैदूर्यसदृशं *इन्द्रो नवमं ग्रैवेयकं ददावन्यत् । (K.इन्दुर्) रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभायुक्तम् ॥ ४२.४६॥ एकादशमुद्वंशं विश्वेदेवाः सरोजसङ्काशम् । द्वादशमपि च *निवेशं ऋषयो नीलोत्पलाभासम् ॥ ४२.४७॥ (K.निवंशं मुनयो) किञ् चिदधऊर्ध्वग्*निर्मितम् उपरि विशालं त्रयोदशं केतोः । (K.निर्नतम्) शिरसि बृहस्पतिग्शुक्रौ लाक्षारससन्निभं ददतुः ॥ ४२.४८॥ यद्य्यद्येन *विभूषणम्(K.विनिर्मितम्) अमरेण विनिर्मितं ध्वजस्यार्थे । (K.विभूषणम्) तत्तत् तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः ॥ ४२.४९॥ ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य । परतः प्रथमात् प्रथमादष्टांशाष्टांशहीनानि ॥ ४२.५०॥ कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः । मनुना चागमगीतान् मन्त्रान् एतान् पठेन् नियतः ॥ ४२.५१॥ हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः । महर्षिग्सङ्घैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च ॥ ४२.५२॥ यथा त्वमूर्जस्करणैकरूपैः समर्चितस्त्वाभरणैरुदारैः । तथेह तान्याभरणानि *यागे शुभानि संप्रीतमना गृहाण ॥ ४२.५३॥ (K.देव) अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः । त्वमन्तकः सर्वहरः कृशानुः *सहस्रशीर्षः शतमन्युरीड्यः ॥ ४२.५४॥ (K.सहस्रशीर्शा) कविं सप्तजिह्वं त्रातारमिन्द्रं *स्ववितारं सुरेशम् । (K.अवितारं) ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा *उत्तरा भवन्तु ॥ ४२.५५॥ (K.उत्तरे) प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे । पठेदिमान् नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः ॥ ४२.५६॥ क्षत्र ग्ध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीइक्षुदण्डैः । (K.ऊ।छत्र) सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः ॥ ४२.५७॥ अच्छिन्नग्रज्जुं दृढकाष्ठमातृकं सुश्लिष्टयन्त्रार्गलपादतोरणम् । उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वितम् ॥ ४२.५८॥ अविरतग्जनरावं मङ्गलाशीःप्रणामैः । पटुग्पटहमृदङ्गैः शङ्खभेर्यादिभिश्च । श्रुतिग्विहितवचोभिः पापठद्भिश्च विप्रैर् अशुभग्*विहत(K.रहित)शब्दं केतुं *उत्थापयेच् च ॥ ४२.५९॥ (K.उत्थापयीत) फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिस्*तुष्टवद्भिश् च पौरैः । (K.तुष्टुवद्भिश्) *वृतम् अनिमिषभर्तुः केतुमीशः प्रजानां (K.धृतम्) अरिनगरग्नताग्रं कारयेद्द्विड्*बधाय ॥ ४२.६०॥ (K.वधाय) नातिद्रुतं न च विलम्बितमप्रकम्पं अध्वस्तमाल्यपिटकादिविभूषणं च । उत्थानमिष्टमशुभं यदतोऽन्यथा स्यात् तच्छान्तिभिर्नरपतेः शमयेत् पुरोधाः ॥ ४२.६१॥ क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्ति भयं नृपस्य । चाषेण चापि युवराजभयं वदन्ति श्येनो विलोचनभयं निपतन् करोति ॥ ४२.६२॥ छत्रभङ्गपतने नृपमृत्युस् तस्करान् मधु करोति निलीनम् । हन्ति चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च ॥ ४२.६३॥ राज्ञीविनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः । मध्याग्रमूलेषु च केतुभङ्गो निहन्ति मन्त्रिग्क्षितिपालपौरान् ॥ ४२.६४॥ धूमावृते शिखिग्भयं तमसा च मोहो व्यालैश्च भग्नपतितैर्न भवत्यमात्याः । ग्लायन्त्युदक्प्रभृति च क्रमशो *द्विजाद्यान् (K.द्विजाद्या) भङ्गे तु बन्धकिग्*बधः कथितः कुमार्याः ॥ ४२.६५॥ (K.वधः) रज्जूत्सङ्गग्च्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः । यद्यत् कुर्युश्*चारणा बालका वा (K.बालकाश्चारणा) तत्तत् तादृग्भावि पापं शुभं वा ॥ ४२.६६॥ दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि पञ्चमे । प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः स्वबलाभिविवृद्धये ॥ ४२.६७॥ उपरिचरवसुप्रवर्तितं नृपतिभिरप्यनुसन्ततं कृतम् । विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति ॥ ४२.६८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां इन्द्रध्वजसम्पदध्यायः समाप्तः ॥ ४२॥

४३ नीराजनाध्यायः

भगवति जलधरपक्ष्मक्षपाकरार्कईक्षणे कमलनाभे । उन्मीलयति *तुरङ्ग करिग्नरनीराजनं कुर्यात् ॥ ४३.०१॥ (K.तुरङ्गन) द्वादश्यामष्टम्यां *कार्तिक शुक्लस्य पञ्चदश्यां वा । (K.कार्त्तिक) आश्वयुजे वा कुर्यान् नीराजनसंज्ञितां शान्तिम् ॥ ४३.०२॥ नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम् । षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम्/ ॥ ४३.०३॥ सर्जोदुम्बरग्*ककुभशाखामय शान्तिसद्म कुशबहुलम् । (K.शाखाककुभमयं) वंशविनिर्मितमत्स्यध्वजचक्रालङ्कृतद्वारम् ॥ ४३.०४॥ प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् । कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगाणाम् ॥ ४३.०५॥ रविग्वरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः । सप्ताहं शान्तिगृहे कुर्यात्ग्शान्तिं तुरङ्गाणाम् ॥ ४३.०६॥ ह्यर्चिता न परुषं वक्तव्या नापि ताडनीयास्ते । पुण्याहशङ्खतूर्यध्वनिगीतरवैर्विमुक्तभयाः ॥ ४३.०७॥ प्राप्ते अष्टमेऽह्नि कुर्यादुदङ्मुखं तोरणस्य दक्षिणतः । कुशग्चीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च ॥ ४३.०८॥ चन्दनकुष्ठसमङ्गाहरितालमनःशिलाप्रियङ्गुवचाः । दन्त्य्गमृताञ्जनरजनीसुवर्णपुष्प्यग्निमन्थाश् च ॥ ४३.०९॥ (K.सुवर्णपुष्पाग्निमन्थाश्) श्वेतां सपूर्णकोशां कटम्भराग्त्रायमाणसहदेवीः । नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ॥ ४३.१०॥ कलशेष्व्*एताः(K.एतान्) कृत्वा सम्भारान् उपहरेद्*वलिं सम्यक् । (K.ऊ।बलिं) भक्ष्यैर्नानाकारैर्मधुग्पायसयावकप्रचुरैः ॥ ४३.११॥ खदिरपलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः । स्रुक्कनकाद्रजताद्वा कर्तव्या भूतिकामेन ॥ ४३.१२॥ पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा । तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥ ४३.१३॥ यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च । वेदीग्पुरोहितानललक्षणमस्मिंस्तदवधार्यम् ॥ ४३.१४॥ लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् । अहतसिताम्बरगन्धस्रग्*धूम अभ्यर्चितं कृत्वा ॥ ४३.१५॥ (K.ऊ।धूपा) आश्रमतोरणमूलं समुपनयेत् सान्त्वयन् शनैर्वाचा । वादित्रशङ्खपुण्याहनिःस्वनापूरितदिगन्तम् ॥ ४३.१६॥ यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य । स जयति तदा नरेन्द्रः शत्रून् *नचिराद् विना यत्नात् ॥ ४३.१७॥ (K.अचिराद्) त्रस्यन् नेष्टो राज्ञः परिशेषं चेष्टितं द्विपघयानाम् । यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ॥ ४३.१८॥ पिण्डमभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत् । अश्नीयाद्वा जयकृद्विपरीतोऽतोऽन्यथाभिहितः ॥ ४३.१९॥ कलशोदकेषु शाखामाप्लाव्याउदुम्बरीं स्पृशेत् तुरगान् । शान्तिकपौष्टिकमन्त्रैरेवं सेनां सनृपनागाम् ॥ ४३.२०॥ शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैर्मन्त्रैः । मृत्मयमरिं विभिन्द्यात्ग्शूलेनोरःस्थले विप्रः ॥ ४३.२१॥ खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितस्ततो राजा । आरुह्योदक्पूर्वां यायान् नीराजितः सबलः ॥ ४३.२२॥ मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः । शिरोमणिग्*प्रान्त चलत् प्रभाचयैर्ज्वलन् विवस्वान् इव तोयदात्यये ॥ ४३.२३॥ (K.व्रात) हंसपङ्क्तिभिरितस्ततोऽद्रिराट् सम्पतद्भिरिव शुक्लचामरैः । मृष्टगन्धपवनानुवाहिभिर्धूयमानरुचिरस्रगम्बरः ॥ ४३.२४॥ नैकवर्णमणिवज्रभूषितैर्भूषितो मुकुटकुण्डलाङ्गदैः । भूरिग्रत्नकिरणानुरञ्जितः शक्रकार्मुक*रुचिं समुद्वहन् ॥ ४३.२५॥ (K.रुचं) उत्पतद्भिरिव खं तुरङ्गमैर्दारयद्भिरिव दन्तिभिर्धराम् । निर्जितारिभिरिवामरैर्नरैः शक्रवत् परिवृतो व्रजेन् नृपः ॥ ४३.२६॥ सवज्रमुक्ताफलभूषणोऽथ वा सितस्रगुष्णीषविलेपनाम्बरः । धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः ॥ ४३.२७॥ संप्रहृष्टग्नरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् । निर्विकारमरिग्पक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत् ॥ ४३.२८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नीराजनाध्यायः समाप्तः ॥ ४३॥

४४ खञ्जनकलक्षणाध्यायः

खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥ ४४.०१॥ स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥ ४४.०२॥ कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद्रिक्तः । पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥ ४४.०३॥ अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु । करिग्तुरगभुजगमूर्ध्नि प्रासादोद्यानहर्म्येषु ॥ ४४.०४॥ गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे । हस्तिग्तुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥ ४४.०५॥ हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु । दधिग्पात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥ ४४.०६॥ पङ्के स्वाद्व्गन्नाप्तिर्गोरससम्पच्च गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥ ४४.०७॥ गृहपटलेऽर्थभ्रंशो *बध्रे बन्धोऽशुचौ भवति रोगः । (K.वध्रे) पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥ ४४.०८॥ महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कर*अट्ट स्थः । (K.अद्रि) प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥ ४४.०९॥ पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगाग्संस्थः । सूर्योदये *प्रशस्तो नेष्टफलः खञ्जनोऽस्तमये ॥ ४४.१०॥ (K.ऽथ शस्तो) नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । पश्येत् तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥ ४४.११॥ तस्मिन् निधिर्भवति मैथुनमेति यस्मिन् यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचम् । अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य तत्ग्कौतुकापनयनाय खनेद्धरित्रीम् ॥ ४४.१२॥ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । धनकृदभिनिलीयमानको वियति च बन्धुग्समागमप्रदः ॥ ४४.१३॥ नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिग्कुसुमधूपयुक्तमर्घं शुभं *अभिनन्दिम् एवमेति वृद्धिम् ॥ ४४.१४॥ (K.ऊऽभिनन्दितम्) अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः । न नृपतिरशुभं *समाप्नुयात् न यदि दिनानि च सप्त मांसभुक् ॥ ४४.१५॥ (K.समाप्नुयान्) आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु *दिनशेषात् । (K.दिनशेषे) दिक्ग्स्थानमूर्तिलग्नऋक्षशान्तदीप्तादिभिश्चऊह्यम् ॥ ४४.१६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां खञ्जनकलक्षणाध्यायः समाप्तः ॥ ४४॥

४५ उत्पाताध्यायः

यान् अत्रेरुत्पातान् गर्गः प्रोवाच तान् अहं वक्ष्ये । तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः ॥ ४५.०१॥ अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति । संसूचयन्ति दिव्यान्तरिक्षभौमास्*त उत्पाताः ॥ ४५.०२॥ (K.तदुत्पाताः) मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥ ४५.०३॥ दिव्यं ग्रहगृक्षवैकृतमुल्कानिर्घातपवनपरिवेषाः । गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥ ४५.०४॥ भौमं चरस्थिरभवं तत्शान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥ ४५.०५॥ दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः । रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ॥ ४५.०६॥ आत्मसुतकोशवाहनपुरदारपुरोहितेषु *लोके च । (K.लोकेषु) पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥ ४५.०७॥ अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि । लिङ्गार्चागायतनानां नाशाय नरेशदेशानाम् ॥ ४५.०८॥ दैवतयात्राग्शकटाक्षचक्रयुगकेतुभङ्गपतनानि । सम्पर्यासनसादन*सङ्गश् च न देशनृपशुभदाः ॥ ४५.०९॥ (K.सङ्गाश्) ऋषिग्धर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् । यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥ ४५.१०॥ गुरुग्सितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् । स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम् ॥ ४५.११॥ वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे । धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ॥ ४५.१२॥ देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् । तन् नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ॥ ४५.१३॥ रक्षःग्पिशाच*गृह्यक(ऊ।गुह्यक)नागानां *एवम्(K.एतद्) एव *निर्दिष्टम् । (K.निर्देश्यम्) मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ॥ ४५.१४॥ बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः । स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ॥ ४५.१५॥ मधुपर्केण पुरोधा *भक्ष्यैर् बलिभिश्च विधिवदुपतिष्ठेत् । (K.बक्षैर्) स्थालीपाकं जुहुयाद्विधिवन् मन्त्रैश्च तल्ग्लिङ्गैः ॥ ४५.१६॥ इति विबुधविकारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च । विधिवदवनिग्पालैर्यैः प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः ॥ ४५.१७॥ राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् । मनुजेश्वरस्य पीडा तस्य *च राष्ट्रस्य विज्ञेया ॥ ४५.१८॥ (K.ओमित्तेद्) जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः । सैन्यग्रामपुरेषु च नाशो वह्नेर्भयं कुरुते ॥ ४५.१९॥ प्रासादभवनतोरणकेत्वादिष्वननलेन दधेषु । तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥ ४५.२०॥ धूमोऽनग्निग्समुत्थो रजस्तमश्चाह्निजं महाभयदम् । व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥ ४५.२१॥ नगरग्*चतुष्पादण्डज मनुजानां भयकरं ज्वलनमाहुः । (K.चतुष्पादाण्डज) धूमाग्निग्विस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः ॥ ४५.२२॥ आयुधग्ज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा । वैकृतानि यदि वागायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत् ॥ ४५.२३॥ मन्त्रैर्*आग्नेयैः क्षीरवृक्षात् समिद्भिर् (K.वाह्नैः) होतव्योऽग्निः सर्षपैः सर्पिषा च । अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः ॥ ४५.२४॥ शाखाभङ्गेऽकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम् । हसने देशभ्रंशं रुदिते च व्याधिग्बाहुल्यम् ॥ ४५.२५॥ राष्ट्रविभेदस्त्वनृतौ बालवधोऽतीव कुसुमिते बाले । वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति ॥ ४५.२६॥ मद्ये वाहनग्नाशः सङ्ग्रामः शोणिते मधुनि रोगः । स्नेहे दुर्भिक्षभयं महद्भयं *निःस्रुते सलिले ॥ ४५.२७॥ (K.निःसृते) शुष्कविरोहे वीर्यान्नसंक्षयः शोषणे च विरुजानाम् । पतितानामुत्थाने स्वयं भयं दैवजनितं च ॥ ४५.२८॥ पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् । धूमस्तस्मिन् ज्वालाऽथ वा भवेन् नृपवधायैव ॥ ४५.२९॥ सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः । वृक्षाणां वैकृत्ये दशभिर्मासैः फलविपाकः ॥ ४५.३०॥ स्रगन्धधूपाम्बरपूजितस्य छत्रं विधायोपरि पादपस्य । कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र *षड् एव होमाः ॥ ४५.३१॥ (K.षडङ्गहोमः) पायसेन *मधुनापि भोजयेद्ब्राह्मणान् घृतयुतेन भूपतिः । (K.मधुना च) मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ॥ ४५.३२॥ नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् । कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥ ४५.३३॥ अतिवृद्धिः सस्यानां नानाग्फलकुसुम*सम्भवो वृक्षे । (K.भवो) भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥ ४५.३४॥ अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् । अन्नस्य च वैरस्यं तदा तु विन्द्याद्भयं सुमहत् ॥ ४५.३५॥ विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्वहिः कार्यम् । (K.ऊ।बहिः) सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ ४५.३६॥ सस्ये च दृष्ट्वा विकृतिं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः । तस्यैव मध्ये चरुमत्र भौमं कृत्वा न दोषं समुपैति *तज्जम् ॥ ४५.३७॥ (K.तज्जान्) दुर्भिक्षं *अनावृष्टावतिवृष्टौ(K.अनावृष्ट्यामतिवृष्ट्याम्) क्षुद्भयं *परभयं च । (K.सपरचक्रम्) रोगो ह्यनृतुग्भवायां *नृपतिवधो ऽनभ्रजातायाम् ॥ ४५.३८॥ (K.नृपवधो) शीतोष्णग्*विपर्यासो नो सम्यगृतुषु च संप्रवृत्तेषु । (K.विपर्यासे) षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च ॥ ४५.३९॥ अन्यगृतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम् । रक्ते शस्त्रोद्योगो मांसास्थिग्वसाआदिभिर्मरकः ॥ ४५.४०॥ धान्यघिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्भयं विन्द्यात् । अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम् ॥ ४५.४१॥ उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः । देशविनाशो ज्ञेयोऽसृग्वर्षे च अपि नृपयुद्धम् ॥) क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे । K. ४६.४३॥ (K.स्त्र्। वारिणो) यद्यमलेऽर्के छाया न दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्ग्भयमायातं विनिर्देश्यम् ॥ ४५.४३॥ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भ्यं सुमहत् ॥ ४५.४४॥ सूर्येन्दुग्पर्जन्यसमीरणानां *यागः स्मृतो वृष्टिविकारकाले । (K.योगः) धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ॥ ४५.४५॥ अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते । शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम् ॥ ४५.४६॥ स्नेहाग्सृग्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि । परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ४५.४७॥ ज्वालाग्धूमक्वाथारुदितोत्क्रुष्टानि चैव कूपानाम् । गीतप्रजल्पितानि च जनमरकाय*उपदिष्टानि ॥ ४५.४८॥ (K.प्रदिष्टानि) *सलिल गुत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम् । (K.तोय) सलिलाशयविकृतौ वा महद्भयं तत्र शन्तिं *इमाम् ॥ ४५.४९॥ (K.इयम्) सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः । तैरेव च जपघोमं शममेवं पापमुपयाति ॥ ४५.५०॥ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसंप्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसंक्षयो भवति ॥ ४५.५१॥ वडवागुष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे *रणमरणम् एषाम् । (K.मरणम्) षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ॥ ४५.५२॥ नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥ ४५.५३॥ चतुष्पादाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु । नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥ ४५.५४॥ परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् । उक्षाणो वान्योन्यं पिबति श्वा वा सुरभिग्पुत्रम् ॥ ४५.५५॥ मासत्रयेण विन्द्यात् तस्मिन् निःसंशयं परागमनम् । तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥ ४५.५६॥ त्यागो विवासनं दानं तत् तस्याशु शुभं भवेत् । तर्पयेद्ब्राह्मणांश्चात्र जपघोमांश्च कारयेत् ॥ ४५.५७॥ स्थालीपाकेन धातारं पशुना च पुरोहितः । प्राजापत्येन मन्त्रेण यजेद्बह्व्गन्नदक्षिणम् ॥ ४५.५८॥ यानं वाहवियुक्तं यदि गच्छेन् न व्रजेच्च वाहयुतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥ ४५.५९॥ गीतरवतूर्यशब्दा नभसि यदा वा चरस्थिरान्यत्वम् । मृत्युस्तदा गदा वा *विस्वतूर्ये पराभिभवः ॥ ४५.६०॥ (K.ऊ।विस्वरतार्ये) अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । व्युत्पत्तौ वा तेषां परागमो नृपतिग्मरणं वा ॥ ४५.६१॥ गोग्लाङ्गलयोः सङ्गे दर्वीशूर्पाद्युपस्करविकारे । क्रोष्टुकग्नादे च तथा शस्त्रभयं मुनिवचश्चेदम् ॥ ४५.६२॥ वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् । आवायोरिति पञ्चर्चो *जप्तव्याः प्रयतैर्द्विजैः ॥ ४५.६३॥ (K.जाप्याश्च) ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् । बह्व्गन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥ ४५.६४॥ पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् । नक्तं वा दिवसग्चराः क्षपाचरा वा चरन्त्यहनि ॥ ४५.६५॥ सन्ध्याग्द्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा । दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः ॥ ४५.६६॥ *श्येनाः प्ररुदन्त इव द्वारे क्रोशन्ति जम्बुका दीप्ताः । (K.श्वानः) प्रविशेन् नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥ ४५.६७॥ कुक्कुटग्रुतं प्रदोषे हेमन्तादौ च कोकिलालापाः । प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः ॥ ४५.६८॥ गृहग्चैत्यतोरणेषु द्वारेषु च पक्षिसङ्घ*सम्पातः । (K.सम्पाताः) मधुग्वल्मीकाम्भोरुह*समुद्भवश् चापि नाशाय ॥ ४५.६९॥ (K.समुद्भवाश्) श्वभिरस्थिग्शवावयवप्रवेशनं मन्दिरेषु मरकाय । पशुग्शस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ॥ ४५.७०॥ मृगपक्षिविकारेषु कुर्याद्*धीमान् सदक्षिणान् । (K.ऊ।धोमान्) देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ ४५.७१॥ सुदेवा इति चैकेन देया गावः *सदक्षिणाः । (K.च दक्षिणा) जपेत्ग्शाकुनसूक्तं वा मनो वेदशिरांशि च ॥ ४५.७२॥ शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु । तद्वत् कपाटतोरणकेतूनां नरपतेर्मरणम् ॥ ४५.७३॥ सन्ध्याग्द्वयस्य दीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ । छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी ॥ ४५.७४॥ *पाखण्डाणां नास्तिकानां च भक्तः (K.पाषण्डाणां) साध्व्गाचारप्रोज्झितः क्रोधशीलः । ईर्ष्युः क्रूरो विग्रहासक्तग्चेता यस्मिन् राजा तस्य देशस्य नाशः ॥ ४५.७५॥ प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः । निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु ॥ ४५.७६॥ अङ्गारगैरिकाद्यैर्विकृतप्रेताभिलेखनं यस्मिन् । नायकग्चित्रितमथ वा क्षये क्षयं याति न चिरेण ॥ ४५.७७॥ लूताग्पटाङ्गशबलं न सन्ध्ययोः पूजितं कलहयुक्तम् । नित्योच्छिष्टस्त्रीकं च यद्गृहं तत् क्षयं याति ॥ ४५.७८॥ दृष्टेषु यातुधानेषु निर्दिशेन् मरकमाशु संप्राप्तम् । प्रतिघातायैतेषां गर्गः शान्तिं चकारेमाम् ॥ ४५.७९॥ महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च । कारयेत महेन्द्रं च *माहेन्द्रीं च समर्चयेत् ॥ ४५.८०॥ (K.महेन्द्रीभिः) नरपतिग्देशविनाशे केतोरुदयेऽथ वा ग्रहेऽर्केन्द्वोः । उत्पातानां प्रभवः स्वगृतुभवश्चाप्यदोषाय ॥ ४५.८१॥ ये च न दोषान् जनयन्त्युत्पातास्तान् ऋतुग्स्वभावकृतान् । ऋषिपुत्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः ॥ ४५.८२॥ वज्राशनिग्महीकम्पसन्ध्यानिर्घातनिःस्वनाः । परिवेषग्रजोधूमरक्तार्क*अस्तमय उदयाः ॥ ४५.८३॥ (K.अस्तमन) द्रुमेभ्योऽन्नग्रसस्नेहबहुपुष्पफलोद्गमाः । गोग्पक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ४५.८४॥ तारागुल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निग्ज्वलनस्फोटधूमरेण्वनिलाहतम् ॥ ४५.८५॥ रक्तपद्म*अरुणा(K.अरुणम्) *सन्ध्या नभः क्षुब्धार्णवोपमम् । (K.सन्ध्यं) सरितां चाम्बुग्संशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ४५.८६॥ शक्रायुधपरीवेषविद्युत्शुष्कविरोहणम् । कम्पोद्वर्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ४५.८७॥ सरोग्नद्युदपानानां वृद्ध्यूर्ध्वतरणप्लवाः । सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ४५.८८॥ दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् । ग्रहग्नक्षत्रताराणां दर्शनं च दिवाऽम्बरे ॥ ४५.८९॥ गीतवादित्रनिर्घोषा वनपर्वतसानुषु । सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥ ४५.९०॥ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोग्यक्षादिसत्त्वानां दर्शनं वागमनुषी ॥ ४५.९१॥ दिशो धूमान्धकाराश्च सग्नभोवनपर्वताः । उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ४५.९२॥ हिमपातानिलोत्पाता विरूपाद्भुतदर्शनम् । कृष्णाञ्जनाभमाकाशं तारागुल्कापातपिञ्जरम् ॥ ४५.९३॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः ॥ ४५.९४॥ ऋतुग्स्वभावजा ह्येते दृष्टाः स्वऋतौ शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते *चातिदारुणाः ॥ ४५.९५॥ (K.बृशदारुनाः) उन्मत्तानां च या गाथाः शिशूनां *यच्च भाषितम् । (K.भाषितं च यत्) स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ४५.९६॥ पूर्वं चरति देवेषु पश्चाच्चरति मानुषान् । (K.गच्छति) नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ४५.९७॥ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च । एतत् तन्ग्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी ॥ ४५.९८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां उत्पाताध्यायः समाप्तः ॥ ४५॥

४६ मयूरचित्रकाध्यायः

दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च । प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥ ४६.०१॥ भूयो वराहमिहिरस्य न युक्तमेतत् कर्तुं समासकृदसविति तस्य दोषः । तज्ज्ञैर्न वाच्यमिदमुक्तफलानुगीति यद्*बर्हि चित्रकमिति प्रथितं वराङ्गम् ॥ ४६.०२॥ (K.वर्हि) स्वरूपमेव तस्य तत्ग्प्रकीर्तितानुकीर्तनम् । ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥ ४६.०३॥ उत्तरवीथिगता द्युतिमन्तः क्षेम*शुभिक्ष(ऊ।सुभिक्ष)शिवाय समस्ताः । दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते ॥ ४६.०४॥ कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिरां प्रभविष्णौ । निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः ॥ ४६.०५॥ पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवमैन्द्रमेव वा । प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीड्यते ॥ ४६.०६॥ प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते प्राच्यानां भवति हि विग्रहो नृपाणाम् । मध्ये चेद्भवति हि मध्यदेशग्*पीठा (K.ऊ।पीडा) रूक्षैस्तैर्न तु *रुचिमन् मयूखवद्भिः ॥ ४६.०७॥ (K.रुचिरैर्) दक्षिणां ककुभं *आश्रितस् तु तैर्दक्षिणापथपयोमुचां क्षयः । (K.आश्रितैस्) हीनग्रूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥ ४६.०८॥ उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन् नृपतीनाम् । ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम् ॥ ४६.०९॥ नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत् । आलोकं वा निर्निमित्तं न यान्ति याति ध्वंसं सर्वलोकः सभूपः ॥ ४६.१०॥ दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिरतीव तदाशु शुभा । तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुष्प्रभृति ॥ ४६.११॥ मुनीन् अभिजितं ध्रुवं मघवतश्च भं संस्पृशन् शिखी घनविनाशकृत् कुशलकर्महा शोकदः । *भुजङ्गम् अथ संस्पृशेद्भवति वृष्टिनाशो ध्रुवं (K.भुजङ्गभम्) क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ॥ ४६.१२॥ प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् । दुर्भिक्षं कुरुते *महदुग्रं मित्राणां च विरोधमवृष्टिम् ॥ ४६.१३॥ (K.भयमुग्रं) रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथ वा शिखी । किं वदामि यदनिष्टसागरे जगदशेषमुपयाति संक्षयम् ॥ ४६.१४॥ उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा । अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥ ४६.१५॥ धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो बलोद्योगं *चन्द्रः कथयति जयं ज्याऽस्य च यतः । (K.चेन्दुः) गवां(अवाक्) श‍ृङ्गो गोघ्नो निधनमपि सस्यस्य कुरुते ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ॥ ४६.१६॥ स्निग्धः स्थूलः समश‍ृङ्गो विशालस्तुङ्गश्चोदविचरन् नागवीथ्याम् । दृष्टः सौम्यैरशुभैर्विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥ ४६.१७॥ पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः । दक्षिणेन न *शुभः शुभकृत् स्याद्यद्युदक्चरति मध्यगतो वा ॥ ४६.१८॥ (K.शुभो हितकृत्) परिघ इति मेघरेखा या तिर्यभास्करोदयेऽस्ते वा । परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः ॥ ४६.१९॥ उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते । सुरचापखण्डं ऋजु यद्रोहितमैरावतं दीर्घम् ॥ ४६.२०॥ अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् । तेजःपरिहानि मुखाद्भानोरर्धोदयो यावत् ॥ ४६.२१॥ तस्मिन् सन्ध्याग्काले चिह्नैरेतैः शुभाशुभं वाच्यम् । सर्वैरेतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥ ४६.२२॥ अच्छिन्नः परिघो वियच्च विमलं श्यामा मयूखा रवेः स्निग्धा दीधितयः *मितं सुरधनुर्विद्युच्च पूर्वोत्तरा । (K.ऊ।सितं) स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गतो वा यदा वृष्टिः स्याद्यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥ ४६.२३॥ खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः । यस्मिन् देशे रूक्षश्चार्कस्तत्राभावः प्रायो राज्ञः ॥ ४६.२४॥ वाहिनीं समुपयाति पृष्ठतो मांसभुक्खगगणो युयुत्सतः । यस्य तस्य बलविद्रवो महान् अग्रैस्तु विजयो विहङ्गमैः ॥ ४६.२५॥ भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजनी । विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥ ४६.२६॥ शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च । पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥ ४६.२७॥ यद्विस्तरेण कथितं मुनिभिस्तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम् । श्रुत्वाऽपि कोकिलग्रुतं बलिभुग्विरौति यत्ग्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥ ४६.२८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मयूरचित्रकाध्यायः समाप्तः ॥ ४६॥

४७ पुष्यस्नानाध्यायः

मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात् । अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥ ४७.०१॥ या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे । तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः श‍ृणुत ॥ ४७.०२॥ पुष्यस्नानं नृपतेः कर्तव्यं दैववित्ग्पुरोधाभ्याम् । नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति ॥ ४७.०३॥ श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने । कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते ॥ ४७.०४॥ तरुणतरुगुल्मवल्लीलताप्रतान*अन्विते वनोद्देशे । (K.आवृते) निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राये ॥ ४७.०५॥ कृकवाकुग्जीवजीवकशुकशिखिशतपत्रचाषहारीतैः । क्रकरग्चकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ॥ ४७.०६॥ कुसुमग्रसपानमत्तद्विरेफपुंस्कोकिलादिभिश्चान्यैः । विरुते वनोपकण्ठे क्षेत्रागारे शुचावथ वा ॥ ४७.०७॥ *हृदिनी ग्विलासिनीनां जलखगनखविक्षतेषु रम्येषु । (K.ऊरदिनी) पुलिनग्जघनेषु कुर्याद्दृक्मनसोः प्रीतिजननेषु ॥ ४७.०८॥ प्रोत्प्लुतघंसच्छत्रे कारण्डवकुररसारसोद्गीते । फुल्लेन्दीवरग्नयने सरसि सहस्राक्षकान्तिधरे ॥ ४७.०९॥ प्रोत्फुल्लकमलवदनाः कलहंस*कल प्रभाषिण्यः । (K.कलस्वन) प्रोत्तुङ्गकुड्मलकुचा यस्मिन् नलिनीविलासिन्यः ॥ ४७.१०॥ कुर्याद्गोरोमन्थजफेनलवशकृत्खुरक्षतोपचिते । अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठे ॥ ४७.११॥ अथ वा समुद्रतीरे कुशलागतग्*रत्नपोत सम्बाधे । (K.पोतरत्न) घनग्निचुललीनजलचरसितखगशबलीकृतोपान्ते ॥ ४७.१२॥ क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते *येषु । (K.यत्र) दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथ वा ॥ ४७.१३॥ काञ्चीग्कलापनूपुरगुरुजघनोद्वहनविघ्नितपदाभिः । श्रीमति मृगेक्षणाभिर्गृहेऽन्यभृतवल्गुवचनाभिः ॥ ४७.१४॥ पुण्येष्वायतनेषु च तीर्थेषूद्यानग्रम्यदेशेषु । पूर्वोदक्ग्प्लवभूमौ प्रदक्षिणाम्भोवहायां च ॥ ४७.१५॥ भस्माङ्गारास्थ्य्गूषरतुषकेशश्वभ्रकर्कटावासैः । *श्वाविध ग्मूषकविवरैर्वल्मीकैर्या च सन्त्यक्ता ॥ ४७.१६॥ (K.श्वाविन्) धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय । सेनावासेऽप्येवं योजयितव्या यथायोगम् ॥ ४७.१७॥ निष्क्रम्य पुरान् नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् । कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ॥ ४७.१८॥ लाजाक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् । आवाहनमथ मन्त्रस्तस्मिन् मुनिभिः समुद्दिष्टः ॥ ४७.१९॥ आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः । दिशो नागा द्विजाश्चैव ये *चाप्यन्ये ऽंशभागिनः ॥ ४७.२०॥ (K.चानेयप्य्) आवाह्यैवं ततः सर्वान् एवं ब्रूयात् पुरोहितः । श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ॥ ४७.२१॥ आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस्ते । सदसत्ग्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ॥ ४७.२२॥ अपरेऽहनि प्रभाते सम्भारान् उपहरेद्यथोक्तगुणान् । गत्वाऽवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ॥ ४७.२३॥ तस्मिन् मण्डलमालिख्य कल्पयेत् तत्र मेदिनीम् । नानाग्रत्नाकरवतीं स्थानानि विविधानि च ॥ ४७.२४॥ पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितॄन् । गन्धर्वाप्सरसश्चैव मुनीन् सिद्धांश्च विन्यसेत् ॥ ४७.२५॥ ग्रहांश्च *सर्व नक्षत्रै रुद्रांश्च सह मातृभिः । (K.सह) स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः ॥ ४७.२६॥ वर्णकैर्विविक्धैः कृत्वा हृद्यैर्गन्धगुणान्वितैः । यथास्वं पूजयेद्विद्वान् गन्धमाल्यानुलेपनैः ॥ ४७.२७॥ भक्ष्यैरन्नैश्च विविधैः फलमूलामिषैस्तथा । *पानैश्च विविधैर्हृद्यैः सुराग्क्षीरासवादिभिः ॥ ४७.२८॥ (K.पानकैर्) कथयाम्यतः परमहं पूजामस्मिन् यथाभिलिखितानाम् । ग्रहयज्ञे यः प्रोक्तो विधिर्ग्रहाणां स कर्तव्यः ॥ ४७.२९॥ मांसौदनमद्यैः पिशाचदितितनयदानवाः पूज्याः । ह्यञ्जनाञ्जनतिलैः पितरो मांसौदनैश्चापि ॥ ४७.३०॥ सामयजुर्भिर्मुनयस्त्वृग्भिर्गन्धैश्च धूपमाल्ययुतैः । अश्लेषकवर्णैस्त्रिमधुरेण चाभ्यर्चयेद्नागान् ॥ ४७.३१॥ धूपाज्याहुतिग्माल्यैर्विबुधान् *रत्नः(ऊ।रत्नैः) स्तुतिप्रणामैश्च । गन्धर्वान् अप्सरसो गन्धैर्माल्यैश्च सुसुगन्धैः ॥ ४७.३२॥ शेषांस्तु सार्ववर्णिकबलिभिः पूजां न्यसेच्च सर्वेषाम् । प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ॥ ४७.३३॥ मण्डलपश्चिमभागे कृत्वाग्निं दक्षिणेऽथ वा वेद्याम् । आदद्यात् सम्भारान् दर्भान् दीर्घान् अगर्भांश्च ॥ ४७.३४॥ लाजागाज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो *धूपः । (K.धुपान्) गोरोचनाञ्जनग्*तिलाः स्वर्तुजमधुराणि च फलानि ॥ ४७.३५॥ (K.तिलान्) सघृतस्य पायसस्य च तत्र शरावाणि तैश्च सम्भारैः । पश्चिमवेद्यां पूजां कुर्यात् *स्नानस्य(ऊ।स्नातस्य) सा वेदी ॥ ४७.३६॥ तस्याः कोणेषु दृढान् कलशान् सितसूत्रवेष्टितग्रीवान् । सक्षीरवृक्षपल्लवफलापिधानान् व्यवस्थाप्य ॥ ४७.३७॥ पुष्यस्नानविमिश्रेणापूर्णान् अम्भसा सरत्नांश्च । पुष्यस्नानद्रव्याण्यादद्याद्गर्गगीतानि ॥ ४७.३८॥ ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् । जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा ॥ ४७.३९॥ सहां च सहदेवीं च पूर्णकोशां शतावरीम् । अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ॥ ४७.४०॥ ब्राह्मीं क्षेमामजां चैव सर्वबीजानि *काञ्चनीम् । (K.काञ्चनम्) मङ्गल्यानि यथालाभं सर्वौषध्यो *रसास् तथा ॥ ४७.४१॥ (K.रसांस्) रत्नानि *सर्वगन्धाश् च बिल्वं च सविकङ्कतम् । (K.सर्वगन्धांश्) प्रशस्तग्नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ॥ ४७.४२॥ आदावनडुहश्चर्म जरया संहृतायुषः । प्रशस्तलक्षणभृतः प्राचीनग्रीवमास्तरेत् ॥ ४७.४३॥ ततो वृषस्य योधस्य चर्म रोहितमक्षतम् । सिम्हस्याथ तृतीयं स्याद्व्याघ्रस्य च ततः परम् ॥ ४७.४४॥ चत्वार्येतानि चर्माणि तस्यां वेद्यामुपास्तरेत् । शुभे मुहूर्ते संप्राप्ते पुष्ययुक्ते निशाकरे ॥ ४७.४५॥ भद्रासनमेकतमेन कारितं कनकग्रजतताम्राणाम् । क्षीरतरुग्निर्मितं वा विन्यस्यं चर्मणामुपरि ॥ ४७.४६॥ त्रिविधस्तस्योच्छ्रायो हस्तः पादाधिकोऽर्धयुक्तश्च । माण्डलिकानन्तरजित्ग्समस्तराज्यार्थिनां शुभदः ॥ ४७.४७॥ अन्तर्धाय हिरण्यं तत्रोपविशेन् नरेश्वरः सुमनाः । सचिवाप्तपुरोहितदैवपौरकल्याणनामवृतः ॥ ४७.४८॥ वन्दिजनपौर*विप्रैः प्रघुष्ट पुण्याहवेदनिर्घोषैः । (K.विप्रप्रघुष्ट) समृदङ्गशङ्खतूर्यैर्मङ्गलशब्दैर्हतानिष्टः ॥ ४७.४९॥ अहतक्षौमनिवसनं पुरोहितः कम्बलेन सञ्छाद्य । कृतबलिपूजं कलशैरभिषिञ्चेत् सर्पिषा पूर्णैः ॥ ४७.५०॥ अष्टावष्टाविंशतिरष्टशतं वापि कलशपरिमाणम् । अधिकेऽधिके गुणोत्तरमयं च मन्त्रोऽत्र मुनिगीतः ॥ ४७.५१॥ आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥ ४७.५२॥ भौमान्तरिक्षं दिव्यं वा यत् ते *कल्मषम् आगतम् । (K.कल्विषं) सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥ ४७.५३॥ कम्बलमपनीय ततः पुष्यस्नानाम्बुभिः सफलपुष्पैः । हिषिञ्चेन् मनुजेन्द्रं पुरोहितोऽनेन मन्त्रेण ॥ ४७.५४॥ सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः । ब्रह्मा विष्णुश्च *रुद्रश् च साध्याश्च समरुद्गणाः ॥ ४७.५५॥ (K.शम्भुश्) आदित्या वसवो रुद्रा अश्विनौ च भिषवरौ । अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती ॥ ४७.५६॥ कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा । दनुश्च सुरसा चैव विनता कद्रुरेव च ॥ ४७.५७॥ देवपत्न्यश्च या नोक्ता देवमातर एव च । सर्वास्त्वामभिषिञ्चन्तु दिव्याश्चाप्सरसां गणाः ॥ ४७.५८॥ नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः । संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा ॥ ४७.५९॥ सर्वे त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः । एते चान्ये च मुनयो वेदव्रतपरायणाः ॥ ४७.६०॥ सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः । वैमानिकाः सुरगणा मनवः सागरैः सह ॥ ४७.६१॥ सरितश्च महाभागा नागाः किम्पुरुषाश्तथा । वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥ ४७.६२॥ सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च । मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥ ४७.६३॥ भृगुः सनत्कुमारश्च सनकोऽथ सनन्दनः । सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ॥ ४७.६४॥ एकतश्च द्वितश्चैव त्रितो जाबालिकश्यपौ । दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा ॥ ४७.६५॥ मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः । ऊर्ध्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ॥ ४७.६६॥ द्वैपायनो यवक्रीतो देवराजः सहानुजः । पर्वतास्तरवो वल्ल्यः पुण्यान्यायतनानि च ॥ ४७.६७॥ प्रजापतिर्दितिश्चैव गावो विश्वस्य मातरः । वाहनानि च दिव्यानि सर्वलोकाश्चराचराः ॥ ४७.६८॥ अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् । एते चान्ये च बहवः पुण्यसङ्कीर्तनाः *शुभैः ॥ ४७.६९॥ (K.शुभाः) तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातग्निबर्हणैः । *यथाभिषिक्तो मघवान् एतैर्मुदितमनसैः ॥ ४७.७०॥ (K.कल्याणं ते प्रकुर्वन्तु आयुरारोग्यमेव च) इत्येतैश्चान्यैश्चाप्यथर्वकल्पग्*आहितैः सरुद्रगणैः । (K.विहितैः) कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च ॥ ४७.७१॥ आपोहिष्ठाग्तिसृभिर्हिरण्यवर्णाइति चतसृभिर्जप्तम् । कार्पासिकवस्त्रयुगं बिभृयात् स्नातो नराधिपतिः ॥ ४७.७२॥ पुण्याहशङ्खशब्दैराचान्तोऽभ्यर्च्य देवगुरुविप्रान् । छत्रध्वजायुधानि च ततः स्वपूजां प्रयुञ्जीत ॥ ४७.७३॥ आयुष्यं वर्चस्यं रायस्पोषाभिरृग्भिरेताभिः । परिजप्तं वैजयिकं नवं विदध्यादलङ्कारम् ॥ ४७.७४॥ गत्वा द्वितीयवेदीं समुपविशेच्चर्मणां उपरि राजा । देयानि चैव चर्माण्युपर्युपर्येवमेतानि ॥ ४७.७५॥ वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च । तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ४७.७६॥ मुख्यस्थाने जुहुयात् पुरोहितोऽग्निं समित्ग्तिलघृताद्यैः । त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ॥ ४७.७७॥ इन्द्रध्वजग्निर्दिष्टान्यग्निनिमित्तानि दैवविद्ब्रूयात् । कृत्वाऽशेषसमाप्तिं पुरोहितः प्राञ्जलिर्ब्रूयात् ॥ ४७.७८॥ यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् । सिद्धिं दत्त्वा *तु विपुलां(K.सुविपुलाम्) पुनरागमनाय *च ॥ ४७.७९॥ (K.वै) नृपतिरतो दैवज्ञं पुरोहितं चार्चयेद्धनैर्बहुभिः । अन्यांश्च दक्षिणीयान् *यथोचितं श्रोत्रियप्रभृतीन् ॥ ४७.८०॥ (K.यथार्हतः) दत्त्वाऽभयं प्रजानामाघातस्थानगान् विसृज्य पशून् । बन्धनमोक्षं कुर्यादभ्यन्तरदोषकृद्वर्जम् ॥ ४७.८१॥ एतत् प्रयुज्यमानं प्रतिपुष्यं सुखयशोऽर्थवृद्धिकरम् । *पुष्याद्(K.पुष्यम्) विनार्धफलदा पौषी शान्तिः *परा प्रोक्ता ॥ ४७.८२॥ (K.पुरा) राष्ट्रोत्पातोपसर्गेषु राहोः केतोश्च दर्शने । ग्रहावमर्दने चैव पुष्यस्नानं समाचरेत् ॥ ४७.८३॥ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति । मङ्गलं चापरं नास्ति यदस्मादतिरिच्यते ॥ ४७.८४॥ अधिराज्यार्थिनो राज्ञः पुत्रजन्म च काङ्क्षतः । तत्पूर्वमभिषेके च विधिरेष प्रशस्यते ॥ ४७.८५॥ महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः । स्नानमायुष्ग्प्रजावृद्धिसौभाग्यकरणं परम् ॥ ४७.८६॥ अनेनैव विधानेन हस्त्य्गश्वं *स्नापयेत् ततः । (K.स्नापयीत यः) तस्यामयविनिर्मुक्तं परां सिद्धिमवाप्नुयात् ॥ ४७.८७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पुष्यस्नानाध्यायः समाप्तः ॥ ४७॥

४८ पट्टलक्षणाध्यायः

विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यदाचार्यैः । तत् संक्षेपः क्रियते मयाऽत्र सकलार्थसम्पन्नः ॥ ४८.०१॥ पट्टः शुभदो राज्णां मध्येऽष्टावङ्गुलानि विस्तीर्णः । सप्त नरेन्द्रमहिष्याः षड् युवराजस्य निर्दिष्टः ॥ ४८.०२॥ चतुर्गङ्गुलविस्तारः पट्टः सेनापतेर्भवति मध्ये । द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः ॥ ४८.०३॥ सर्वे द्विगुणायामा मध्यादर्धेन पार्श्वविस्तीर्णाः । सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै ॥ ४८.०४॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजपार्थिवमहिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ ४८.०५॥ क्रियमाणं यदि पत्रं सुखेन विस्तारमेति पट्टस्य । वृद्धिजयौ भूमिपतेस्तथा प्रजानां च सुखसम्पत् ॥ ४८.०६॥ जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः । मध्ये स्फुटितस्त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः ॥ ४८.०७॥ अशुभनिमित्तोत्पत्तौ शास्त्रज्ञः शान्तिमादिशेद्राज्ञः । शस्तनिमित्तः पट्टो नृपग्राष्ट्रविवृद्धये भवति ॥ ४८.०८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पट्टलक्षणाध्यायः समाप्तः ॥ ४८॥

४९ खड्गलक्षणाध्यायः

अङ्गुलशतार्धमुत्तम ऊनः स्यात् *पञ्चविंशतिः खड्गः । (K.पञ्चविंशतिं) अङ्गुलमानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥ ४९.०१॥ श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् । सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥ ४९.०२॥ कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः । खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ॥ ४९.०३॥ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनोऽनुगतः । अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥ ४९.०४॥ क्वणितं मरणायोक्तं पराजयाय प्रवर्तनं कोशात् । स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥ ४९.०५॥ नाकारणं विवृणुयान् न विघट्टयेच्च पश्येन् न तत्र वदनं न वदेच्च मूल्यम् । देशं न चास्य कथयेत् प्रतिमानयेन् न नैव स्पृशेन् नृपतिरप्रयतोऽसियष्टिम् ॥ ४९.०६॥ गोजिह्वाग्संस्थानो नीलोत्पलवंशपत्रसदृशश्च । करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥ ४९.०७॥ निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः । मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥ ४९.०८॥ यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वदेव खड्गस्य । वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ४९.०९॥ अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत् तदवधार्य । कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥ ४९.१०॥ शिरसि स्पृष्टे प्रथमेऽङ्गुले द्वितीये ललाटसंस्पर्शे । भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च ॥ ४९.११॥ *नासाउष्ठ(K.नासोष्ठ)ग्कपोलहनुश्रवणग्रीव*अंसके च पञ्चाद्याः । (K.अंसकेषु) उरसि द्वादशसंस्थस्त्रयोदशे कक्षयोर्ज्ञेयः ॥ ४९.१२॥ स्तनघृदयोदर*कुक्षिनाभौ तु चतुर्दशादयो ज्ञेयाः । (K.कुक्षिनाभीषु) नाभिमूले कट्यां गुह्ये चैकोनविंशतितः ॥ ४९.१३॥ ऊर्वोर्द्वाविंशे स्यादूर्वोर्मध्ये व्रणस्त्रयोविंशे । जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च ॥ ४९.१४॥ जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्वपि च । षड्विंशतिकाद्यावत् त्रिंशदिति मतेन गर्गस्य ॥ ४९.१५॥ पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च । एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत् क्रमशः ॥ ४९.१६॥ सुतलाभः कलहो हस्तिग्लब्धयः पुत्रमरणधनलाभौ । क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ४९.१७॥ लब्धिर्*हानिः स्त्रीलब्धयो बधो वृद्धिग्मरणपरितोषाः । (K.हानिस्त्रीलब्धयो) ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ ४९.१८॥ वित्ताप्तिरनिर्वाणं धनागमो मृत्युग्सम्पदोऽस्वत्वम् । ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥ ४९.१९॥ परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदाः । कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत् ॥ ४९.२०॥ करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः । शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ॥ ४९.२१॥ कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥ ४९.२२॥ इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत्ग्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥ ४९.२३॥ वडवागुष्ट्रकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् । झषपित्तमृगाश्वबस्तदुग्धैः करिघस्तच्छिदये सतालगर्भैः ॥ ४९.२४॥ आर्कं पयो हुडुविषाणमषीसमेतं पारावताखुग्शकृता च *युतः प्रलेपः । (K.युतं) शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चात्ग्शितस्य न शिलासु भवेद्विघातः ॥ ४९.२५॥ क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् । सम्यक्शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ४९.२६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां खड्गलक्षणाध्यायः समाप्तः ॥ ४९॥

५० अङ्गविद्याध्याय

दैवज्ञेन शुभाशुभं दिगुदितस्थानाहृतान् ईक्षता वाच्यं प्रष्टृग्निजापराङ्गघटनां चालोक्य कालं धिया । सर्वज्ञो हि चराचरात्मकतयासौ सर्वदर्शो विभुश् चेष्टाग्व्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ॥ ५०.०१॥ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद- असत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम् । देवगृषिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्योक्षितं सत्स्वादूदकग्निर्मलत्वजनिताह्लादं च *सच्छाद्वलम् ॥ ५०.०२॥ (K.सच्छाड्वलम्) छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैर्न सत् कुजैः । क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्ण*चर्मभिः ॥ ५०.०३॥ (K.वर्मभिः) श्मशानशून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदऊषरम् । अवस्कराङ्गारकपालभस्मभिश् चितं तुषैः शुष्कतृणैर्नशोभनम् ॥ ५०.०४॥ प्रव्रजितग्नग्ननापितरिपुबन्धन*सौनिकैस् तथा श्वपचैः । (K.सूनिकैस्) कितवयतिपीडितैर्युतमायुधमाध्वीकविक्रयैर्न शुभम् ॥ ५०.०५॥ प्रागुत्तरईशाश्च दिशः प्रशस्ताः प्रष्टुर्न वाय्व्गम्बुयमाग्निरक्षः । पूर्वाह्नकालेऽस्ति शुभं न रात्रौ सन्ध्याद्वये प्रश्नकृतोऽपराह्णे ॥ ५०.०६॥ यात्राविधाने हि शुभाशुभं यत् प्रोक्तं निमित्तं तदिहापि वाच्यम् । दृष्ट्वा पुरो वा जनताहृतं वा प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे ॥ ५०.०७॥ अथाङ्गान्यूरूगोष्ठस्तनवृषणपादं च दशना भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत् । सशङ्खं *कक्षांसं श्रवण गुदसन्धीति पुरुषे (K.कषांसश्रवण) स्त्रियां भ्रूग्नासास्फिग्वलिकटिसुलेखाङ्गुलिचयम् ॥ ५०.०८॥ जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं जङ्घे नाभिः कर्णपाली कृकाटी । वक्त्रं पृष्ठं जत्रुग्जान्वस्थिपार्श्वं हृत्ग्ताल्वक्षी मेहनोरस्त्रिकं च ॥ ५०.०९॥ नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैरपरैश्चिरेण । सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृशैश्च पूर्वैः ॥ ५०.१०॥ स्पृष्टे वा चालिते वापि पादाङ्गुष्ठेऽक्षिग्रुग्भवेत् । अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद्भयम् ॥ ५०.११॥ विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिरनर्थदा भवेत् । स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः ॥ ५०.१२॥ पादाङ्गुष्ठेन विलिखेद्भूमिं क्षेत्रोत्थचिन्तया । हस्तेन पादौ कण्डूयेत् तस्य *दासीमयी च सा ॥ ५०.१३॥ (K.दासीमया) तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत् कचतुषास्थिभस्मगम् । व्याधिराश्रयति रज्जुग्जालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ ५०.१४॥ पिप्पलीग्मरिचशुण्ठिवारिदै रोध्रकुष्ठवसनाम्बुजीरकैः । गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेण *चिन्तयेत् ॥ ५०.१५॥ (K.चिन्तनम्) स्त्रीग्पुरुषदोषपीडितसर्व*अर्थ सुतार्थधान्यतनयानाम् । (K.अध्व) द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैर्दृष्टैः ॥ ५०.१६॥ न्यग्रोधमधुकतिन्दुकजम्बूप्लक्षाम्र*बदर जातिफलैः । (K.बदरि) धनकनकपुरुषलोहांशुकरूप्य*औदुम्बराप्तिर् अपि करगैः ॥ ५०.१७॥ (K.उदुम्बराप्तिर्) धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरौ । गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ॥ ५०.१८॥ पशुघस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत सन्दृष्टैः । अविग्धननिवसनमलयजकौशेयाभरणसङ्घातम् ॥ ५०.१९॥ पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता । मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता ॥ ५०.२०॥ शाक्योपाध्यायग्*अर्हत्(K.आर्हत)*निर्ग्रन्थि निमित्तनिगमकैवर्तैः । (K.निर्ग्रन्थ) चौरग्चमूपतिवणिजां दासीयोधापणस्थवध्यानाम् ॥ ५०.२१॥ तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम् । हृद्गतं *प्रच्छकस्य स्यादुञ्छवृटौ विपन्नता ॥ ५०.२२॥ (K.पृच्छकस्य) इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते । संयोगकुटुम्बोत्था लाभाइश्वर्योद्गता चिन्ता ॥ ५०.२३॥ निर्दिशेति गदिते *जयाध्वजा (K.जयाध्वगा) प्रत्यवेक्ष्य मम चिन्तितं वद । आशु सर्वजनमध्यगं त्वया दृश्यतामिति च बन्धुग्चौरजा ॥ ५०.२४॥ अन्तःस्थेऽङ्गे स्वजन उदितो बाह्यजे बाह्य *एव (K.एवम्) पादाङ्गुष्ठाङ्गुलिकलनया दासदासीजनः स्यात् । जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्ये ॥ ५०.२५॥ मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ । बाहू भ्राताथ तत्पत्नी स्पृष्ट्वा एवं चौरमादिशेत् ॥ ५०.२६॥ अन्तर्गङ्गमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः । श्लेष्ममूत्रशकृतस्*त्यजन्त्यथो पातयेत् करतलस्थवस्तु चेत् ॥ ५०.२७॥ (K.त्यजन्नधः) भृशमवनामिताङ्गपरिमोटनतोऽप्यथ वा जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् । हृतपतितक्षतास्मृतविनष्टभग्नगत- उन्मुषितमृताद्यनिष्टरवतो लभते न हृतम् ॥ ५०.२८॥ निगदितमिदं यत्ग्तत् सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समं रुदितग्*क्षतैः । (K.क्षुतैः) अवयवमपि स्पृष्ट्वान्तःस्थं दृढं मरुदाहरेद् अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत् ॥ ५०.२९॥ ललाटस्पर्शनात्ग्शूकदर्शनात्शालिजौदनम् । उरःस्पर्शात् षष्टिकग्*आख्यं ग्रीवास्पर्शे च यावकम् ॥ ५०.३०॥ (K.अन्नम्) कुक्षिग्कुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः । *आस्वादयते चौष्ठौ लिहते मधुरं रसं ज्ञेयम् ॥ ५०.३१॥ (K.आस्वादयतश्) *विसृक्के स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत् । (K.विस्पृक्के) *कटुकेऽथ कषायेऽथ हिक्केत् ष्ठीवेच्च सैन्धवे ॥ ५०.३२॥ (K.कटुतिक्तकषायोष्णैर्) श्लेष्मत्यागे शुष्कतिक्तं तदल्पं श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम् । भ्रूगण्डौष्ठस्पर्शने शाकुनं तद्- भुक्तं तेनेत्युक्तमेतन् निमित्तम् ॥ ५०.३३॥ मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं च स्पृष्ट्वा । गजमहिषमेषशूकरगोशशमृग*महिष मांसयुग्भुक्तम् ॥ ५०.३४॥ (K.ओमित्तेद्) दृष्टे श्रुतेऽप्यशकुने गोधाग्मत्स्यामिषं वदेद्भुक्तम् । गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ५०.३५॥ पुङ्ग्स्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे । तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ॥ ५०.३६॥ अङ्गुष्ठेन भ्रूगुदरं वाङ्गुलिं वा स्पृष्ट्वा पृच्छेद्गर्भग्चिन्ता तदा स्यात् । मध्व्गाज्याद्यैर्हेमरत्नप्रवालैर् अग्रस्थैर्वा मातृग्धात्र्यात्मजैश्च ॥ ५०.३७॥ गर्भयुता जठरे करगे स्याद् दुष्टग्निमित्तवशात् तदुदासः । कर्षति तज्जठरं यदि पीठग् उत्पीडनतण् करगे च करेऽपि ॥ ५०.३८॥ घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् । वामेद्वौ कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ॥ ५०.३९॥ वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च । अङ्गुष्ठान्ते पञ्चकं चानुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्मेऽपि कन्याम् ॥ ५०.४०॥ सव्यासव्यगूरुसम्स्पर्शे सूते कन्यासुतद्वयम् । स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥ ५०.४१॥ शिरोग्ललाटभ्रूकर्णगण्डं हनुरदा गलं सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ॥ ५०.४२॥ उरः कुचं दक्षिणमप्यसव्यं हृत्ग्पार्श्वमेवं जठरं कटिश्च । स्फिक्ग्पायुसन्धिऊरुयुगं च जानू जङ्घेऽथ पादाविति कृत्तिकागादौ ॥ ५०.४३॥ इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । विपुलमतिरुदारो वेत्ति यः सर्वमेतन् नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥ ५०.४४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां अङ्गविद्याध्याय समाप्तः ॥ ५०॥

५१ पिटकलक्षणाध्यायः

सितग्रक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये । ते क्रमशः प्रोक्तफला वर्णानां *नाग्रजातानाम् ॥ ५१.०१॥ (K.अग्रजादीनाम्) सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमाराद् दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च । तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनग्*स्थानगा रान्ति चिन्ताम् ॥ ५१.०२॥ (K.स्थानगाश्च अतिचिन्ताम्) घ्राणागण्डे वसनसुतदाश्चौष्ठयोरन्नलाभं कुर्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे । हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने श्रोत्रे *षड्भूतण गणमपि ज्ञानमात्मस्वरूपम् ॥ ५१.०३॥ (K.ऊ।तद्भूषण) शिरःग्सन्धिग्रीवाहृदयकुचपार्श्वोरसि गता अयोघातं घातं सुततनयलाभं शुचमपि । प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद् विनाशं कक्षोत्था विदधति धनानां *बहुमुखम् ॥ ५१.०४॥ (K.बहुसुखम्) दुःखशत्रुनिचयस्य *विनाशं पृष्ठबाहुयुगजा रचयन्ति । (K.विघातं) संयमं च मणिबन्धनग्जाता भूषणाद्यमुपबाहुयुगुत्थाः ॥ ५१.०५॥ धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्य्गुदरगाः सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् । धनं धान्यं बस्तौ युवतिमथ मेढ्रे सुतनयान् धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥ ५१.०६॥ ऊर्वोर्यानाङ्गनाग्लाभं जान्वोः शत्रुजनात् क्षतिम् । शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥ ५१.०७॥ स्फिक्ग्पार्ष्णिपादजाता धननाशागम्यगमनमध्वानम् । बन्धनमङ्गुलिनिचयेऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥ ५१.०८॥ उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः । धन्या भवन्ति पुंसां तद्ग्विपरीताश्*च नारीणाम् ॥ ५१.०९॥ (K.तु) इति पिटकविभागः प्रोक्त आमूर्धतोऽयं व्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः । भवति मशकलक्ष्मावर्तजन्मापि तद्वन् निगदितफलकारि प्राणिनां देहसंस्थम् ॥ ५१.१०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पिटकलक्षणाध्यायः समाप्तः ॥ ५१॥

५२ वास्तुविद्या

वास्तुज्ञानमथातः कमलभवान् मुनिपरं परायातम् । क्रियतेऽधुना मयागिदं विदधसांवत्सरप्रीत्यै ॥ ५२.०१॥ किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण । तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ॥ ५२.०२॥ यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रैव । तदमरमयं विधाता वास्तुनरं कल्पयामास ॥ ५२.०३॥ उत्तममष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन । अष्टाष्टगूनान्येवं पञ्च सपादानि दैर्घ्येण ॥ ५२.०४॥ षड्भिः षड्भिर्हीना सेनापतिग्सद्मनां चतुःषष्टिः । *एवं पञ्च गृहाणि षड्भागसमन्विता दैर्घ्यम् ॥ ५२.०५॥ (K.पञ्च एवं विस्तारात्) षष्टिश्*चतुर्भिर्हीना वेश्मानि पञ्च सचिवस्य । (K.चतुर्विहीना) स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम् ॥ ५२.०६॥ षड्भिः षड्भिश्चैवं युवराजस्यापवर्जिताशीतिः । त्र्यंशान्विता च दैर्घ्यं पञ्च तदर्धैस्तदनुजनानाम् ॥ ५२.०७॥ नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम् । नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम् ॥ ५२.०८॥ अध्यक्षाधिकृतानां *सर्वेषां कोशग्रतितुल्यम् । (K.सर्वेषामेव) युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् ॥ ५२.०९॥ चत्वारिंशद्ग् धीना चतुश्चतुर्भिस्तु पञ्च यावदिति । षड्ग्भागयुता दैर्घ्यं दैवज्ञपुरोधसोर्भिषजः ॥ ५२.१०॥ वास्तुनि यो विस्तारः स एव चोच्छ्रायग्निश्चयः शुभदः । शाला एकेषु गृहेष्वपि विस्ताराद्द्विगुणितं दैर्घ्यम् ॥ ५२.११॥ चातुर्वर्ण्यव्यासो द्वात्रिंशत् *सा चतुश्चतुर्हीना । (K.स्यात्) आषोडशादिति परं न्यूनतरमतीव हीनानाम् ॥ ५२.१२॥ सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम् । षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ॥ ५२.१३॥ नृपसेनापतिगृहयोरन्तरमानेन कोशरतिभवने । सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ॥ ५२.१४॥ अथ *पारशव गादीनां स्वमानसंयोगदलसमं भवनम् । (K.पारसव) हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ॥ ५२.१५॥ पश्व्गाश्रमिणाममितं धान्यायुधवह्निरतिगृहाणां च । नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ॥ ५२.१६॥ सेनापतिग्नृपतीनां सप्ततिसहिते द्विधाकृते व्यासे । शाला चतुर्दशघृते पञ्चत्रिंशद्धृतेऽलिन्दः ॥ ५२.१७॥ हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः । सप्तदशत्रितयतिथित्रयोदशकृताङ्गुलाभ्यधिकाः ॥ ५२.१८॥ त्रिग्त्रिद्विद्विद्विसमाः क्षयक्रमादङ्गुलानि चैतेषाम् । व्येका विंशतिरष्टौ विंशतिरष्टादश त्रितयम् ॥ ५२.१९॥ शालाग्त्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् । यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु ॥ ५२.२०॥ सायाश्रयमिति पश्चात् सावष्टम्भं तु पार्श्वसंस्थितया । सुस्थितमिति च समन्तात्ग्शास्त्रज्ञैः पूजिताः सर्वाः ॥ ५२.२१॥ विस्तारग्षोडशांशः सचतुर्हस्तो भवेद्गृहोच्छ्रायः । द्वादशभागेनऊनो भूमौ भूमौ समस्तानाम् ॥ ५२.२२॥ व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः । पक्वेष्टकागाकृतानां दारुकृतानां तु *न विकल्पः ॥ ५२.२३॥ (K.सविकल्पः, K.स्त्र्। न विकल्पः) एकादशभागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः । उच्छ्रायोऽङ्गुलतुल्यो द्वारस्यार्धेन विष्कम्भः ॥ ५२.२४॥ विप्रादीनां व्यासात् पञ्चांशोऽष्टादशाङ्गुलसमेतः । साष्टांशो विष्कम्भो द्वारस्य त्रिगुण उच्छ्रायः ॥ ५२.२५॥ उच्छ्रायघस्तसङ्ख्यापरिमाणान्यङ्गुलानि बाहुल्यम् । शाखाद्वयेऽपि कार्यं सार्धं तत् स्यादुदुम्बरयोः ॥ ५२.२६॥ उच्छ्रायात् सप्तगुणादशीतिभागः पृथुत्वमेतेषाम् । नवगुणितेऽशीत्यंशः स्तम्भस्य दशांशहीनोऽग्रे ॥ ५२.२७॥ *समचतुरस्रो(K.समचतुरश्रो) रुचको वज्रोऽष्टास्रिर् द्विवज्रको द्विगुणः । (K.अष्टाश्रिस्) द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः ॥ ५२.२८॥ स्तम्भं विभज्य नवधा वहनं भागो घटोऽस्य भागोऽन्यः । पद्मं तथागुत्तरोष्ठं कुर्याद्भागेन भागेन ॥ ५२.२९॥ स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम् । भवति तुलागुपतुलानामूनं पादेन पादेन ॥ ५२.३०॥ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥ ५२.३१॥ नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ ५२.३२॥ द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । *तस्मिंश् च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ ५२.३३॥ (K.तद्वद्) अपरोऽन्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ । तदवधिग्*विधृतश्(K.विवृतश्, K.स्त्र्। विधृत) चान्यः प्राग्द्वारं स्वस्तिके *शुभदम् ॥ ५२.३४॥ (K.ऽशुभदम्, K.स्त्र्। शुभम्) प्राक्ग्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ । रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥ ५२.३५॥ श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च । स्वस्तिकग्रुचके मध्ये शेषं शुभदं नृपादीनाम् ॥ ५२.३६॥ उत्तरशालाघीनं हिरण्यनाभं त्रिशालकं धन्यम् । प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ॥ ५२.३७॥ याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमेतत् । पक्षघ्नमपरया वर्जितं सुतध्वंसवैरकरम् ॥ ५२.३८॥ सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले । दण्डाख्यमुदक्पूर्वे वाताख्यं प्राग्युता याम्या ॥ ५२.३९॥ पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् । सिद्धार्थेऽर्थावाप्तिर्यमसूर्ये गृहपतेर्मृत्युः ॥ ५२.४०॥ दण्डवधो दण्डाख्ये कलहोद्वेगः सदैव वातबाख्ये । वित्तविनाशश्चुल्ल्यां ज्ञातिविरोधः स्मृतः काचे ॥ ५२.४१॥ एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः । अन्तस्त्रयोदश सुरा द्वात्रिंशद्ग्बाह्यकोष्ठस्थाः ॥ ५२.४२॥ शिखिग्पर्जन्यजयन्तेन्द्रसूर्यसत्या भृशोऽन्तरिक्षश्च । *ऐशान्यादि ग्क्रमशो दक्षिणपूर्वेऽनिलः कोणे ॥ ५२.४३॥ (K.ऐशान्याद्याः) पूषा वितथबृहत्क्षतयमगन्धर्वाख्यभृङ्गराजमृगाः । पितृग्दौवारिकसुग्रीवकुसुमदन्ताम्बुपत्यसुराः ॥ ५२.४४॥ शोषोऽथ पापयक्ष्मा रोगः कोणे ततोऽहिग्मुख्यौ च । भल्लाटसोमभुजगास्ततोऽदितिर्दितिरिति क्रमशः ॥ ५२.४५॥ मध्ये ब्रह्मा नवकोष्ठकाधिपोऽस्यार्यमा स्थितः प्राच्याम् । एकान्तरात् प्रदक्षिणमस्मात् सविता विवस्वांश्च ॥ ५२.४६॥ विबुधाधिपतिस्तस्मान् मित्रोऽन्यो राजयक्ष्मनामा च । *पृथिवी धरापवत्सावित्येते ब्रह्मणः परिधौ ॥ ५२.४७॥ (K.पृथ्वी) आपो नामाइशाने कोणे हौताशने च सावित्रः । जय इति च नैरृते रुद्र आनिलेऽभ्यन्तरपदेषु ॥ ५२.४८॥ आपस्तथापवत्सः पर्जन्योऽग्निर्दितिश्च वर्गोऽयम् । एवं कोणे कोणे पदिकाः स्युः पञ्च पञ्च सुराः ॥ ५२.४९॥ बाह्या द्विपदाः शेषास्ते विबुधा विंशति समाख्याताः । शेषाश्चत्वारोऽन्ये त्रिपदा दिक्ष्वर्यमाद्यास्ते ॥ ५२.५०॥ पूर्वोत्तरदिग्मूर्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी । आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ॥ ५२.५१॥ पर्जन्याद्या बाह्या दृक्श्रवणोरःस्थलांसगा देवाः । सत्याद्याः पञ्च भुजे हस्ते सविता *च सावित्रः ॥ ५२.५२॥ (K.ससावित्रः) वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च । ऊरू जानु च जङ्घे स्फिगिति यमाद्यैः परिगृहीताः ॥ ५२.५३॥ एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः । मेढ्रे शक्रग्जयन्तौ हृदये ब्रह्मा पिता*अङ्घ्रिगतः ॥ ५२.५४॥ (K.अङ्ग्रिगतः) अष्टाष्टकपदमथ वा कृत्वा रेखाश्च कोणगास्तिर्यक् । ब्रह्मा चतुष्पदोऽस्मिन्न् अर्धपदा ब्रह्मकोणस्थाः ॥ ५२.५५॥ अष्टौ च बहिष्कोणेष्वर्धपदास्तद्गुभयस्थिताः सार्धाः । उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते *हि ॥ ५२.५६॥ (K.च) सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् । मर्माणि तानि *विन्द्यान् न तानि परिपीडयेत् प्राज्ञः ॥ ५२.५७॥ (K.विन्द्यान्न् अपरिपीडयेत्) तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च । गृहभर्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति ॥ ५२.५८॥ कण्डूयते यदङ्गं *गृहभर्तुर् यत्र वामराहुत्याम् । (K.गृहपतिना) अशुभं भवेन् निमित्तं विकृतेर्वा अग्नेः सशल्यं तत् ॥ ५२.५९॥ मर्मण्यमर्मगो वा रुणद्ध्यर्थागमं तुषसमूहः) । अपि नागदन्तको मर्मसंस्थितो दोषकृद्भवति ॥ ५२.६०॥ रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि वितथात् । मुख्याद्भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम् ॥ ५२.६१॥ तत्सम्पाता नव ये तान्यतिमर्माणि संप्रदिष्टानि । यश्च पदस्याष्टांशस्तत् प्रोक्तं मर्मपरिमाणम् ॥ ५२.६२॥ पदहस्तसङ्ख्यया सम्मितानि वंशोऽङ्गुलानि विस्तीर्णः । वंशव्यासोऽध्यर्धः शिराप्रमाणं विनिर्दिष्टम् ॥ ५२.६३॥ सुखमिच्छन् ब्रह्माणं यत्नाद्रक्षेद्गृही *गृहान्तःस्थम् । (K.गृतान्तस्थम्) उच्छिष्टाद्य्गुपघाताद्गृहपतिरुपतप्यते तस्मिन् ॥ ५२.६४॥ दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयोऽङ्गनादादोषाः । (K.अङ्गनादोषाः) वामेऽर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वैः ॥ ५२.६५॥ स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्ये । अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ॥ ५२.६६॥ गृहग्नगरग्रामेषु च सर्वत्रैवं प्रतिष्ठिता देवाः । तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः ॥ ५२.६७॥ वासगृहाणि च विन्द्याद्विप्रादीनामुददिगाद्यानि । विशतां च यथा भवनं भवन्ति तान्येव दक्षिणतः ॥ ५२.६८॥ नवगुणसूत्रविभक्तान्यष्टगुणेनाथ वा चतुःषष्टेः । द्वाराणि यानि तेषामनलादीनां फलोपनयः ॥ ५२.६९॥ *अनिलभयं(K.अनलभयं) *स्त्रीजननं प्रभूतधनता नरेन्द्रवाल्लभ्यम् । (K.स्त्रीजन्म) क्रोधपरतानृतत्वं क्रौर्यं चौर्यं च पूर्वेण ॥ ५२.७०॥ अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतवृद्धिः । रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन ॥ ५२.७१॥ सुतपीडा रिपुवृद्धिर्न सुतधनाप्तिः सुतार्थफलसम्पत् । (K.धनस्ताप्तिः) धनसम्पन् नृपतिग्भयं धनक्षयो रोग इत्यपरे ॥ ५२.७२॥ वधबन्धो रिपुवृद्धिः सुतधनलाभः समस्तगुणसम्पत् । (K.धनसुतलाभः) पुत्रधनाप्तिर्वैरं सुतेन दोषाः स्त्रिया नैःस्वम् ॥ ५२.७३॥ मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुब्भदं द्वारम् । उच्छ्रायाद्द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ॥ ५२.७४॥ रथ्यागाविद्धं द्वारं नाशाय कुमारदोषदं तरुणा । पङ्कद्वारे शोको व्ययोऽम्बुनिःस्राविणि प्रोक्तः ॥ ५२.७५॥ (K.अम्बुनि श्राविणि) कूपेनापस्मारो भवति विनाशश्च देवतागाविद्धे । स्तम्भेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे ॥ ५२.७६॥ (K.ब्राह्मणोऽभिमुखे) उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः । मानाधिके नृपभयं दस्युभयं *व्यसनमेव नीचे च ॥ ५२.७७॥ (K.व्यसनदं नीचम्) द्वारं द्वारस्योपरि यत् तन् न शिवाय सङ्कटं यच्च । आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति ॥ ५२.७८॥ पीडाकरमतिपीडितमन्तर्विनतं भवेदभावाय । बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ॥ ५२.७९॥ मूलद्वारं नान्यैर्द्वारैरभिसन्दधीत रूपगृद्ध्या । घटफलपत्रप्रमथाआदिभिश्च तन्मङ्गलैश्चिनुयात् ॥ ५२.८०॥ ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः । चरकी विदारिनामाथ पूतना राक्षसी चेति ॥ ५२.८१॥ पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजात्यास्तेष्वेव विवृद्धिमायान्ति ॥ ५२.८२॥ याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैते । उदगादिषु प्रशस्ताः प्लक्षवटोदुम्बराश्वत्था ॥ ५२.८३॥ (K.उदुम्बराश्वत्थाः) आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय । फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेदेषाम् ॥ ५२.८४॥ छिन्द्याद्यदि न तरूंश्तान् तदन्तरे पूजितान् वपेदन्यत् । (K.अन्यान्) पुन्नागाशोकारिष्टबकुलपनसान् शमीशालौ ॥ ५२.८५॥ शस्तौषधिद्रुमलता मधुरा सुगन्धा स्निग्धा समा न सुषिरा च मही नराणाम् । अप्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥ ५२.८६॥ सचिवालयेऽर्थनाशो धूर्तगृहे सुतवधः समीपस्थे । उद्वेगो देवकुले चतुष्पदे भवति चाकीर्तिः ॥ ५२.८७॥ (K.ऊॅहतुष्पथे) चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले विपदः । गर्तायां तु पिपासा कूर्माकारे धनविनाशः ॥ ५२.८८॥ उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम् ॥ ५२.८९॥ गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् । यद्यूनमनिष्टं तत् समे समं धन्यमधिकं यत् ॥ ५२.९०॥ श्वभ्रमथ वाम्बुपूर्णं पदशतमित्वागागतस्य यदि नऊनम् । तद्धन्यं यच्च भवेत् पलान्यपामाढकं चतुःषष्टिः ॥ ५२.९१॥ आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम् । ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य ॥ ५२.९२॥ श्वभ्रोषितं न कुसुमं यस्य प्रम्लायतेऽनुवर्णसमम् । (K.यस्मिन्) तत्तस्य भवति शुभदं यस्य च यस्मिन् मनो रमते ॥ ५२.९३॥ सितग्रक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः । गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः ॥ ५२.९४॥ (K.यस्या) कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रेमेण मही । *ह्यनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च ॥ ५२.९५॥ (K.अनुवर्णम्) कृष्टां प्ररूढबीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च । गत्वा महीं गृहपतिः काले साम्वत्सरोद्दिष्टे ॥ ५२.९६॥ भक्ष्यैर्नानाकारैर्दध्य्गक्षतसुरभिकुसुमधूपैश्च । दैवतपूजां कृत्वा स्थपतीन् अभ्यर्च्य विप्रांश्च ॥ ५२.९७॥ विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशाश्चगूरू । शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भे ॥ ५२.९८॥ अङ्गुष्ठकेन कुर्यान् मध्याङ्गुल्याऽथ वा प्रदेशिन्या । कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम् ॥ ५२.९९॥ शस्त्रेण शस्त्रमृत्युर्बन्धो लोहेन भस्मनाग्निभयम् । तस्करभयं तृणेन च काष्ठोल्लिखिता च राजभयम् ॥ ५२.१००॥ वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च । चर्माङ्गारास्थिकृता दन्तेन च भर्तुर् अशिवाय ॥ ५२.१०१॥ (K.कर्तुर्) वैरमपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः । वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम् ॥ ५२.१०२॥ अर्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि । अवलोकयेद्गृहपतिः क्व संस्थितः स्पृशति किं चाङ्गम् ॥ ५२.१०३॥ रविदीप्ते यदि शकुनिस्तस्मिन् काले विरौति परुषरवम् । (K.परुषरवः) संस्पृष्टाङ्गसमानं तस्मिन् देशेऽस्थि निर्देश्यम् ॥ ५२.१०४॥ शकुनसमयेऽथ्वाऽन्ये हस्त्यश्वश्वादयोऽनुवाशन्ते । तत्प्रभवमस्थि तस्मिंस्तदङ्गसम्भूतमेवेति ॥ ५२.१०५॥ सूत्रे प्रसार्यमाणे गर्दभग्रावोऽस्थिशल्यमाचष्टे । श्वश‍ृगाललङ्घिते वा सूत्रे शल्यं विनिर्देश्यम् ॥ ५२.१०६॥ दिशि शान्तायां शकुनिर् मधुरविरावी यदा तदा वाच्यः । (K.शकुनो) अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा ॥ ५२.१०७॥ सूत्रच्छेदे मृत्युः कीले चावाङ्मुखे महगः । (K.महान् रोगः) गृहनाथस्थपतीनां स्मृतिग्लोपे मृत्युरादेश्यः ॥ ५२.१०८॥ स्कन्धाच्च्युते शिरोरुक्कुलोपसर्गोऽपवर्जिते कुम्भे । भग्नेऽपि च कर्मिवधश्च्युते कराद्गृहपतेर्मृत्युः ॥ ५२.१०९॥ दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथमम् । (K.प्रथमाम्) शेषाः प्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्य ॥ ५२.११०॥ (K.समुत्थाप्याः) छत्रस्रगम्बरयुतः कृतधूपविलेपनः समुत्थाप्यः । स्तम्भस्तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन ॥ ५२.१११॥ विहगादिभिरवलीनैराकम्पितपतितदुःस्थितैश्च तथा । (K.फलम्) शक्रध्वजग्*सदृशफलं तदेव तस्मिन् विनिर्दिष्टम् ॥ ५२.११२॥ (K.सदृशं तस्मिंश्च शुभं) प्रागुत्तरोन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे । वक्रे बन्धुविनाशो न सन्ति गर्भाश्च दिन्ग्मूढे ॥ ५२.११३॥ इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत् तुल्यम् । एकोद्देशे दोषः प्रागथ वाऽप्युत्तरे कुर्यात् ॥ ५२.११४॥ प्राग्भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः । अर्थविनाशः पश्चादुदविवृद्धिर् मनस्तापः ॥ ५२.११५॥ (K.उदग्विवृद्धौ) ऐशान्यां देवगृहं महानसं यदि चापि कार्यमाग्नेय्याम् । नैरृत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥ ५२.११६॥ प्राच्यादिस्थे सलिले सुतहानिः शिखिग्भयं रिपुभयं च । स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मजविवृद्धिः ॥ ५२.११७॥ खगग्निलयभग्नसंशुष्कदधदेवालयश्मशानस्थान् । क्षीरतरुग्धवविभीतकनिम्बारणि*वर्जितान् छिन्द्यात् ॥ ५२.११८॥ (K.वर्जितांश्च्छिन्द्यात्) रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद्दिवा वृक्षम् । धन्यमुदक्प्राक्पततं न ग्राह्योऽतोऽन्यथा पतितः ॥ ५२.११९॥ छेदो यद्यविकारी ततः शुभं दारु तद्गृहौपयिकम् । पीते तु मण्डले निर्दिशेत् तरोर्मध्यगां गोधाम् ॥ ५२.१२०॥ मञ्जिष्ठाभे भेको नीले सर्पस्तथाऽरुणे सरटः । मुद्गाभेऽश्मा कपिले तु मूषकोऽम्भश्च खड्गाभे ॥ ५२.१२१॥ धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् । नोत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ॥ ५२.१२२॥ भूरिपुष्पविकरं सतोरणं तोयपूर्णकलशोपशोभितम् । (K.निकरं) धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद्गृहम् ॥ ५२.१२३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वास्तुविद्या समाप्तः ॥ ५२॥

५३ दकार्गलाध्यायः

धर्म्यं यशस्यं च वदाम्यतोऽहं दकार्गलं येन जलोपलब्धिः । (K.दगार्गलं) पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतग्निम्नसंस्थाः ॥ ५३.०१॥ एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाग्विशेषात् । नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षितिग्तुल्यमेव ॥ ५३.०२॥ पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशङ्करा देवाः । विज्ञातव्याः क्रमशः प्राच्याद्यानां दिशां पतयः ॥ ५३.०३॥ दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी । एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥ ५३.०४॥ पातालाद्*ऊर्ध्वशिरा शुभा चतुर्दिक्षु संस्थिता याश्च । (K.ऊर्ध्वशिराः शुभाश्) कोणदिगुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्ये ॥ ५३.०५॥ यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् । सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ५३.०६॥ चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता । पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥ ५३.०७॥ जम्ब्वाश्चोदधस्तैस्त्रिभिः शिराधो नरद्वये पूर्वा । मृल्लोहगन्धिका पाण्डुरा च पुरुषेऽत्र मण्डूकः ॥ ५३.०८॥ (K.अथ) जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत् समीपस्थः । तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥ ५३.०९॥ अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः । मृद्भवति चात्र नीला दीर्घं कालं च बहु तोयम् ॥ ५३.१०॥ पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे । पुरुषे सितोऽहिरश्माञ्जनोपमोऽधः शिरा सुजला ॥ ५३.११॥ उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः । त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् ॥ ५३.१२॥ श्वेता गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा । पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ॥ ५३.१३॥ वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः । पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ॥ ५३.१४॥ रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः । सिकता सशर्कराऽथ क्रमेण परतो भवत्यम्भः ॥ ५३.१५॥ पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् । पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकार्धनरे ॥ ५३.१६॥ सपलाशा बदरी चेद्दिश्यपरस्यां ततो जलं भवति । पुरुषत्रये सपादे पुरुषेऽत्र च दुण्डुभश् चिह्नम् ॥ ५३.१७॥ (K.दुण्डुभिश्) विल्व गुदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन । (K.बिल्व) पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्धनरे च मण्डूकः ॥ ५३.१८॥ काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् । पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥ ५३.१९॥ आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः । पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ ५३.२०॥ जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः । प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥ ५३.२१॥ मृन्ग्नीलोत्पलवर्णा कापोता *दृश्यते ततस् तस्मिन् । (K.चैव दृश्यते) हस्तेऽजगन्धको मत्स्यकः पयोऽल्पं च सक्षारम् ॥ ५३.२२॥ (K.ऽजगन्धिमत्स्यो भवति) शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य । कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥ ५३.२३॥ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि । अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ ५३.२४॥ (K.तस्य) तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्ते । तत्रोदभवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः ॥ ५३.२५॥ श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा । अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥ ५३.२६॥ *सकुशः सित ऐशान्यां वल्मीको यत्र कोविदारस्य । (K.सकुशासित) मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम् ॥ ५३.२७॥ प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता । कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि ॥ ५३.२८॥ यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम् । वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ॥ ५३.२९॥ पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च । पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा ॥ ५३.३०॥ सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः । तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ॥ ५३.३१॥ पुरुषे तु भवति नकुलो नीलो मृत् पीतिका ततः श्वेता । दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ॥ ५३.३२॥ यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य । हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ॥ ५३.३३॥ कच्छपकः पुरुषार्धे प्रथमं चोद्भिद्यते शिरा पूर्वा । उदगन्या स्वादुजला हरितोऽश्माधस्ततस्तोयम् ॥ ५३.३४॥ उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम् । परिहृत्य पञ्च हस्तान् अर्धाष्टमपौरुषान् प्रथमम् ॥ ५३.३५॥ (K.पौरुषे) अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलुत्थ वर्णोऽश्मा । (K.कुलत्थ) माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ॥ ५३.३६॥ वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुशदूर्वश्चेत् । पुरुषैः पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्वा ॥ ५३.३७॥ सर्पावासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम् । परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरीयगूनैः ॥ ५३.३८॥ कौबेरी चात्र शिरा वहति जलं लोहगन्धि चाक्षोभ्यम् । कनकग्निभो मण्डूको नरमात्रे मृत्तिका पीता ॥ ५३.३९॥ वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा । पश्चात् षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या ॥ ५३.४०॥ याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् । सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च ॥ ५३.४१॥ कर्बुरकोऽहिः पुरुषे कृष्णा मृत् पुटभिदपि च पाषाणः । श्वेता मृत् पश्चिमतः शिरा ततश्चोत्तरा भवति ॥ ५३.४२॥ अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा । षड्भिरुदक्तस्य करैः सार्धे पुरुषत्रये तोयम् ॥ ५३.४३॥ कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् । आदौ *च शिरा याम्या पूर्वोत्तरतो द्वितीया च ॥ ५३.४४॥ (K.शिरा च) वामेन हरिद्रतरोर्वल्मीकश्*चेज्जलं भवति पूर्वे । (K.चेत् ततो जलं) हस्तत्रितये *सत्र्यंशैः पुम्भिः पञ्चभिर्भवति ॥ ५३.४५॥ (K.पुरुषैः सत्र्यंशैः) नीलो भुजगः पुरुषे मृत् पीता मरकतोपमश्चाश्मा । कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥ ५३.४६॥ जलपरिहीने देशे दृश्यन्तेऽनूपजानि *चेन् निमितानि । (K.चिह्नानि) वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ॥ ५३.४७॥ भार्ङ्गी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा चैव । नवमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ॥ ५३.४८॥ स्निग्धाः प्रलम्बशाखा वामनविकट द्रुमाः समीपजलाः । (K.विट) सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः ॥ ५३.४९॥ तिलकाम्रातकवरुणकभल्लातकविल्व(K.बिल्व)तिन्दुकाङ्कोलाः । (K.अङ्कोल्लाः) पिण्डारशिरीषाञ्जनपरूषका *वञ्जुलोऽतिबला ॥ ५३.५०॥ (K.वञ्जुरातिबला) एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम् । हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरेण ॥ ५३.५१॥ (K.नरस्य) अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र । तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं चास्मिन् ॥ ५३.५२॥ कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् । खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ५३.५३॥ नदति मही गम्भीरं यस्मिंश्चरणाहता जलं तस्मिन् । सार्धैस्त्रिभिर्मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥ ५३.५४॥ वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् । विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥ ५३.५५॥ फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः । भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ॥ ५३.५६॥ यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः । तस्यास्तलेऽम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे च ॥ ५३.५७॥ खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे । तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर् वारि ॥ ५३.५८॥ (K.त्रिपुरुषे) यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा । सव्येन तत्र हस्तद्वयेऽम्बु पुरुषद्वये भवति ॥ ५३.५९॥ (K.पुरुषत्रये) *यस्यामूष्मा(K.ऊष्मा यस्याम्) धात्र्यां धूमो वा तत्र वारि नरयुगले । (K.नरयुग्मे) निर्देष्टव्या च शिरा महता तोयप्रवाहेण ॥ ५३.६०॥ यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति । स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ ५३.६१॥ मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि । ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥ ५३.६२॥ पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् । उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ ५३.६३॥ चिह्नं दर्दुर आदौ *मृत् कपिला तत्परं भवेद्धरिता । (K.मृत्कपिलातः परं) भवति च पुरुषे अधोऽश्मा तस्य तलेऽम्भो विनिर्देष्यम् ॥ ५३.६४॥ (K.वारि निर्देच्यम्) पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः । दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥ ५३.६५॥ प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश्च । दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥ ५३.६६॥ उत्तरतश्च करीरस्याहिगृहं दक्षिणे जलं स्वादु । (K.करीरादहिनिलये) दशभिः पुरुषैर्ज्ञेयं पुर्षे पीतोऽत्र मण्डूकः ॥ ५३.६७॥ रोहीतकस्य पश्चादहिवासश्चेत् त्रिभिः करैर्याम्ये । द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥ ५३.६८॥ इन्द्रतरोर्वल्मीकः प्राग्दृश्यः पश्चिमे शिरा हस्ते । खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे ॥ ५३.६९॥ यदि वा सुवर्णग्नाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् । हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु ॥ ५३.७०॥ क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा । रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥ ५३.७१॥ बदरीग्रोहितवृक्षौ सम्पृक्तौ चेद्विनापि वल्मीकम् । हस्तत्रयेऽम्बु पश्चात् षोडशभिर्मानवैर्भवति ॥ ५३.७२॥ सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तनेणान्या । पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिकोऽर्धग्नरे ॥ ५३.७३॥ सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः । अष्टादशभिः पुरुषैरैशानी बहुग्जला च शिरा ॥ ५३.७४॥ पीलुग्समेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् । विंशत्या पुरुषाणामशोष्यमम्भोऽत्र सक्षारम् ॥ ५३.७५॥ ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ वा । (K.बिल्बौ) हस्तद्वयेऽम्बु पश्चान् नरैर्भवेत् पञ्चविंशत्या ॥ ५३.७६॥ वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति । कूपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ ५३.७७॥ भूमिः कदम्बक ग्युता वल्मीके यत्र दृश्यते दूर्वा । (K.भूमी कदम्बक, K.स्त्र्। भूमीकदम्बक) हस्तद्वयेन याम्ये नरैर्जलं पञ्चविंशत्या ॥ ५३.७८॥ (K.हस्तत्रयेन) वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति । नानाग्वृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम् ॥ ५३.७९॥ हस्तग्चतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदवारि । चत्वारिंशत् पुरुषान् खात्वाऽश्माऽधः शिरा भवति ॥ ५३.८०॥ (K.अश्मातः) ग्रन्थिग्प्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः । पश्चात् पञ्चकरान्ते शतार्धसङ्ख्यैर्नरैः सलिलम् ॥ ५३.८१॥ एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेत्ग्श्वेतः । तस्मिन् शिरा प्रदिष्टा नरग्षष्ट्या पञ्चवर्जितया ॥ ५३.८२॥ सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ट्या । अर्ध्गनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥ ५३.८३॥ वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद्यस्मिन् । पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु ॥ ५३.८४॥ श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः । नरपञ्चकसंयुतया सप्तत्याहिर्नरार्धे च ॥ ५३.८५॥ मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिर्देश्यम् । जम्बूग्वेतस*पूर्वैर् ये पुरुषास्ते मरौ द्विगुणाः ॥ ५३.८६॥ (K.पूर्वे) जम्बूस्त्रिवृता मौर्वी शिशुमारी सारिवा शिवा श्यामा । (K.मूर्वा) वीरुधयो वाराही ज्योतिष्मती *गरुडवेगा च ॥ ५३.८७॥ (K.च गरुडवेगा) सूकरिकमाषपर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये । वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिग्पुरुषे तोयम् ॥ ५३.८८॥ एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः । एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ॥ ५३.८९॥ एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना । तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ ५३.९०॥ यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् । तत्र अर्धपञ्चकैर् वारि मानवैः पञ्चभिर्यदि वा ॥ ५३.९१॥ (K.अर्धपञ्चमैर्) स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च । तरुगहनेऽपि हि विकृतो यस्तस्मात् तद्वदेव वदेत् ॥ ५३.९२॥ नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गलानूपे । कीटा वा यत्र विनागालयेन बहवोऽम्बु तत्रापि ॥ ५३.९३॥ उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः । इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्घस्तात् ॥ ५३.९४॥ वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तद्गधः । शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ॥ ५३.९५॥ न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः । वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥ ५३.९६॥ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः । (K.भवति) नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ ५३.९७॥ नैरृतकोणे बालक्षयं *च वनिताभयं च वायव्ये । (K.वनिताभयं) दिक्ग्त्रयमेतत् त्यक्त्वा शेषासु शुभावहाः कूपाः ॥ ५३.९८॥ सारस्वतेन मुनिना दकार्गलं यत् क्र्तं तदवलोक्य । (K.दगार्गलं) आर्याभिः कृतमेतद्वृत्तैरपि मानवं वक्ष्ये ॥ ५३.९९॥ स्निग्धा यतः पादपगुल्मवल्ल्यो निश्छिद्रपत्राश्च ततः शिरास्ति । पद्मक्षुरोशीरकुलाः सगुण्ड्राः काशाः कुशा वा नलिका नलो वा ॥ ५३.१००॥ खर्जूरग्जम्बूअर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मवल्ल्यः । छत्रेभग्नागाः शतपत्रनीपाः स्युर्नक्तमालाश्च ससिन्दुवाराः ॥ ५३.१०१॥ विभीतको वा मदयन्तिका वा यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः । स्यात् पर्वतस्योपरि पर्वतोऽन्यस् तत्रापि मूले पुरुषत्रयेऽम्भः ॥ ५३.१०२॥ या मौञ्जिकैः काशकुशैश्च युक्ता (K.मौञ्जकैः) नीला च मृद्यत्र सशर्करा च । तस्यां प्रभूतं सुरसं च तोयं कृष्णाथ वा यत्र च रक्तमृद्वा ॥ ५३.१०३॥ सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति । आपाण्डुरायां लवणं प्रदिष्टं मृष्टं पयो नीलवसुन्धरायाम् ॥ ५३.१०४॥ (K.मिष्टम्) शाकाश्वकर्णार्जुनविल्व सर्जाः (K.बिल्व) श्रीपर्ण्य्गरिष्टाधवशिंशपाश्च । छिद्रैश्च पत्रैर् द्रुमगुल्मवल्ल्यो (K.पर्णैर्) रूक्षाश्च दूरेऽम्बु निवेदयन्ति ॥ ५३.१०५॥ सूर्याग्निग्भस्मोष्ट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा । रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धरा चेज्जलमश्मनोऽधः ॥ ५३.१०६॥ वैदूर्यमुद्ग अम्बुदमेचकाभा (K.वैडूर्यमुड्ग) पाकोन्मुखोदुम्बरसन्निभा वा । भङ्ग गञ्जनाभा कपिलाथ वा या (K.भृङ्ग) ज्ञेया शिला भूरिग्समीपतोया ॥ ५३.१०७॥ पारावत(K.परावत)ग्क्षौद्रघृतोपमा या (K.वा) क्षौमस्य वस्त्रस्य च तुल्यवर्णा । या सोमवल्ल्याश्च समानग्रूपा साप्याशु तोयं कुरुतेऽक्षयं च ॥ ५३.१०८॥ ताम्रैः समेता पृषतैर्विचित्रैर् आपाण्डुग्भस्मोष्ट्रखरानुरूपा । भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा सूर्याग्निग्वर्णा च शिला वितोया ॥ ५३.१०९॥ चन्द्रातपस्फटिकमौक्तिकहेमरूपा याश्चेन्द्रनीलमणिहिङ्गुलुकाञ्जनाभाः । सूर्योदयांशुघरितालनिभाश्च याः स्युस् ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥ ५३.११०॥ एता ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः । येषां च राष्ट्रेषु भवन्ति राज्णां तेषामवृष्टिर्न भवेत् कदा चित् ॥ ५३.१११॥ भेदं यदा नैति शिला तदानीं पलाशकाष्ठैः सह तिन्दुकानाम् । प्रज्वालयित्वानलमग्निवर्णा सुधाम्बुग्सिक्ता प्रविदारमेति ॥ ५३.११२॥ तोयं श्रितं मोक्षकभस्मना वा (K.श‍ृतम्) यत् सप्तकृत्वः परिषेचनं तत् । कार्यं शरक्षारयुतं शिलायाः प्रस्फोटनं वह्निग्वितापितायाः ॥ ५३.११३॥ तक्रकाञ्जिकसुराः सकुलत्था योजितानि बदराणि च तस्मिन् । सप्तरात्रमुषितान्यभितप्तां दारयन्ति हि शिलां परिषेकैः ॥ ५३.११४॥ नैम्बं पत्रं त्वक्च नालं तिलानां सापामार्गं तिन्दुकं स्याद्गुडूची । गोमूत्रेण स्रावितः क्षार एषां षट्ग्कृत्वोऽतस्तापितो भिद्यतेऽश्मा ॥ ५३.११५॥ आर्कं पयो हुडुग्विषाणमषीसमेतं पारावताखुग्शकृता च युतः प्रलेपः । टङ्कस्य तैलमथितस्य ततोऽस्य पानं पश्चात्ग्शितस्य न शिलासु भवेद्विघातः ॥ ५३.११६॥ क्षारे कदल्या मथितेन युक्ते (K.यक्ते) दिनोषिते पायितमायसं यत् । सम्यक्शितं चाश्मनि नैति भङ्गं (K.छितं) न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥ ५३.११७॥ पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः । तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत् पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः ॥ ५३.११८॥ (K.क्षुन्नं) ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः । कुरबक ग्तालाशोकमधूकैर्बकुलविमिश्रैश्चावृततीराम् ॥ ५३.११९॥ (K.कुरवक) द्वारं च नैर्वाहिकमेकदेशे कार्यं शिलाग्सञ्चितवारिमार्गम् । कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिरावपेत् तम् ॥ ५३.१२०॥ अञ्जनमुस्ताउशीरैः सराजकोशातकामलकचूर्णैः । कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः ॥ ५३.१२१॥ कलुषं कटुकं लवणं विरसं सलिलं यदि वा शुभगन्धि(ऊऽशुभगन्धि) भवेत् । तदनेन भवत्यमलं सुरसं सुसुगन्धि गुणैरपरैश्च युतम् ॥ ५३.१२२॥ हस्तो मघानुराधाग्पुष्यधनिष्ठाउत्तराणि रोहिण्यः । शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥ ५३.१२३॥ कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने । भौमं दगार्गलमिदं कथितं द्वितीयं सम्यवराहमिहिरेण मुनिप्रसादात् ॥) मेघोद्भवं प्रथममेव मया प्रदिष्टं ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा । K.५४.१२५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दकार्गलाध्यायः समाप्तः ॥ ५३॥

५४ वृक्षायुर्वेदाध्यायः

प्रान्तग्च्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः । यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ ५४.०१॥ मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान् वपेत् । पुष्पितांस्तांश्च मृद्नीयात्(K.गृह्णीयात्) कर्मैतत् प्रथमं भुवः ॥ ५४.०२॥ (K.भुवि) अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः । मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥ ५४.०३॥ पनसाशोककदलीजम्बूलकुचदाडिमाः । द्राक्षाग्पालीवताश्चैव बीजपूरातिमुक्तकाः ॥ ५४.०४॥ एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः । (K.काण्डारोप्या) मूलोच्छेदेऽथ वा स्कन्धे रोपणीयाः *परं ततः ॥ ५४.०५॥ (K.प्रयत्नतः) अजातशाखान् शिशिरे जातशाखान् हिमागमे । वर्षागमे च सुस्कन्धान् *यथादिक्स्थान् प्ररोपयेत् ॥ ५४.०६॥ (K.यथादिक्प्रतिरोपयेत्) घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः । आमूलस्कन्धलिप्तानां सङ्क्रामणविरोपणम् ॥ ५४.०७॥ शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः । रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते ॥ ५४.०८॥ सायं प्रातश्च घर्मगृतौ शीतकाले दिनान्तरे । (K.घर्मान्ते) वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥ ५४.०९॥ जम्बूग्वेतसवानीरकदम्बोदुम्बरार्जुनाः । बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥ ५४.१०॥ वञ्जुलो नक्तमालश्च तिलकः पनसस्तथा । तिमिरोऽम्रातकश्चेति षोडशानूपजाः स्मृताः ॥ ५४.११॥ (K.चैव) उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम् । स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥ ५४.१२॥ ह्यासजातास्तरवः सम्स्पृशन्तः परस्परम् । मिश्रैर्मूलैश्च न फलं सम्ययच्छन्ति पीडिताः ॥ ५४.१३॥ शीतवातातपै रोगो जायते पाण्डुपत्रता । अवृद्धिश्च प्रवालानां(ऊ।प्रबालानाम्) शाखाशोषो रसस्रुतिः ॥ ५४.१४॥ चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् । विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ॥ ५४.१५॥ फलग्नाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः । श‍ृतशीतपयःसेकः फलपुष्पसमृद्धये ॥ ५४.१६॥ (K.अभिवृद्धये) अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम् । सक्तुग्प्रस्थो जलद्रोणो गोमांसतुलया सह ॥ ५४.१७॥ सप्तग्रात्रोषितैरेतैः सेकः कार्यो वनस्पतेः । वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ॥ ५४.१८॥ वासराणि दश दुग्धभावितं बीजमाज्ययुतहस्तयोजितम् । गोमयेन बहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितम् ॥ ५४.१९॥ मांस ग्सूकरवसासमन्वितं रोपितं च परिकर्मितावनौ । (K.मत्स्य) क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥ ५४.२०॥ तिन्तिडीगित्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः । पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ॥ ५४.२१॥ कपित्थवल्लीकरणाय मूलान्य् आस्फोतधात्रीधववासिकानाम् । पलाशिनी वेतससूर्यबल्ली (K.ऊ।वल्ली) श्यामातिमुक्तैः सहिताष्टमूली ॥ ५४.२२॥ क्षीरे श‍ृते चाप्यनया सुशीते ताला शतं स्थाप्य कपित्थबीजम् । (K.नाला) दिने दिने शोषितमर्कपादैर् मासं विधिस्त्वेष ततोऽधिरोप्यम् ॥ ५४.२३॥ हस्तायतं तद्द्विगुणं गभीरं खात्वावटं प्रोक्तग्जलावपूर्णम् । शुष्कं प्रदधं मधुग्सर्पिषा तत् प्रलेपयेद्भस्मसमन्वितन ॥ ५४.२४॥ (K.ऊ।समन्वितेन) चूर्णीकृतैर्माषतिलैर्यवैश्च प्रपूरयेद्मृत्तिकयान्तरस्थैः । मत्स्यामिषाम्भस् ग्सहितं च हन्याद् (K.अम्भः) यावद्घनत्वं समुपागतं तत् ॥ ५४.२५॥ उप्तं च बीजं चतुर्गङ्गुलाधो मत्स्याम्भसा मांसग्जलैश्च सिक्तम् । वल्ली भवत्याशु शुभप्रवाला विस्मापनी मण्डपमावृणोति ॥ ५४.२६॥ शतशोऽङ्कोल ग्सम्भूतफलकल्केन भावितम् । (K.अङ्कोल्ल) एतत् तैलेन वा बीजं श्लैष्मातक ग्फलेन वा ॥ ५४.२७॥ (K.ऊ।श्लेष्मातक) वापितं करकोन्मिश्रमृदि तत्क्षणजन्मकम् । फलभारान्विता शाखा भवतीति किमद्भुतम् ॥ ५४.२८॥ श्लेष्मातकस्य बीजानि निष्कुलीग्कृत्य भावयेत् प्राज्ञः । अङ्कोल(K.अङ्कोल्ल)ग्विज्जलाद्भिश्छायायां सप्तकृत्व एवम् ॥ ५४.२९॥ (K.सप्तकृत्व्) माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य । करकाग्जलमृद्योगे न्युप्तान्यह्ना फलकराणि ॥ ५४.३०॥ ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः । (K.हस्तं) उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ५४.३१॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वृक्षायुर्वेदाध्यायः समाप्तः ॥ ५४॥

५५ प्रासादलक्षणाध्यायः

कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च । देवतागायतनं कुर्याद्यशोधर्माभिवृद्धये ॥ ५५.०१॥ इष्टाग्पूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता । देवानामालयः कार्यो द्वयमपि अत्र दृश्यते ॥ ५५.०२॥ सलिलोद्यानयुक्तेषु कृतेष्वकृतेषु च । स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः ॥ ५५.०३॥ सरःसु नलिनीग्छत्रनिरस्तरविरश्मिषु । हंसांसाक्षिप्तकह्लारवीथी विमलवारिषु ॥ ५५.०४॥ (K.वीची, K.स्त्र्। वीथी) हंसकारण्डवक्रौञ्चचक्रवाकविराविषु । पर्यन्तग्निचुलच्छायाविश्रान्तजलचारिषु ॥ ५५.०५॥ क्रौञ्चकाञ्चीकलापाश्च कलहंसकलस्वराः । (K.स्वनाः) नद्यस्तोयांशुका यत्र शफरीग्कृतमेखलाः ॥ ५५.०६॥ फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः । पुलिनाभ्युन्नतोरस्या हंसवासाश् च निम्नगाः ॥ ५५.०७॥ (K.हंसहासाश्) वनोपान्तग्नदीशैलनिर्झरोपान्तभूमिषु । रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च ॥ ५५.०८॥ भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि । ता एव तेषां शस्यन्ते देवतागायतनेष्वपि ॥ ५५.०९॥ चतुःषष्टिग्पदं कार्यं देवताआयतनं सदा । द्वारं च मध्यमं तस्मिन् समदिक्स्थं प्रशस्यते ॥ ५५.१०॥ (K.तत्र) यो विस्तारो भवेद्यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद्यस्तृतीयांशस्तेन तुल्या *कटिः स्मृता ॥ ५५.११॥ (K.कटिर्भवेत्) विस्तारार्धं भवेद्गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ ५५.१२॥ उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः । विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥ ५५.१३॥ त्रिग्पञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते । अधः शाखाग्चतुर्भागे प्रतीहारौ निवेशयेत्/ ॥ ५५.१४॥ शेषं मङ्गल्यविहगैः *श्रीवृक्षैः स्वस्तिकैर् घटैः । (K.श्रीवृक्षस्वस्तिकैर्) मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ॥ ५५.१५॥ द्वारमानाष्टभागऊना प्रतिमा स्यात् सपिण्डिका । द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ ५५.१६॥ मेरुग्मन्दरकैलासविमानच्छन्दनन्दनाः । समुद्गपद्मगरुडनन्दिवर्धनकुञ्जराः ॥ ५५.१७॥ गुहराजो वृषो हंसः सर्वतोभद्रको घटः । सिंहो वृत्तश्चतुष्कोणः षोडशाष्टाश्रयस्तथा ॥ ५५.१८॥ इत्येते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया । यथोक्तानुक्रमेणैव लक्षणानि वदाम्यतः ॥ ५५.१९॥ तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च । द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्ग्धस्तविस्तीर्णः ॥ ५५.२०॥ त्रिंशद्ग्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः । कैलासोऽपि शिखरवान् अष्टाविंशोऽष्टभौमश्च ॥ ५५.२१॥ जालगवाक्षकयुक्तो विमानसंज्ञस्त्रिसप्तकायामः । नन्दन इति षड्ग्भौमो द्वात्रिंशः षोडशाण्डयुक्तः ॥ ५५.२२॥ वृत्तः समुद्गग्नामा पद्मः पद्माकृतिः शया अष्टौ । (K.शयानाष्टौ) श‍ृङ्गेणैकेन भवेदेकैव च भूमिका तस्य ॥ ५५.२३॥ गरुडाकृतिश्च गरुडो नन्दीगिति च षट्चतुष्कविस्तीर्णः । कार्यस्तु(K.च) सप्तभौमो विभूषितोऽण्डैस्तु विंशत्या ॥ ५५.२४॥ (K.च) कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् । गुहराजः षोडशकस्त्रिचन्द्रशाला भवेद्वलभी ॥ ५५.२५॥ वृष एकभूमिश‍ृङ्गो द्वादशहस्तः समन्ततो वृत्तः । हंसो हंसाकारो घटोऽष्टहस्तः कलशग्रूपः ॥ ५५.२६॥ द्वारैर्युतश्चतुर्भिर्बहुग्शिखरो भवति सर्वतोभद्रः । बहुग्रुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च ॥ ५५.२७॥ सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः । चत्वारोऽञ्जनग्रूपाः पञ्चाण्डयुतस्तु चतुरस्रः ॥ ५५.२८॥ (K.चतुरश्रः) भूमिकाङ्गुलमानेन मयस्याष्टोत्तरं शतम् । सार्धं हस्तत्रयं चैव कथितं विश्वकर्मणा ॥ ५५.२९॥ प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः । कपोतपालिग्संयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥ ५५.३०॥ प्रासादलक्षणमिदं कथितं समासाद् गर्गेण यद्विरचितं तदिहास्ति सर्वम् । मनुगादिभिर्विरचितानि पृथूनि यानि तत्संस्पृशन् प्रति मयात्र कृतोऽधिकारः ॥ ५५.३१॥ (K.तत्संस्मृतिं) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रासादलक्षणाध्यायः समाप्तः ॥ ५५॥

५६ वज्रलेपलक्षणाध्यायः

आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः । बीजानि शल्लकीनां धन्वनवल्को वचा चेति ॥ ५६.०१॥ एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च । अवतार्योऽस्य च कल्को द्रव्यैरेतैः समनुयोज्यः ॥ ५६.०२॥ श्रीवासकग्रसगुगुलुभल्लातककुन्दुरूकसर्जरसैः । अतसीग्बिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥ ५६.०३॥ प्रासादघर्म्यवलभीलिङ्गप्रतिमासु कुड्यकूपेषु । सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥ ५६.०४॥ लाक्षाग्कुन्दुरुगुगुलुगृहधूमकपित्थबिल्वमध्यानि । नाग*फलग्निम्ब तिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥ ५६.०५॥ (K.बलाफल) सर्जरसग्रसामलकानि चेति कल्कः कृतो द्वितीयोऽयम् । वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु ॥ ५६.०६॥ गोग्महिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च । निम्बकपित्थरसैः सह वज्रतलो नाम कल्कोऽन्यः ॥ ५६.०७॥ (K.वज्रतरो) अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः । मयकथितो योगोऽयं विज्ञेयो वज्रसङ्घातः ॥ ५६.०८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वज्रलेपलक्षणाध्यायः समाप्तः ॥ ५६॥

५७ प्रतिमालक्षणाध्यायः

जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति । तद्विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम् ॥ ५७.०१॥ परमाणुग्रजो बालाग्र(K.वालाग्र)लिक्षयूकं यवोऽङ्गुलं चेति । (K.यूका) अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति सङ्ख्या ॥ ५७.०२॥ (K.मात्रा) देवागारद्वारस्याष्टाम्शऊनस्य यस्तृतीयोऽंशः । तत्ग्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ ५७.०३॥ स्वैरङ्गुलप्रमाणैर्द्वादश वीस्तीर्णम्(ऊ।विस्तीर्णम्) आयतं च मुखम् । नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ॥ ५७.०४॥ नासाग्ललाटचिबुकग्रीवाश्चतुराङ्गुलास्तथा कर्णौ । द्वे अङ्गुले च हनुनी(K.हनुके) चिबुकं च द्व्यङ्गुलं विततम् ॥ ५७.०५॥ (K.विस्तृतम्) अष्टाङ्गुलं ललाटं विस्ताराद्द्व्य्गङ्गुलात् परे शङ्खौ । चतुर्गङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ पृथुलौ ॥ ५७.०६॥ (K.द्व्यङ्गुलं) कर्णोपान्तः कार्योऽर्धपञ्चमे भ्रूसमेन सूत्रेण । कर्णस्रोतः सुकुमारकं च नेत्र प्रबन्धसमम् ॥ ५७.०७॥ (K.नयन) चतुर्गङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम् । अधरोऽङ्गुलप्रमाणस्तस्यार्धेनोत्त्रोष्ठश्च ॥ ५७.०८॥ अर्धाङ्गुला तु गोच्छा वक्त्रं चतुर्गङ्गुलायतं कार्यम् । विपुलं तु सार्धमङ्गुलं *अव्यात्तं त्र्य्गङ्गुलं व्यात्तम् ॥ ५७.०९॥ (K.अध्यात्तत्त्र्यङ्गुलं) द्व्य्गङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो ज्ञेया । स्याद्द्व्य्गङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः ॥ ५७.१०॥ द्व्य्गङ्गुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा । दृक्ग्तारा पञ्चांशो नेत्रविकाशोऽङ्गुलं भवति ॥ ५७.११॥ पर्यन्तात् पर्यन्तं दश भ्रुवोऽर्धाङ्गुलं भ्रुवोर्लेखा । भ्रूग्मध्यं द्व्यङ्गुलकं भूर्(ऊ।भ्रूर्) धैर्घ्येणाङ्गुलचतुष्कम् ॥ ५७.१२॥ कार्या तु केशग्रेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा । नेत्रान्ते करवीरकमुपन्यसेदङ्गुलप्रमितम् ॥ ५७.१३॥ द्वात्रिंशत् परिणाहाच्चतुर्दशायामतोऽङ्गुलानि शिरः । द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः ॥ ५७.१४॥ आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित्(ऊंअग्नजित्)प्रोक्तम् । ग्रीवा दश विस्तीर्णा परिणाहाद्विंशतिः सैका ॥ ५७.१५॥ कण्ठाद्द्वादश हृदयं हृदयान् नाभी च तत्ग्प्रमाणेन । (K.नाभिश्) नाभीग्मध्याद्मेढ्रान्तरं च तत्तुल्यमेवोक्तम् ॥ ५७.१६॥ ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे । जानुकपिच्छे चतुर्गङ्गुले च पादौ च तत्तुल्यौ ॥ ५७.१७॥ द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायताङ्गुष्ठौ । पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ॥ ५७.१८॥ अष्टांशांशगूनाः शेषाङ्गुल्यः क्रमेण कर्तव्याः । (K.शेषाङ्गुलयः) सग्चतुर्थभागमङ्गुलमुत्सेधोऽङ्गुष्ठकस्योक्तः ॥ ५७.१९॥ अङ्गुष्ठग्नखः कथितस्चतुर्थभागऊनमङ्गुलं तज्ज्ञैः । शेषग्नखानामर्धाङ्गुलं क्रमात् किञ्चिदूनं वा ॥ ५७.२०॥ जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरात् पञ्च । (K.विस्तरः) मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ॥ ५७.२१॥ अष्टौ तु जानुमध्ये वैपुल्यं त्र्य्गष्टकं तु परिणाहः । विपुलौ चतुर्दशगूरू मध्ये द्विगुणश्च तत्परिधिः ॥ ५७.२२॥ कटिरष्टादश विपुला चत्वारिंशच्चतुर्ग्युता परिधौ । अङ्गुलमेकं नाभी वेधेन तथा प्रमाणेन ॥ ५७.२३॥ (K.नाभिर्) चत्वारिंशद्ग्द्वियुता नाभीमध्येन मध्यपरिणाहः । स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये षड्गङ्गुलिके ॥ ५७.२४॥ (K.कक्षे) *अष्टावंसौ द्वादश बाहू कार्यौ तथा प्रबाहू च । (K.कार्यावष्टावंसौ द्वादश बाहू) बाहू षड्ग्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम् ॥ ५७.२५॥ (K.षड्विस्तिर्णौ) षोडश बाहू मूले परिणाहाद्द्वादशाग्रघस्ते च । विस्तारेण करतलं षड्गङ्गुलं सप्त दैर्घ्येण ॥ ५७.२६॥ पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना । अनया तुल्या चानामिका कनिष्ठा तु पर्वगूना ॥ ५७.२७॥ पर्वद्वयमङ्गुष्ठः शेषाङ्गुल्यस् त्रिभिस्त्रिभिः कार्याः । (K.शेषाङ्गुलयस्) नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन ॥ ५७.२८॥ देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या । प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥ ५७.२९॥ दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् । द्वादशघान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ ५७.३०॥ कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः । श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः ॥ ५७.३१॥ अतसीग्कुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः । कुण्डलकिरीटधारी पीनगलोरःस्थलांसभुजः ॥ ५७.३२॥ खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः । वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ॥ ५७.३३॥ अथ च चतुर्भुजमिच्छति शान्तिद एको गदाग्धरश्चान्यः । दक्षिणपार्श्वे त्व् एवं वामे शङ्खश्च चक्रं च ॥ ५७.३४॥ (K.ह्य्) द्विभुजस्य तु शान्तिग्करो दक्षिणहस्तोऽपरश्च शङ्खधरः । एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः ॥ ५७.३५॥ बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः । विभ्रत्(K.बिभ्रत्) कुण्डलमेकं शङ्खेन्दुग्मृणालगौरतनुः ॥ ५७.३६॥ (K.वपुः) एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये । कटिग्संस्थितवामकरा सरोजमितरेण चोद्वहती ॥ ५७.३७॥ कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् । द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥ ५७.३८॥ *वामोऽथ वाष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम् । (K.वामेष्वष्टभुजायाः) वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥ ५७.३९॥ शाम्बश्च गदाघस्तः प्रद्युम्नश्चापभृत् सुरूपश्च । अनयोः स्त्रियौ च कार्ये खेटकग्निस्त्रिंशधारिण्यौ ॥ ५७.४०॥ ब्रह्मा कमण्डलुग्करश्चतुर्मुखः पङ्कजासनस्थश्च । स्कन्दः कुमारग्रूपः शक्तिधरो बर्हिकेतुश्च ॥ ५७.४१॥ शुक्लग्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । तिर्यललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥ ५७.४२॥ शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि चऊर्ध्वम् । शूलं धनुः पिनाकं वामार्धे वा गिरिसुतार्धम् ॥ ५७.४३॥ पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च । पद्मासनोपविष्टः पितागिव जगतो भवति बुद्धः ॥ ५७.४४॥ (K.भवेत्) आग्जानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च । दिग्वासास्तरुणो रूपवांश्च कार्योऽर्हतां देवः ॥ ५७.४५॥ नासाग्ललाटजङ्घऊरुगण्डवक्षांसि चोन्नतानि रवेः । कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ॥ ५७.४६॥ बिभ्राणः स्वकररुहे बाहुभ्यां पङ्कजे मुकुटधारी । (K.पाणिभ्यां) कुण्डलभूषितवदनः प्रलम्बहारो वियद्ग वृतः ॥ ५७.४७॥ (K.स्त्र्। वियङ्ग) कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः । रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ॥ ५७.४८॥ सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा । क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ॥ ५७.४९॥ नृपभयमत्यङ्गायां हीनाङ्गायामकल्यता कर्तुः । शातोदर्यां क्षुद्ग्भयमर्थविनाशः कृशाङ्गायाम् ॥ ५७.५०॥ (K.कृशायां च) मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः । वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥ ५७.५१॥ अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः । सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तसमम् ॥ ५७.५२॥ लिङ्गस्य वृत्तपरधिं दैर्घ्येणासूत्र्य तत् त्रिधा विभजेत् । मूले तच्चतुरस्रं मध्ये त्वष्टाश्रिं वृत्तमतः ॥ ५७.५३॥ (K.चतुरश्रं) चतुरस्रम् अवनिग्खाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे । (K.चतुरश्रम्) दृश्योच्छ्रायेण समा समन्ततः पिण्डिका श्वभ्रात् ॥ ५७.५४॥ (K.पिण्डका) कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय । यस्य क्षतं भवेद्मस्तके विनाशाय तल्ग्लिङ्गम् ॥ ५७.५५॥ मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः । रेवन्तोऽश्वारूढो मृगयाग्क्रीडाआदिपरिवारः ॥ ५७.५६॥ दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः । एकविषाणो बिभ्रन् मूलककन्दं सुनीलदलकन्दम् ॥) प्रमथाधिपो गजमुखः प्रलम्बग्जठरः कुठारधारी स्यात् । K.५८.५८॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमालक्षणाध्यायः समाप्तः ॥ ५७॥

५८ वनसंप्रवेशाध्यायः

कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिकैश्च वनसंप्रवेशः स्यात् ॥ ५८.०१॥ पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः । चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च ॥ ५८.०२॥ कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः । स्वपतितघस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥ ५८.०३॥ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । हिमतवृक्षं गत्वा कुर्यात् पूजां सबलिपुष्पाम् ॥ ५८.०४॥ सुरदारुग्चन्दनशमीमधूकतरवः शुभा द्विजातीनाम् । क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥ ५८.०५॥ वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश् च शुभफलदाः । (K.स्पन्दनाश्) तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥ ५८.०६॥ लिङ्गं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात् । तस्माच्चिह्नयितव्या दिशो द्रुमस्यगूर्ध्वमथ वाधः ॥ ५८.०७॥ परमान्नमोदकौदनदधिपललोल्लोपिकाआदिभिर्भक्ष्यैः । मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य ॥ ५८.०८॥ सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् । कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥ ५८.०९॥ अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः । नमस्ते वृक्ष पूजेयं विधिवत् संप्रगृह्यताम् ॥ ५८.१०॥ यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्प्यन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ ५८.११॥ वृक्षं प्रभाते सलिलेन सिक्त्वा पूर्वोत्तरस्यां दिशि सन्निकृत्य । मध्वाज्यदिग्धेन कुठारकेण (K.लिप्तेन) प्रदक्षिणं शेषमतो निहन्यात् ॥ ५८.१२॥ (K.हिहन्यात्) पूर्वेण पूर्वोत्तरतोऽथ वागुदक् पतेद्यदा वृद्धिकरस्तदा स्यात् । आग्नेयकोणात् क्रमशोऽग्निदाहग् रुग्राग रोगास्तुरगक्षयश्च ॥ ५८.१३॥ (K.क्षुद्रोग) यन् नोक्तमस्मिन् वनसंप्रवेशे निपातविच्छेदनवृक्षगर्भाः । इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ॥ ५८.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वनसंप्रवेशाध्यायः समाप्तः ॥ ५८॥

५९ प्रतिमाप्रतिष्ठापनाध्यायः

दिशि याम्यायां कुर्यादधिवासनमण्डपं बुधः प्राग्वा । (K.सौम्यायां) तोरणग्चतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ॥ ५९.०१॥ पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्योक्ताः । आग्नेय्यां दिशि रक्ताः कृष्णाः स्युर्याम्यग्नैरृत्योः ॥ ५९.०२॥ (K.नैरृतयोः) श्वेता दिश्यपरस्यां वायव्यायां तु पाण्डुरा एव । चित्राश्चोत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः ॥ ५९.०३॥ (K.कोणे) आयुःग्श्रीबलजयदा दारुमयी मृण्मयी तथा प्रतिमा । (K.मृन्मयी) लोकघिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥ ५९.०४॥ रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी । भूग्लाभं तु महान्तं शैली प्रतिमाथ वा लिङ्गम् ॥ ५९.०५॥ शङ्खूपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति । श्वभ्रोपहता रोगान् उपद्रवांश्च क्षयम् कुरुते ॥ ५९.०६॥ (K.अक्षयान्) मण्डपमध्ये स्थण्डिलमुपलिप्यास्तीर्य सिकतयाथ कुशैः । भद्रासनकृतशीर्षोपधानपादां न्यसेत् प्रतिमाम् ॥ ५९.०७॥ प्लक्षाश्वत्थोदुम्बरशिरीषवटसम्भवैः कषायजलैः । मङ्गल्यसंज्ञिताभिः सर्वाउषधिभिः कुशाद्याभिः ॥ ५९.०८॥ द्विपवृषभोद्धत पर्वतवल्मीकसरित्समागमतटेषु । (K.उद्धृत) पद्मसरःसु च मृद्भिः सपञ्चगव्यैश्च तीर्थजलैः ॥ ५९.०९॥ पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च ससुगन्धैः । नानाग्तूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः ॥ ५९.१०॥ ऐन्द्र्यां दिशीन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणेऽग्निलिङ्गाश्च । वक्तव्या द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥ ५९.११॥ (K.जप्तव्या) यो देवः संस्थाप्यस्तन्ग्मन्त्रैश्चानलं द्विजो जुहुयात् । अग्निग्निमित्तानि मया प्रोक्तानीन्द्रध्वजोत्थाने ॥ ५९.१२॥ (K.उच्छ्राये) धूमाकुलोऽपसव्यो मुहुर्मुहुर्विफुलिङ्गकृन् न शुभः । होतुः स्मृतिग्लोपो वा प्रसर्पणं चाशुभं प्रोक्तम् ॥ ५९.१३॥ स्नातामभुक्तवस्त्रां स्वलङ्कृतां पूजितां कुसुमगन्धैः । प्रतिमां स्व्गास्तीर्णायां शय्यायां स्थापकः कुर्यात् ॥ ५९.१४॥ सुप्तां *सगीतनृत्यैर्जागरणैः सम्यगेवमधिवास्य । (K.सुनृत्यगीतैर्जागरकैः) दैवज्ञसंप्रदिष्टे काले संस्थापनं कुर्यात् ॥ ५९.१५॥ ह्यर्च्य कुसुमवस्त्रानुलेपनैः शङ्खतूर्यनिर्घोषैः । प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन ॥ ५९.१६॥ कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च । दत्त्वा हिरण्यशकलं विनिक्षिपेत् पिण्डिकाश्वभ्रे ॥ ५९.१७॥ स्थापकदैवज्ञद्विजसभ्यस्थपतीन् विशेषतोऽभ्यर्च्य । कल्याणानां भागी भवतीह परत्र च स्वर्गी ॥ ५९.१८॥ विष्णोर्भागवतान् मगांश्च सवितुः शम्भोः सभस्मद्विजान् मातॄणामपि मण्डलक्रमविदो विप्रान् विदुर्ब्रह्मणः । (K.मातृमण्डलविदो) शाक्यान् सर्वघितस्य शान्तमनसो नग्नान् जिनानां विदुर् ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥ ५९.१९॥ उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे । लग्ने स्थिरे स्थिरांशे सौम्यैर्धीग्धर्मकेन्द्रगतैः ॥ ५९.२०॥ पापैरुपचयसंस्थैर्ध्रुवमृदुहरितिष्यवायुदेवेषु । विकुजे दिनेऽनुकूले देवानां स्थापनं शस्तम् ॥ ५९.२१॥ सामान्यमिदं समासतो लोकानां हितदं मया कृतम् । अधिवासनसन्निवेशने सावित्रे पृथगेव विस्तरात् ॥ ५९.२२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमाप्रतिष्ठापनाध्यायः समाप्तः ॥ ५९॥

६० गोलक्षणाध्यायः

पराशरः प्राह बृहद्रथाय गोग्लक्षणं यत् क्रियते ततोऽयम् । मया समासः शुभलक्षणास्ताः सर्वास्तथाऽप्यागमतोऽभिधास्ये ॥ ६०.०१॥ सास्राविलग्रूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः । प्रचलच्ग्चिपिटविषाणाः करटाः खरसदृशवर्णाश् च ॥ ६०.०२॥ (K.वर्नाः) दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः । (K.पृष्ठाः ऊ।पृष्ठः) ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥ ६०.०३॥ श्यावातिदीर्घग्जिह्वा गुल्फैरतितनुभिरतिबृहद्भिर्वा । अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥ ६०.०४॥ वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः । स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ॥ ६०.०५॥ मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यैव । (K.द्विजस्येष्टः) कृष्णौष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ॥ ६०.०६॥ स्थूलशकृन्मणिश‍ृङ्गः सितोदरः कृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥ ६०.०७॥ श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः । विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥ ६०.०८॥ ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः । कातरग्नयना हीनाश्च पृष्ठतस्ते न भारसहाः ॥ ६०.०९॥ मृदुग्संहतताम्रौष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च । ह्रस्वतनु(K.तनुह्रस्वो)उच्चश्रवणाः सुकुक्षयः स्पृष्ट जङ्घाश्च ॥ ६०.१०॥ (K.स्पष्ट) आताम्रसंहतखुरा व्यूढोरस्का बृहत्ककुदयुक्ताः । स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुश‍ृङ्गाः ॥ ६०.११॥ तनुग्भूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः । सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगमाः ॥ ६०.१२॥ (K.ऊ।सुगताः) वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्तैः । शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकग्निभाभिः ॥ ६०.१३॥ वैदूर्य(K.वैडूर्य)ग्मल्लिकाबुद्बुदईक्षणाः स्थूलनेत्रपक्ष्माणः । (K.वर्माणः) पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वे च भारसहाः ॥ ६०.१४॥ (K.अपि) घ्राणोद्देशे सवलिर्मार्जारमुखः सितश्च दक्षिणतः । कमलोत्पललाक्षाआभः सुवालधिर्वाजितुल्यजवः ॥ ६०.१५॥ लम्बैर्वृषणैर्मेषोदरश्च संक्षिप्तवङ्क्षण क्रोडः । (K.क्षणा) ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥ ६०.१६॥ सितवर्णः पिङ्गाक्षस्ताम्रविषाणईक्षणो महावक्त्रः । हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥ ६०.१७॥ भूस्पृग्वालधिराताम्रविषाणो(K.वङ्क्षणो) रक्तदृक्ककुद्मांश् च । (K.ककुद्मी) कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः ॥ ६०.१८॥ यो वा सितैकचरणैर्(K.सितैकचरणो) यथेष्टवर्णश्च सोऽपि शुभफलकृत् । (K.शस्तफलः) मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति ॥ ६०.१९॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गोलक्षणाध्यायः समाप्तः ॥ ६०॥

६१ श्वलक्षणाध्यायः

पादाः पञ्चग्नखास्त्रयोऽग्रचरणः षड्भिर्नखैर्दक्षिणस् ताम्रौष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च । लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू यस्य स्यात् स करोति पोष्टुरचिरात् पुष्टां श्रियं श्वा गृहे ॥ ६१.०१॥ पादे पादे पञ्च पञ्चाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्ष्याः । वक्रं पुच्छं पिङ्गलाग्लम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति पुष्टा ॥ ६१.०२॥ (K.पोष्टुः) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां श्वलक्षणाध्यायः समाप्तः ॥ ६१॥

६२ कुक्कुटलक्षणाध्यायः

कुक्कुटस्त्वृजुग्तनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः । रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपग्राष्ट्रवाजिनाम् ॥ ६२.०१॥ यवग्रीवो यो वा बदरसदृशो वापि विहगो बृहन्ग्मूर्धा वर्णैर्भवति बहुभिश्च रुचिरः । स शस्तः सङ्ग्रामे मधुग्मधुपवर्णश्च जयकृद् न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥ ६२.०२॥ कुक्कुटी च मृदुग्चारुभाषिणी स्निग्धमूर्तिरुचिराननईषणा । सा ददाति सुचिरं महीक्षितां श्रीग्यशोविजयवीर्यसम्पदः ॥ ६२.०३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कुक्कुटलक्षणाध्यायः समाप्तः ॥ ६२॥

६३ कूर्मलक्षणाध्यायः

स्फुटिकग्रजतवर्णो नीलराजीविचित्रः कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः । अरुणसमवपुर्वा सर्षपाकारचित्रः सकलग्नृपमहत्त्वं मन्दिरस्थः करोति ॥ ६३.०१॥ अञ्जनभृङ्गश्यामतनुर्वा बिन्दुविचित्रोऽव्यङ्गशरीरः । सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै ॥ ६३.०२॥ वैडूर्यत्विट् स्थूलकण्ठस्त्रिकोणो गूढग्च्छिद्रश्चऊरु वंशश्च शस्तः । (K.ऊॅहारु) क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो मङ्गलार्थं नरेन्द्रैः ॥ ६३.०३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कूर्मलक्षणाध्यायः समाप्तः ॥ ६३॥

६४ छागलक्षणाध्यायः

छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्ते । धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥ ६४.०१॥ दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति । ऋष्यग्निभकृष्णलोहितवर्णानां श्वेतमति शुभदम् ॥ ६४.०२॥ (K.अपि) स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः । एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो ये ॥ ६४.०३॥ (K.द्वित्रिमणयो) मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च । अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥ ६४.०४॥ विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः । स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका यस्य ॥ ६४.०५॥ (K.टिक्किका) सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक्शस्तः । कृष्णग्चरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥ ६४.०६॥ यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन । यो वा चरति सशब्दं मन्दं च स शोभनश्छागः ॥ ६४.०७॥ ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरोऽपरे नीलः । स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः ॥ ६४.०८॥ कुट्टकः कुटिलश्चैव जटिलो वामनस्तथा । ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥ ६४.०९॥ अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कुनखा विवर्णाः । निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये चासिततालुजिह्वाः ॥ ६४.१०॥ वर्णैः प्रशस्तैर्मणिभिः प्रयुक्ता (K.च युक्ता) मुण्डाश्च ये ताम्रविलोचनाश्च । ते पूजिता वेश्मनि मानवानां (K.वेश्मसु) सौख्यानि कुर्वन्ति यशः श्रियं च ॥ ६४.११॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां छागलक्षणाध्यायः समाप्तः ॥ ६४॥

६५ अश्वलक्षणाध्यायः

दीर्घग्रीवाक्षिकूटस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णौष्ठपुच्छः । जङ्घाग्जानुऊरुवृत्तः समसितदशनश्चारुसंस्थानरूपो वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥ ६५.०१॥ अश्रुपातघनुगण्डहृद् गलप्रोथशङ्खकटिबस्तिजानुनि । (K.हृड्) मुष्कग्नाभिककुदे तथा गुदे सव्यकुक्षिचरणे तथा ॥ ६५.०२॥ (K.चरणेषु च) शुभाः(ऊऽशुभाः) ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास् ते ललाटसहिताः सुशोभनाः ॥ ६५.०३॥ तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्ताः । रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ ॥ ६५.०४॥ षष्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कशायैर्द्विवर्षैः सन्दंशैर्मध्यमान्त्यैः पति(K.ऊ।पतित)समुदितैस्त्र्यब्धि ग्पञ्चाब्दिकाश्वः । (K.त्र्यब्द) सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः काचा मक्षीक ग्शङ्खावटचलनमतो दन्तपातं च विद्धि ॥ ६५.०५॥ (K.माक्षीक) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां अश्वलक्षणाध्यायः समाप्तः ॥ ६५॥

६६ हस्तिलक्षणाध्यायः

मध्व्गाभदन्ताः सुविभक्तदेहा न चग्*उपदिग्धा न कृशाः क्षमाश्च । (K.दिग्धाश्च) गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥ ६६.०१॥ वक्षोऽथ कक्षाग्वलयः श्लथाश्च लम्बोदरस्त्वबृहती गलश्च । स्थूला च कुक्षिः सह पेचकेन सैंही च दृग्मन्दमतङ्गजस्य ॥ ६६.०२॥ मृगास्तु ह्रस्वाधरवालमेढ्रास् तन्व्गङ्घ्रि कण्ठद्विजहस्तकर्णाः । (K.तन्वंह्रि) स्थूलगीक्षणाश्चेति यथाउक्तचिह्नैः सङ्कीर्णग्नागा व्यतिमिश्रचिह्नाः ॥ ६६.०३॥ पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यं अष्टौ च हस्ताः परिणाहमानम् । एकद्विवृद्धावथ मन्दभद्रौ सङ्कीर्नग्नागोऽनियतप्रमाणः ॥ ६६.०४॥ भद्रस्य वर्णो हरितो *मदश्च (K.मदस्य) मन्दस्य हारिद्रकसन्निकाशः । कृष्णो मदश्चाभिहितो मृगस्य सङ्कीर्णग्नागस्य मदो विमिश्रः ॥ ६६.०५॥ ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः । चापोन्नतायतग्निगूढनिमग्नवंशास् तन्व्गेकरोमचितकूर्मसमानकुम्भाः ॥ ६६.०६॥ विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतद्विनवविंशतिभिर्नखैश्च । रेखाग्त्रयोपचितवृत्तकराः सुवाला धन्याः सुगन्धिग्मदपुष्करमारुताश्च ॥ ६६.०७॥ दीर्घाङ्गुलिग्रक्तपुष्कराः सजलाम्भोदनिनादबृंहिणः । बृहद्गायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः ॥ ६६.०८॥ निमर्द गभ्यधिकहीननखाङ्गान् (K.ऊंइर्मदा) कुब्जवामनकमेषविषाणान् । दृश्यकोशफलपुष्करहीनान् श्यावग्नीलशबलासिततालून् ॥ ६६.०९॥ स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीं च गजलक्षणयुक्ताम् । गर्भिणी च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते ॥ ६६.१०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां हस्तिलक्षणाध्यायः समाप्तः ॥ ६६॥

६७ पुरुषलक्षनाध्यायः

उन्मानमानगतिसंहतिसारवर्ण- स्नेहस्वरप्रकृतिसत्त्वमनूकं आदौ । क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य सामुद्रविद्वदति यातमनागतं वा ॥ ६७.०१॥ (K.च) अस्वेदनौ मृदुतलौ कमलोदराभौ श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी । उष्णौ शिराग्विरहितौ सुनिगूढगुल्फौ कूर्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥ ६७.०२॥ शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ संशुष्कौ विरलाङ्गुली च चरणौ दारिद्र्यदुःखप्रदौ । मार्गायोत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ (K.विच्छित्तिदौ) ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीताव्*अगम्यारतौ ॥ ६७.०३॥ (K.अगम्यरतौ) प्रविरलतनुरोमवृत्तजङ्घा द्विरदकरप्रतिमैर्वरऊरुभिश्च । उपचितसमजानवश्च भूपा धनग्रहिताः श्वश‍ृगालतुल्यजङ्घाः ॥ ६७.०४॥ रोमैकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् । त्र्य्गाद्यैर्निःस्वा मानवा दुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च ॥ ६७.०५॥ निर्मांसग्जानुर्म्रियते प्रवासे सौभाग्यमल्पैर्विकटैर्दरिद्राः । स्त्रीग्निर्जिताश्चैव भवन्ति निम्नै (K.चापि) राज्यं समांसैश्च महद्भिरायुः ॥ ६७.०६॥ लिङ्गेऽल्पे धनवान् अपत्यग्रहितः स्थूलेऽपि हीनो धनैर् (K.विहीनो) मेढ्रे वामनते सुतार्थग्रहितो वक्रेऽन्यथा पुत्रवान् । दारिद्र्यं विनते त्वधोऽल्पतनयो लिङ्गे शिरासन्तते स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ॥ ६७.०७॥ कोशग्निगूढैर्भूपा दीर्घैर्भग्नैश्च वित्तपरिहीनाः । ऋजुग्वृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥ ६७.०८॥ जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः । ह्रस्वायुश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः ॥ ६७.०९॥ रक्तैराढ्या मणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च । सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥ ६७.१०॥ द्विग्त्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः । पृथिवीग्पतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥ ६७.११॥ एकैव मूत्रधारा वलिता *रूपप्रदा न सुतदात्री । (K.रूपप्रधानसुतदात्री) स्निग्धोन्नतसममणयो धनवनितारत्नभोक्तारः ॥ ६७.१२॥ मणिभिश्च मध्यग्निम्नैः कन्यापितरो भवन्ति निःस्वाश्च । बहुग्पशुभाजो मध्योन्नतैश्च नात्युल्बणैर्धनिनः ॥ ६७.१३॥ परिशुष्कबस्तिशीर्षैर्धनरहिता दुर्भगाश्च विज्ञेयाः । कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ॥ ६७.१४॥ मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि । तनुग्शुक्रः स्त्रीजनको मांससगन्धो महाभोगी ॥ ६७.१५॥ मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः । शीघ्रं मैथुनगामी दीर्घायुरतोऽन्यथाल्पायुः ॥ ६७.१६॥ निःस्वोऽतिस्थूलस्फिक्समांसलस्फिक्सुखान्वितो भवति । व्याघ्रान्तोऽध्यर्धस्फिग्मण्डूकस्फिग्नराधिपतिः ॥ ६७.१७॥ सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः । समग्जठरा भोगयुता घटपिठरनिभोदरा निःस्वाः ॥ ६७.१८॥ अविकलपार्श्वा धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः । समकुक्षा भोगाढ्या निम्नाभिर्भोगपरिहीनाः ॥ ६७.१९॥ उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः । सर्पोदरा दरिद्रा भवन्ति बह्व्गाशिनश्चैव ॥ ६७.२०॥ परिमण्डलोन्नताभिर्विस्तीर्णाभिश्च नाभिभिः सुखिनः । अल्पा त्वदृश्यग्निम्ना नाभिः क्लेशावहा भवति ॥ ६७.२१॥ (K.स्वल्पा) वलिग्मध्यगता विषमा *शूलाद्बाधां(K.शूलाबाधं) करोति नैस्व्यं च । (K.नैःस्व्यं) शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥ ६७.२२॥ पार्श्वायता चिरायुषमुपरिष्टाच्चगीश्वरं गवाढ्यमधः । शतपत्रकर्णिकाआभा नाभिर्मनुजेश्वरं कुरुते ॥ ६७.२३॥ शस्त्रान्तं स्त्रीग्भोगिनमाचार्यं बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विन्द्याद्नृपं त्ववलिम् ॥ ६७.२४॥ विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः पापाः । ऋजुग्वलयः सुखभाजः परदारद्वेषिणश्चैव ॥ ६७.२५॥ मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिर्भूपाः । विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ॥ ६७.२६॥ सुभगा भवन्त्यनुद्वद्ध ग्चूचुका निर्धना विषमदीर्घैः । (K.अनुबद्ध) पीनोपचितग्निमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ॥ ६७.२७॥ हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम् । अधनानां विपरीतं खरग्रोमचितं शिरालं च ॥ ६७.२८॥ समवक्षसोऽर्थवन्तः पीनैः *शूरा ह्य् अकिञ्चनास्तनुभिः । (K.शूरास्त्व्) विषमं वक्षो येषां ते निःस्वाः शस्त्रग्निधनाश्च ॥ ६७.२९॥ विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिसन्धिपरिणद्धैः । उन्नतग्जत्रुर्भोगी निम्नैर्निःस्वोऽर्थवान् पीनैः ॥ ६७.३०॥ (K.भागी) चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा । महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ॥ ६७.३१॥ कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति । पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ॥ ६७.३२॥ अस्वेदनपीनोन्नतसुगन्ध समरोमसङ्कुलाः कक्षाः । (K.सुगन्धि) विज्ञातव्या धनिनामतोऽन्यथार्थैर्विहीनानाम् ॥ ६७.३३॥ निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ । विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ॥ ६७.३४॥ करिग्करसदृशौ वृत्तावाजान्ववलम्बिनौ समौ पीनौ । बाहू पृथिवीगीशानामधनानां रोमशौ ह्रस्वौ ॥ ६७.३५॥ (K.अधमानां) हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् । मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥ ६७.३६॥ स्थूलाभिर्धनग्रहिता बहिर्नताभिश्च शस्त्रनिर्याणाः । कपिग्सदृशकरा धनिनो व्याघ्रोपमपाणयः पापाः ॥ ६७.३७॥ मणिग्बन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः । हीनैर्हस्तग्च्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥ ६७.३८॥ पितृग्वित्तेन विहीना भवन्ति निम्नेन करतलेन नराः । संवृतग्निम्नैर्धनिनः प्रोत्तानकराश्च दातारः ॥ ६७.३९॥ विषमैर्विषमा निःस्वाश्च करतलैरीश्वराश् तु लाक्षाभैः । (K.ईश्वरास्) पीतैरगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥ ६७.४०॥ तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः । कुग्नखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥ ६७.४१॥ अङ्गुष्ठयवैराढ्याः सुतवन्तोऽङ्गुष्ठ*मूलजैश्च यवैः । (K.मूलगैश्च यवः) दीर्घाङ्गुलिग्पर्वाणः सुभगा दीर्घायुषश्चैव ॥ ६७.४२॥ स्निग्धा निम्ना रेखा धनिनां तद्ग्व्यत्ययेन निःस्वानाम् । विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घनाङ्गुलयः ॥ ६७.४३॥ तिस्रो रेखा मणिग्बन्धनोत्थिताः करतलोपगा नृपतेः । मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति ॥ ६७.४४॥ वज्राकारा धनिनां विद्याग्भाजां च मीनपुच्छनिभाः । शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः ॥ ६७.४५॥ कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति निधिपालाः । दामग्निभाभिश्चाढ्याः स्वस्तिकरूपाभिरैश्वर्यम् ॥ ६७.४६॥ चक्रासिग्परशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः । कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥ ६७.४७॥ मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः । वेदीग्निभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥ ६७.४८॥ वापीग्देवकुलाद्यैर्धर्मं कुरुवन्ति च त्रिकोणाभिः । अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः ॥ ६७.४९॥ रेखाः प्रदेशिनिगताः शतायुषं कल्पनीयमूनाभिः । (K.गाः) छिन्नाभिर्द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥ ६७.५०॥ अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः । विम्ब गुपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ॥ ६७.५१॥ (K.बिम्ब) ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः । स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ॥ ६७.५२॥ जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो ज्ञेया । (K.भोगिनां) श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ॥ ६७.५३॥ वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् । विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ॥ ६७.५४॥ स्त्रीग्मुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम् । दीर्घं निर्द्रव्याणां भीरुग्मुखाः पापकर्माणः ॥ ६७.५५॥ चतुरस्रं(K.चतुरश्रं) धूर्तानां निम्नं वक्रं च तनयग्रहितानाम् । (K.वक्त्रं) कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ॥ ६७.५६॥ अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव । रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः ॥ ६७.५७॥ निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः । कृपणाश्च ह्रस्वकर्णाः शङ्कुश्रवणाश्चमूपतयः ॥ ६७.५८॥ (K.च भूपतयः) रोमशकर्णा दीर्घायुषश्च धनभागिनो विपुलकर्णाः । (K.तु) क्रूराः शिरावनद्धैर्व्यालम्बैर्मांसलैः सुखिनः ॥ ६७.५९॥ भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः । सुखभाक्शुकसमनासश्चिरजीवी शुष्कनासश्च ॥ ६७.६०॥ छिन्नानुरूपयागम्यगामिनो दीर्घया तु सौभाग्यम् । आकुञ्चितया चौरः स्त्रीग्मृत्युः स्याच्चिपिटनासः ॥ ६७.६१॥ धनिनोऽग्रवक्रनासा दक्षिणविनताः प्रभक्षणाः क्रूराः । (K.वक्राः) ऋज्वी स्व्गल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ॥ ६७.६२॥ धनिनां क्षुतं सकृद्द्विग्त्रिपिण्डितं ह्लादि सानुनादं च । दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव ॥ ६७.६३॥ पद्मदलाभैर्धनिनो रक्तान्तविलोचनाः श्रियः भाजः । (K.विलोचनाः) मधुग्पिङ्गलैर्महार्था मार्जारविलोचनैः पापाः ॥ ६७.६४॥ हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः । क्रूराः केकरग्नेत्रा गजसदृश*विलोचनाश्चमूपतयः ॥ ६७.६५॥ (K.दृशश्च भूपतयः) ऐश्वर्यं गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः । अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवति ॥ ६७.६६॥ मन्त्रित्वं स्थूलदृशां *श्यावाक्षाणां भवति सौभाग्यम् । (K.श्यावाक्षाणां च) दीना दृग्निःस्वानां स्निग्धा विपुलार्थभोगवताम् ॥ ६७.६७॥ ह्युन्नताभिरल्पायुषो विशालोन्नताभिरतिसुखिनः । विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ॥ ६७.६८॥ दीर्घासंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः । मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥ ६७.६९॥ उन्नतविपुलैः शङ्खैर्धनिनो निम्नैः सुतार्थसन्त्यक्ताः । (K.धन्या) विषमललाटा विधना धनवन्तोऽर्धेन्दुसदृशेन ॥ ६७.७०॥ शुक्तिग्विशालैराचार्यता शिरासन्ततैरधर्मरताः । उन्नतशिराभिराढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥ ६७.७१॥ निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च । ह्युन्नतैश्चमूपाः(K.भूपाः) कृपणाः स्युः संवृत ग्ललाटाः ॥ ६७.७२॥ (K.सङ्कट) रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम् । रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ॥ ६७.७३॥ हसितं शुभदमकम्पं सग्निमीलितलोचनं तु पापस्य । दुष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥ ६७.७४॥ (K.हृष्टस्य) तिस्रो रेखाः शतग्जीविनां ललाटायताः स्थिता यदि ताः । चतसृभिरवनीशत्वं नवतिश्चायुः सपञ्चाब्दा ॥ ६७.७५॥ विच्छिन्नाभिश्चागम्यगामिनो नवतिरप्यरेखेण । केशान्तोपगताभी रेखाभिरशीतिग्वर्षायुः ॥ ६७.७६॥ पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः । बहुग्रेखेण शतार्धं चत्वारिंशच्च वक्राभिः ॥ ६७.७७॥ *भ्रूग्लग्नाभिस्त्रिंशद् विंशतिकश्चैव वामवक्राभिः । (K.त्रिम्शभ्रूलग्नाभिर्) क्षुद्राभिः स्व्गल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम् ॥ ६७.७८॥ परिमण्डलैर्गवाढ्याश्छत्राकारैः शिरोभिरवनीशाः । चिपिटैः पितृग्मातृघ्नाः करोटिशिरसां चिरान् मृत्युः ॥ ६७.७९॥ घटमूर्धाध्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः । निम्नं तु शिरो महतां बहुग्निम्नमनर्थदं भवति ॥ ६७.८०॥ एकैकभवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः । मृदुभिर्न चातिबहुभिः केशैः सुखभाग्नरेन्द्रो वा ॥ ६७.८१॥ बहुग्मूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च । अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तघीनानाम् ॥ ६७.८२॥ यद्यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च । तत् तदनिष्टं प्रोक्तं विपरीतमतः शुभं सर्वम् ॥ ६७.८३॥ त्रिषु विपुलो गम्भीरस्त्रिष्वेव षड्गुन्नतश्चतुर्ह्रस्वः । सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च ॥ ६७.८४॥ नाभी(K.नाभिः) स्वरः सत्त्वमिति प्रशस्तं (K.प्रदिष्टं) गम्भीरमेतत् त्रितयं नराणाम् । उरो ललाटं वदनं च पुंसां विस्तीर्णमेतत् त्रितयं प्रशस्तम् ॥ ६७.८५॥ वक्षोऽथ कक्षा नखग्नासिकाआस्यं कृकाटिका चेति षड्गुन्नतानि । ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्घे च हितप्रदानि ॥ ६७.८६॥ नेत्रान्तपादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि । सूक्ष्माणि पञ्च दशनाङ्गुलिग्पर्वकेशाः साकं त्वचा *कररुहा न च दुःखितानाम् ॥ ६७.८७॥ (K.कररुहाश्च न) हनुग्लोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्चमम् । इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम् ॥ ६७.८८॥ छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः । तेजोगुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थिताइव ॥ ६७.८९॥ स्निग्धद्विजत्वग्नखरोमकेशाश् (K.केश) छाया सुगन्धा च महीग्समुत्था । तुष्ट्य्गर्थलाभाभ्युदयान् करोति धर्मस्य चाहन्यहनि प्रवृत्तिम् ॥ ६७.९०॥ स्निग्धा सिताच्छघरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति । सर्वार्थसिद्धिजननी जननीइव चाप्या छाया फलं तनुग्भृतां शुभमादधाति ॥ ६७.९१॥ चण्डाधृष्या पद्मघेमाग्निवर्णा युक्ता तेजोग्विक्रमैः सप्रतापैः । आग्नेयीति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते ॥ ६७.९२॥ (K.धत्ते) मलिनपरुषकृष्णा पापगन्धानिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान् । स्फटिकसदृशरूपा भाग्ययुक्ताआत्युदारा निधिरिव गगनोत्था श्रेयसां स्व्गच्छवर्णा ॥ ६७.९३॥ छायाः क्रमेण कुग्जलाग्न्यनिलाम्बरोत्थाः के चिद्वदन्ति दश ताश्च यथानुपूर्व्या । सूर्याब्जनाभपुरुहूतयमोडुपानां तुल्यास्तु लक्षणफलैरिति तत् समासः ॥ ६७.९४॥ करिग्वृषरथौघभेरीमृदङ्गसिंहाभ्र निःस्वना भूपाः । (K.अब्द) गर्दभग्जर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥ ६७.९५॥ सप्त भवन्ति च सारा मेदोग्मज्जात्वगस्थिशुक्राणि । रुधिरं मांसं चेति प्राणभृतां तत् समासफलम् ॥ ६७.९६॥ ताल्व्गोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः । रक्ते तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥ ६७.९७॥ (K.रक्तैः) स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः । मज्जाग्मेदःसाराः सुशरीराः पुत्रवित्तयुताः ॥ ६७.९८॥ (K.युक्ताः) स्थूलास्थिरस्थिग्सारो बलवान् विद्यान्तगः सुरूपश्च । बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥ ६७.९९॥ उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः । सङ्घाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥ ६७.१००॥ स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः । सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ॥ ६७.१०१॥ द्युतिमान् वर्णस्निग्धः क्षितिपानां मध्यमः सुतार्थवताम् । (K.वर्णः स्निग्धः) रूक्षो धनघीनानां शुद्धः शुभदो न सङ्कीर्णः ॥ ६७.१०२॥ साध्यमनूकं वक्त्राद्गोग्वृषशार्दूलसिंहगरुडमुखाः । अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥ ६७.१०३॥ वानरमहिषवराहाजतुल्यवदनाः श्रुत अर्थसुखभाजः । (K.सुत) गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ॥ ६७.१०४॥ अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरिति पुंसाम् । (K.षणवतिः) उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन ॥ ६७.१०५॥ भारार्धतनुः सुखभाक्तुलितोऽतो दुःखभाग्भवत्यूनः । भारोऽतिवाढ्यानामध्यर्धः सर्वधरणीशः ॥ ६७.१०६॥ विंशतिग्वर्षा नारी पुरुषः खलु पञ्चविंशतिभिरब्दैः । अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥ ६७.१०७॥ भूग्जलशिख्यनिलाम्बरसुरनररक्षः पिशाचकतिरश्चाम् । सत्त्वेन भवति पुरुषो लक्षणमेतद्भवति तेषाम् ॥ ६७.१०८॥ (K.एषाम्) महीग्स्वभावः शुभपुष्पगन्धः सम्भोगवान् सुग्श्वसनः स्थिरश्च । तोयस्वभावो बहुतोयपायी प्रियाभिभाषी(K.अभिलाषी) रसभाजनश् च ॥ ६७.१०९॥ (K.भोजनश्) अग्निग्प्रकृत्या चपलोऽतितीक्ष्णश् चण्डः क्षुधालुर्बहुग्भोजनश्च । वायोः स्वभावेन चलः कृशश्च क्षिप्रं च कोपस्य वशं प्रयाति ॥ ६७.११०॥ खप्रकृतिर्निपुणो विवृतास्यः शब्दगतेः कुशलः सुशिराङ्गः । त्यागयुतः पुरुषो मृदुकोपः (K.त्यागयुतो) स्नेहग्रतश्च भवेत् सुरसत्त्वः ॥ ६७.१११॥ मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः । संविभागशीलवान् नित्यमेव मानवः ॥ ६७.११२॥ तीक्ष्णप्रकोपः खलचेष्टितश्च पापश्च सत्त्वेन निशाग्चराणाम् । पिशाचसत्त्वश्चपलो मलाक्तो बहुग्प्रलापी च समुल्बणाङ्गः ॥ ६७.११३॥ भीरुः क्षुधागालुर्बहुभुक्च यः स्याद् ज्ञेयश्च सत्त्वेन नरस्तिरश्चाम् । (K.स) एवं नराणां प्रकृतिः प्रदिष्टा यल्लक्षणग्ज्ञाः प्रवदन्ति सत्त्वम् ॥ ६७.११४॥ शार्दूलघंससमदद्विपगोपतीनां तुल्या भवन्ति गतिभिः शिखिनां च भूपाः । येषां च शब्दग्रहितं स्तिमितं च यातं तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥ ६७.११५॥ श्रान्तस्य यानमशनं च बुभुक्षितस्य पानं तृषाग्परिगतस्य भयेषु रक्षा । एतानि यस्य पुरुषस्य भवन्ति काले इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥ ६७.११६) पुरुषलक्षणमुक्तमिदं मया मुनिमतान्यवलोक्य समासतः । K.६८.११७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पुरुषलक्षनाध्यायः समाप्तः ॥ ६७॥

६८ पञ्चमनुष्यविभागाध्यायः

ताराग्रहैर्बलयुतैः स्वक्षेत्रस्वोच्चगैश्चतुष्टयगैः । पञ्च पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये ॥ ६८.०१॥ जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च । भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ॥ ६८.०२॥ सत्त्वमहीनं सूर्यात्ग्शारीरं मानसं च चन्द्रबलात् । यद्राशिग्भेदयुक्तावेतौ तल्लक्षणः स पुमान् ॥ ६८.०३॥ तद्ग्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः । अलग्रवीन्दुयुतैस्तैः सङ्कीर्णा लक्षणैः पुरुषाः ॥ ६८.०४॥ भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः । वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ॥ ६८.०५॥ सङ्कीर्णाः स्युर्न नृपा दशासु तेषां भवन्ति सुखभाजः । रिपुगृहनीचोच्चच्युतसत्पापनिरीक्षणैर्भेदाः ॥ ६८.०६॥ (K.भेदः) षङ्ग्णवतिरङ्गुलानां व्यायामो दीर्घता च हंसस्य । शशग्रुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या ॥ ६८.०७॥ यः सात्त्विकस्तस्य दया स्थिरत्वं सत्त्वार्जवं ब्राह्मणदेवभक्तिः । रजोऽधिकः काव्यकलाक्रतुस्त्री- संसक्तग्चित्तः पुरुषोऽतिशूरः ॥ ६८.०८॥ तमोऽधिको वञ्चयिता परेषां मूर्खोऽलसः क्रोधपरोऽतिनिद्रः । मिश्रैर्गुणैः सत्त्वग्रजस्तमोभिर् मिश्रास्तु ते सप्त सह प्रभेदैः ॥ ६८.०९॥ मालव्यो *नागग्नासः समभुज युगलो जानुसंप्राप्तहस्तो (K.नागनाससमभुज) मांसैः पूर्णाङ्गसन्धिः समरुचिरतनुर्मध्यभागे कृशश्च । पञ्चाष्टौ चगूर्ध्वमास्यं श्रुतिविवरमपि त्र्यङ्गुलऊनं च तिर्यग् दीप्ताक्षं सत्ग्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥ ६८.१०॥ मालवान् स भरुकच्छसुराष्ट्रान् लाटसिन्धुविषयप्रभृतींश्च । विक्रमार्जितधनोऽवति राजा पारियात्रग्निलयान् कृतबुद्धिः ॥ ६८.११॥ (K.निलयः) सप्ततिग्वर्षो मालव्योऽयं त्यक्ष्यति सम्यक्प्राणांस्तीर्थे । लक्षणमेतत् सम्यक्प्रोक्तं शेषग्नराणां चातो वक्ष्ये ॥ ६८.१२॥ उपचितसमवृत्तलम्बबाहुर् भुजयुगलप्रमितः समुच्छ्रयोऽस्य । मृदुग्तनुघनरोमनद्धगण्डो भवति नरः खलु लक्षणेन भद्रः ॥ ६८.१३॥ त्वक्ग्शुक्रसारः पृथुपीनवक्षाः सत्त्वाधिको व्याघ्रमुखः स्थिरश्च । क्षमान्वितो धर्मपरः कृतज्ञो गजेन्द्रगामी बहुशास्त्रवेत्ता ॥ ६८.१४॥ प्राज्ञो वपुष्मान् सुग्ललाटशङ्खः कलास्वभिज्ञो धृतिमान् सुग्कुक्षिः । सरोजगर्भद्युतिपाणिपादो योगी सुनासः समसंहतभ्रूः ॥ ६८.१५॥ नवाम्बुग्सिक्तावनिपत्रकुङ्कुम- द्विपेन्द्रदानागुरुतुल्यगन्धता । शिरोग्रुहाश्चैकजकृष्णकुञ्चितास् तुरङ्गग्नागोपमगुह्यगूढता ॥ ६८.१६॥ (K.गूढगुह्यता) हलमुशलगदासिशङ्खचक्र- द्विपमकराब्जरथाङ्किताङ्घ्रि हस्तः । (K.अन्ह्रि) विभवमपि जनोऽस्य बोभुजीगिति क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥ ६८.१७॥ अङ्गुलानि नवतिश्च षड्गूनान्य् उच्छ्रयेण तुलयापि हि भारः । मध्यदेशनृपतिर्यदि पुष्टाश् त्र्य्गादयोऽस्य सकलावनिनाथः ॥ ६८.१८॥ भुक्त्वा सम्यवसुधां शौर्येणोपार्जितामशीत्यब्दः । तीर्थे प्राणांस्त्यक्त्वा भद्रो देवालयं याति ॥ ६८.१९॥ ईषद्ग्दन्तुरकस्तनुद्विजनखः कोशईक्षणः शीघ्रगो विद्याग्धातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः । सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः शूरो मातृहितो वनाचलग्नदीदुर्गेषु सक्तः शशः ॥ ६८.२०॥ दीर्घोऽङ्गुलानां शतमष्टघीनं साशङ्कग्चेष्टः पररन्ध्रविच्च । सारोऽस्य मज्जा निभृतप्रचारः शशो ह्यतो नातिगुरुः प्रदिष्टः ॥ ६८.२१॥ (K.अयं) मध्ये कृशः खेटकखड्गवीणा पर्यङ्कमालामुरजानुरूपाः । शूलोपमाश्चगूर्ध्वगताश्च रेखाः शशस्य पादोपगताः करे वा ॥ ६८.२२॥ प्रात्यन्तिको माण्डलिकोऽथ वायं स्फिक्ग्स्रावशूलाभिभवार्तमूर्तिः । एवं शशः सप्ततिघायनोऽयं वैवस्वतस्यालयमभ्युपैति ॥ ६८.२३॥ रक्तं पीनकपोलमुन्नतनसं वक्त्रं सुवर्णोपमं वृत्तं चास्य शिरोऽक्षिणी मधुग्निभे सर्वे च रक्ता नखाः । स्रग्दामाङ्कुशशङ्खमत्स्ययुगलक्रत्वङ्गकुम्भाम्बुजैश् चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नेन्द्रियः ॥ ६८.२४॥ रतिरम्भसि शुक्रसारता द्विगुणा चाष्टशतैः पलैर्मितिः । परिमाणमथास्य षड्ग्युता नवतिः सम्परिकीर्तिता बुधैः ॥ ६८.२५॥ भुनक्ति हंसः खसशूरसेनान् गान्धारगङ्गायामुनान्तरालम् । शतं दशगूनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ॥ ६८.२६॥ सुग्भ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घास्यः । शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ॥ ६८.२७॥ यन्मात्रमास्यं रुचकस्य दीर्घं मध्यप्रदेशे चतुरस्रता सा । (K.चतुरश्रता) तनुग्च्छविः शोणितमांससारो हन्ता द्विषां साहससिद्धकार्यः ॥ ६८.२८॥ खट्वाङ्गवीणावृषचापवज्र- शक्तीन्द्रशूलाङ्कितपाणिपादः । भक्तो गुरुग्ब्राह्मणदेवतानां शताङ्गुलः स्यात् *तु सहस्रमानः ॥ ६८.२९॥ (K.तुलया सहस्रम्) मन्त्राभिचारकुशलः कृशजानुजङ्घो विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा । संप्राप्य सप्ततिग्समा रुचको नरेन्द्रः शस्त्रेण मृत्युमुपयात्यथ वाऽनलेन ॥ ६८.३०॥ पञ्चापरे वामनको जघन्यः कुब्जोऽथ वा मण्डलकोऽथ साची । (K.समी) पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञः श‍ृणु लक्षणैस्तान् ॥ ६८.३१॥ (K.संज्ञाः) सम्पूर्णाङ्गो वामनो भग्नपृष्ठः किञ्चिच्चगूरूमध्यकक्ष्य अन्तरेषु । (K.कक्ष) ख्यातो राज्ञां ह्येष भद्रानुजीवी स्फीटो राजा वासुदेवस्य भक्तः ॥ ६८.३२॥ (K.दाता) मालव्यसेवी तु जघन्यनामा खण्डेन्दुग्तुल्यश्रवणः सुसन्धिः । शुक्रेण सारः पिशुनः कविश्च रूक्षग्च्छविः स्थूलकराङ्गुलीकः ॥ ६८.३३॥ क्रूरो धनी स्थूलमतिः प्रतीतस् ताम्रग्च्छविः स्यात् परिहासशीलः । उरोऽङ्घ्रि घस्तेष्वसिशक्तिपाश- (K.अन्ह्रि) परश्वधग्*अङ्कः स जघन्यनामा ॥ ६८.३४॥ (K.अङ्कश्च) कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात् क्षीणः किञ् चित् पूर्वकाये नतश्च । हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतग्ज्ञः ॥ ६८.३५॥ कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृत्यः प्रमदाजितश्च । सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च ॥ ६८.३६॥ *मण्डलकक्षणमतो रुचकानुचरोऽभिचारवित् कुशलः । (K.मण्डलकनामधेयो। ऊंअण्डलकलक्षणमतो) कृत्याग्वेताल आदिषु कर्मसु विद्यासु चानुरतः ॥ ६८.३७॥ (K.वैताल) वृद्धाकारः खरग्*परुषमूर्धजश् च शत्रुनाशने कुशलः । (K.रूक्षमूर्धजश्) द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ॥ ६८.३८॥ साचीगिति यः सोऽतिविरूपदेहः (K.सामीति) शशानुगामी खलु दुर्भगश्च । दाता महारम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः ॥ ६८.३९॥ पुरुषलक्षणमुक्तमिदं मया मुनिग्मतानि निरीक्ष्य समासतः । इदमधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ॥ ६८.४०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पञ्चमनुष्यविभागाध्यायः समाप्तः ॥ ६८॥

६९ कन्यालक्षणाध्यायः

स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितग्चारुनिगूढगुल्फौ । श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास् तामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥ ६९.०१॥ मत्स्याङ्कुशाब्जयववज्रहलासिचिह्न- अवस्वेदनौ मृदुग्तलौ चरणौ प्रशस्तौ । जङ्घे च रोमग्रहिते विशिरे सुवृत्ते जानुग्द्वयं सममनुल्बणसन्धिदेशम् ॥ ६९.०२॥ ऊरू घनौ करिकरप्रतिमावरोमाव् अश्वत्थपत्रसदृशं विपुलं च गुह्यम् । श्रोणीग्ललाटमुरुकूर्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमादधाति ॥ ६९.०३॥ विस्तीर्णमांसोपचितो नितम्बः गुरुश्च धत्ते रशना ग्कलापम् । (K.रसना) नाभिर्गभीरा विपुलाङ्गानां (K.गम्भीरा) प्रदक्षिणावर्तगता *च शस्ता ॥ ६९.०४॥ (K.प्रशस्ता) मध्यं स्त्रियास्त्रिग्वलिनाथमरोमशं च वृत्तौ घनावविषमौ कठिनावुरस्यौ । रोमप्रवर्जितम् उरो मृदु चाङ्गनानां (K.अपवर्जितम्) ग्रीवा च कम्बुग्निचितार्थसुखानि दत्ते ॥ ६९.०५॥ (K.धत्ते) बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिम्बरूपभृत् । कुन्दकुड्मलनिभाः समा द्विजा योषितां पतिसुखामितार्थदाः ॥ ६९.०६॥ दाक्षिण्ययुक्तमशठं परपुष्टहंस- वल्गु प्रभाषितमदीनमनल्पसौख्यम् । नासा समा समपुटा रुचिरा प्रशस्ता दृग्नीलनीरजदलद्युतिहारिणी च ॥ ६९.०७॥ नो सङ्गते नातिपृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्रे । अर्धेन्दुग्संस्थानमरोमशं च शस्तं ललाटं न नतं न तुङ्गम् ॥ ६९.०८॥ कर्णयुग्ममपि युक्तमांसलं शस्यते म्र्दु *समाहितं समम् । (K.समं समाहितम्) स्निग्धग्नीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः समं शिरः ॥ ६९.०९॥ भृङ्गारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभिर् मालाग्कुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः । मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः पादे पाणिग्तलेऽथ वा युवतयो गच्छन्ति राज्ञीपदम् ॥ ६९.१०॥ (K.अपि वा) निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ करौ नृपतिग्*योषितस् तनुविकृष्टपर्वाङ्गुली । (K.योषितां) न निम्नमति नोन्नतं करतलं सुरेखान्वितं करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम् ॥ ६९.११॥ मध्याङ्गुलिं या मणिबन्धनोत्था रेखा गता पाणिग्तलेऽङ्गनायाः । ऊर्ध्वस्थिता पादतलेऽथ वा या पुंसोऽथ वा राज्यसुखाय सा स्यात् ॥ ६९.१२॥ कनिष्ठिकाग्मूलभवा गता या प्रदेशिनीग्मध्यमिकान्तरालम् । करोति रेखा परमायुषः सा प्रमाणमूना तु तदूनमायुः ॥ ६९.१३॥ अङ्गुष्टमूले प्रसवस्य रेखाः पुत्रा बृहत्यः प्रमदास्तु तन्व्यः । अच्छिन्नमध्या(K.दीर्घा) बृहदायुषस् ताः (K.बृहदायुषां) स्वल्पायुषां छिन्नलघुप्रमाणाः ॥ ६९.१४॥ इतीदमुक्तं शुभमङ्गनानां अतो विपर्यस्तमनिष्टमुक्तम् । विशेषतोऽनिष्टफलानि यानि समासतस्तान्यनुकीर्तयामि ॥ ६९.१५॥ कनिष्ठिका वा तद्गनन्तरा वा महीं न यस्याः श्पृशति स्त्रियाः स्यात् । गताथ वाङ्गुष्ठमतीत्य यस्याः प्रदेशिनी सा कुलटाऽतिपापा ॥ ६९.१६॥ उद्बद्धाभ्यां पिण्डिकाभ्यां शिराले शुष्के जङ्घे लोमशे चातिमांसे (K.ऊ।रोमशे) वामावर्तं निम्नमल्पं च गुह्यं कुम्भाकारं चोदरं दुःखितानाम् ॥ ६९.१७॥ ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः । ग्रीवया पृथूत्थया योषितः प्रचण्डता ॥ ६९.१८॥ नेत्रे यस्याः केकरे पिङ्गले वा सा दुःशीला श्यावलोलईक्षणा च । कूपौ यस्या गण्डयोश्च स्मितेषु निःसन्दिग्धं बन्धकीं तां वदन्ति ॥ ६९.१९॥ प्रविलम्बिनि देवरं ललाटे श्वशुरं हन्त्युदरे स्फिजोः पतिं च । अतिरोमग्चयान्वितोत्तरौष्ठी न शुभा भर्तुरतीव या च दीर्घा ॥ ६९.२०॥ स्तनौ सरोमौ मलिनोल्बणौ च क्लेशं दधाते विषमौ च कर्णौ । स्थूलाः कराला विषमाश्च दन्ताः क्लेशाय चौर्याय च कृष्णमांसाः ॥ ६९.२१॥ क्रव्यादग्रूपैर्वृककाककङ्क- सरीसृपोलूकसमानचिह्नैः शुष्कैः शिरालैर्विषमैश्च हस्तैर् भवन्ति नार्यः सुखवित्तहीनाः ॥ ६९.२२॥ या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति ॥ ६९.२३॥ पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं तु सग्जानुचक्रे । मेढ्रगूरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चैव चतुर्थमाहुः ॥ ६९.२४॥ (K.च इति) उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतस्स्तनान्वितम् । अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥ ६९.२५॥ नवमं नयने च सभ्रुणी सललाटं दशमं शिरस्तथा । अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम् ॥ ६९.२६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कन्यालक्षणाध्यायः समाप्तः ॥ ६९॥

७० वस्त्रच्छेदलक्षणाध्यायः

प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी । प्रदह्यतेऽग्निदैवते प्रजेस्वरेऽर्थसिद्धयः ॥ ७०.०१॥ मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे । पुनर्वसौ शुभागमस्तद्गग्रभे धनैर्युतिः ॥ ७०.०२॥ भुजङ्गभे विलुप्यते मघासु मृत्युमादिशेत् । भगाह्वये नृपाद्भयं धनागमाय चोत्तरा ॥ ७०.०३॥ करेण कर्मसिद्धयः शुभागमस्तु चित्रया । शुभं च भोज्यमानिले द्विग्दैवते जनप्रियः ॥ ७०.०४॥ सुहूद्युतिश्(K.ऊ।सुहृद्युतिश्) च मित्रभे तद्गग्रभे ऽम्बरक्षयः । (K.पुरन्दरे) जलप्लुतिश्च नैरृते रुजो जलाधिदैवते ॥ ७०.०५॥ मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता । धान्यलब्धिर्(K.लब्धिम्) अपि(K.अथ) वासवे विदुर्वारुणे विषकृतं महद्भयम् ॥ ७०.०६॥ (K.विश्वदैवते) भद्रपदासु भयं सलिलोत्थं तत् परतश्च भवेत् सुतलब्धिः । रत्नयुतिं कथयन्ति च पौष्णे तेषु गुणै रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात् ॥ ७०.०७ ) विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावभिलब्धम् । K.७१.१३॥ भोक्तुं नवाम्बरं शस्तं ऋक्षेऽपि गुणवर्जिते । विवाहे राजसम्माने ब्रह्मणाणां च सम्मते ॥ ७०.०८॥ वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये । शेषास्त्रयश्चात्र निशाचरांशास्तथैव शय्यागासनपादुकासु ॥ ७०.०९॥ लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदधे स्फुटिते च विन्द्यात् । पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥ ७०.१०॥ रुग्राक्षसांशेस्वथ वाऽपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥ ७०.११॥ कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः । छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ७०.१२॥ छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः । छेदाकृतिर्नैरृतभागगापि पुंसां विधत्ते न चिरेण लक्ष्मीम् ॥ ७०.१३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वस्त्रच्छेदलक्षणाध्यायः समाप्तः ॥ ७०॥

७१ चामरलक्षणाध्यायः

देवैश्चमर्यः किल वालघेतोः सृष्टा हिमक्ष्माधरकन्दरेषु । आपीतवर्णाश्च भवन्ति तासां कृष्णाश्च लाङ्गूलभवाः सिताश्च ॥ ७१.०१॥ स्नेहो मृदुत्वं बहुग्वालता (K.वालता च) वैशद्यमल्पास्थिग्निबन्धनत्वम् । शौक्ल्यं च तासां गुणसम्पदुक्ता (K.तेषां) विद्धाल्पलुप्तानि न शोभनानि ॥ ७१.०२॥ अध्यर्धघस्तप्रमितोऽस्य दण्डो हस्तोऽथ वारत्निग्समोऽथ वान्यः । काष्ठात्ग्शुभात् काञ्चनरूप्यगुप्ताद् रत्नैश्*च सर्वैश् च हिताय राज्ञाम् ॥ ७१.०३॥ (K.विचित्रैश्) यष्ट्य्गातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम् । व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥ ७१.०४॥ मातृग्भूधनकुलक्षयावहा रोगमृत्युजननाश्च पर्वभिः । द्व्य्गादिभिर्द्विकविवर्धितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ॥ ७१.०५॥ यात्राग्प्रसिद्धिर्द्विषतां विनाशो लाभाः प्रभूता वसुधागमश्च । (K.प्रभूतो) वृद्धिः पशूनामभिवञ्छिताप्तिस् त्र्य्गाद्येष्वयुग्मेषु तदीश्वराणाम् ॥ ७१.०६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां चामरलक्षणाध्यायः समाप्तः ॥ ७१॥

७२ छत्रलक्षणाध्यायः

निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां वा । (K.स्त्र्। नु) दौकूल्येन नवेन तु समन्ततश्छादितं शुक्लम् ॥ ७२.०१॥ (K.दौकूलेन) मुक्ताफलैरुपचितं प्रलम्बमालाआविलं स्फटिकमूलम् । षड्ग्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु ॥ ७२.०२॥ दण्डार्धविस्तृतं तत् समावृतं रत्नभूषितम् उदग्रम् । (K.रत्नविभूषितम्, K.स्त्र्। रत्नभूषितम्) नृपतेस्तद्गातपत्रं कल्याणपरं विजयदं च ॥ ७२.०३॥ युवराजग्नृपतिपत्न्योः सेनापतिदण्डनायकानां च । दण्डोऽर्धपञ्चहस्तः समपञ्च*कृतोऽर्ध विस्तारः ॥ ७२.०४॥ (K.कृतार्ध) अन्येषामुष्णघ्नं प्रसादपट्टैर्विभूषितशिरस्कम् । व्यालम्बिग्रत्नमालं छत्रं कार्यं तु मायूरम् ॥ ७२.०५॥ (K.च) अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रम् । (K.चतुरश्रम्) समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ॥ ७२.०६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां छत्रलक्षणाध्यायः समाप्तः ॥ ७२॥

७३ स्त्रीप्रशम्साध्यायः

जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः । तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारः ॥ ७३.०१॥ रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । चेतो विनता हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गम् ॥ ७३.०२॥ (K.सङ्गात्) आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाआकुलम् । मन्त्रिग्प्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो (K.निसेविणाम्, K.स्त्र्। निषेविनाम्) धुःखाम्भोग्निधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ॥ ७३.०३॥ श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादग्जननं न रत्नं स्त्रीभ्योऽन्यत् क्व चिदपि कृतं लोकपतिना । तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ७३.०४॥ येऽप्यङ्गनानां प्रवदन्ति दोषान् वैराग्यमार्गेण गुणान् विहाय । ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥ ७३.०५॥ प्रब्रूत सत्यं करतोऽङ्गनानां दोषोऽस्ति यो नाचरितो मनुष्यैः । धार्ष्ट्येन पुम्भिः प्रमदा निरस्ता गुणाधिकास्ता मनुनात्र चोक्तम् ॥ ७३.०६॥ सोमस्तासामदात्ग्शौचं गन्धर्वः शिक्षितां गिरम् । (K.गन्धर्वाः) अग्निश्च सर्वभक्षित्वं तस्मान् निष्कसमाः स्त्रियः ॥ ७३.०७॥ ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः । अजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥ ७३.०८॥ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हि चित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ७३.०९॥ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याघतानीव विनश्यन्ति समन्ततः ॥ ७३.१०॥ जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम् । हे कृतघ्नाश्तयोर्निन्दां कुर्वतां वः कुतः शुभम् ॥ ७३.११॥ दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः । नरा न समवेक्षन्ते तेनात्र वरमङ्गनाः ॥ ७३.१२॥ बहिर्लोम्ना तु षण्मासान् वेष्टितः खरग्चर्मणा । दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥ ७३.१३॥ न शतेनापि वर्षाणामपैति मदनाशयः । तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः ॥ ७३.१४॥ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः । मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ॥ ७३.१५॥ पुरुषश्चटुलानि कामिनीनां (K.चातुलानि, K.स्त्र्। चटुलानि) कुरुते यानि रहो न तानि पश्चात् । सुकृतज्ञतयाङ्गना गतासून् अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥ ७३.१६॥ स्त्रीरत्नभोगोऽस्ति नरस्य यस्य निःस्वोऽपि *साम्प्रत्यवनीस्वरो ऽसौ । (K.स्वं प्रत्यवनीस्वरो, K.स्त्र्। मां प्रत्यव) राज्यस्य सारोऽशनमङ्गनाश्च तृष्णानलोद्दीपनदारु शेषम् ॥ ७३.१७॥ कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् । उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥ ७३.१८॥ तत्र देवमुनिसिद्धचारणैर् मान्यमानपितृसेव्यसेवनात् । ब्रूत धातृभवनेऽस्ति किं सुखं यद्रहः समवलम्ब्य न स्त्रियम् ॥ ७३.१९॥ आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेण जगत् समस्तम् । व्रीडात्र का यत्र चतुर्मुखत्वं ईशोऽपि लोभाद्गमितो युवत्याः ॥ ७३.२०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्त्रीप्रशम्साध्यायः समाप्तः ॥ ७३॥

७४ सौभाग्यकरणाध्यायः

जात्यं मनोभवसुखं सुभगस्य सर्वं आभासमात्रमितरस्य मनोवियोगात् । चित्तेन भावयति दूरगतापि यं स्त्री गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ॥ ७४.०१॥ भङ्क्त्वा काण्डं पादपस्योप्तमुर्व्यां बीजं वास्यां नान्यतामेति यद्वत् । एवं ह्यात्मा जायते स्त्रीषु भूयः कश्चित् तस्मिन् क्षेत्रयोगाद्विशेषः ॥ ७४.०२॥ आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥ ७४.०३॥ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् । यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ॥ ७४.०४॥ दाक्षिण्यमेकं सुभगत्वघेतुर्विद्वेषणं तद्विपरीतचेष्टा । मन्त्रौषधाद्यैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म ॥ ७४.०५॥ वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयतेऽभिमानः । कृच्छ्रेण संसाधयतेऽभिमानी कार्याण्ययत्नेन वदन् प्रियाणि ॥ ७४.०६॥ तेजो न तद्यत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् । कार्यस्य गत्व?गन्तमनुद्धता ये तेजस्विनस्ते न विकत्थना ये ॥ ७४.०७॥ यः सार्वजन्यं सुभगत्वमिच्छेद्गुणान् स सर्वस्य वदेत् परोक्षम् । (K.परोक्षे) प्राप्नोति दोषान् असतोऽप्यनेकान् परस्य यो दोषकथां करोति ॥ ७४.०८॥ सर्वोपकारानुगतस्य लोकः सर्वोपकारानुगतो नरस्य । कृत्वागुपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन ॥ ७४.०९॥ तृणैरिवाग्निः सुतरां विवृद्धिमाछाद्यमानोऽपि गुणोऽभ्युपैति । स केवलं दुर्जनभावमेति हन्तुं गुणान् वाञ्छति यः परस्य ॥ ७४.१०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सौभाग्यकरणाध्यायः समाप्तः ॥ ७४॥

७५ कान्दर्पिकाध्यायः

रक्तेऽधिके स्त्री पुरुषस्तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये । यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ॥ ७५.०१॥ हर्म्यपृष्ठमुडुनाथरश्मयः सोत्पलं मधु मदालसा प्रिया । वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ॥ ७५.०२॥ माक्षीकधातुग्मधुपारदलोहचूर्ण- पथ्याग्शिलाजतु*घृतानि समानि योऽद्यात् । (K.विडङ्गघृतानि) सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यबलां युवागिव ॥ ७५.०३॥ क्षीरं श‍ृतं यः कपिकच्छुग्मूलैः पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति । माषान् पयःसर्पिषि वा विपक्वान् षड्ग्रासमात्रांश्च पयोऽनुपानम् ॥ ७५.०४॥ (K.अनुपानान्) विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर्भावितशोषितं च । श‍ृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः ॥ ७५.०५॥ धात्रीफलानां स्वरसेन चूर्णं सुभावितं क्षौद्रसिताज्ययुक्तम् । लीढ्वानु पीत्वा च पयोऽग्निशक्त्या कामं निकामं पुरुषो निषेवेत् ॥ ७५.०६॥ क्षीरेण बस्ताण्ड युजा श‍ृतेन सम्प्लाव्य कामी बहुशस्तिलान् यः । सुशोषितान् अत्ति *पयः पिबेच् च (K.पिबेत् पयश्) तस्याग्रतः किं चटकः करोति ॥ ७५.०७॥ माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः । क्षीरमप्यनु पिबन्ति तासु ते शर्वरीषु मदनेन शेरते ॥ ७५.०८॥ (K.मदने न) तिलाश्वगन्धाग्कपिकच्छुमूलैर् विदारिकाग्षष्टिकपिष्टयोगः । आजेन पिष्टः पयसा घृतेन पक्वं भवेत्ग्शष्कुलिकातिवृष्या ॥ ७५.०९॥ (K.पक्त्वा) क्षीरेण वा गोक्षुरकोपयोगं विदारिकाग्कन्दकभक्षणं वा । कुर्वन् न सीदेद्यदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥ ७५.१०॥ साजमोदलवणा हरीतकी श‍ृङ्गवेरसहिता च पिप्पली । मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥ ७५.११॥ अत्यम्लतिक्तलवणानि कटूनि वात्ति *यः क्षारशाकबहुलानि च भोजनानि । (K.क्षारशाकबहुलानि) दृक्ग्शुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्न् इव युवाऽप्यबलामवाप्य ॥ ७५.१२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कान्दर्पिकाध्यायः समाप्तः ॥ ७५॥

७६ गन्धयुक्त्यध्यायः

स्रगन्धधूपाम्बरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य । यस्मादतो मूर्धजग्रागसेवां कुर्याद्यथैवाञ्जनभूषणानाम् ॥ ७६.०१॥ लौहे पात्रे तण्डुलान् कोद्रवाणां शुक्ले पक्वांल्लोहचूर्णेन साकम् । पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे दत्वा(K.दत्त्वा) तिष्ठेद्वेष्टयित्वागार्द्र पत्रैः ॥ ७६.०२॥ (K.अर्क) याते द्वितीये प्रहरे विहाय दद्यात्ग्शिरस्यामलकप्रलेपम् । सञ्छाद्य पत्रैः प्रहरद्वयेन प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् ॥ ७६.०३॥ पश्चात्ग्शिरःस्नानसुगन्धतैलैर् लोहाम्लगन्धं शिरसोऽपनीय । हृद्यैश्च गन्धैर्विविधैश्च धूपैर् अन्तःपुरे राज्यसुखं निषेवेत् ॥ ७६.०४॥ त्वक्ग्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः । केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ॥ ७६.०५॥ मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः । तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धि तैलम् ॥ ७६.०६॥ तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः सव्यामो बकुलोऽयमेव कटुकाघिङ्गुप्रधूपान्वितः । कुष्ठेनोत्पलगन्धिकः समलयः पूर्वो भवेच्चम्पको जातीग्त्वक्सहितोऽतिमुक्तक इति ज्ञेयः सकुस्तुम्बुरुः ॥ ७६.०७॥ शतपुष्पाग्कुन्दुरुकौ पादेनार्धेन नखतुरुष्कौ च । मलयप्रियङ्गु*भागौ गन्धो धूप्यो गुडनखेन ॥ ७६.०८॥ (K.स्त्र्। भागो) गुगुलुग्बालक लाक्षामुस्तानखशर्कराः क्रमाद्धूपः । (K.वालक) अन्यो मांसीग्बालक तुरुष्कनखचन्दनैः पिण्डः ॥ ७६.०९॥ (K.वालक) हरीतकीग्शङ्खघनद्रवाम्बुभिर् गुडोत्पलैः शैलकमुस्तकान्वितैः । नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो मनोहराः ॥ ७६.१०॥ भागैश्चतुर्भिः सितशैल(ऊ।शैलेय)मुस्ताः श्रीग्सर्जभागौ नखगुगुलू च । कर्पूरबोधो मधुपिण्डितोऽयं कोपच्छदो नाम नरेन्द्रधूपः ॥ ७६.११॥ त्वगुशीरपत्रभागैः सूक्ष्मैलार्धेन संयुतैश्चूर्णः । पुटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥ ७६.१२॥ (K.पटवासः) घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि । व्याघ्रनखस्पृक्कागुरु*दमनक(ऊंअदनक)नखतगरधान्यानि ॥ ७६.१३॥ कर्पूर(क्'स्त्र्। कर्चूर)ग्चोल मलयैः स्वेच्छापरिवर्तितैश्चतुर्भिरतः । (K.चोर) एकद्वित्रिचतुर्भिर्भागैर्गन्धार्णवो भवति ॥ ७६.१४॥ अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम् । कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौ ॥ ७६.१५॥ श्रीग्सर्जगुडनखैस्ते धूपयितव्याः क्रमान् न पिण्डस्थैः । बोधः कस्तूरिकया देयः कर्पूरसंयुतया ॥ ७६.१६॥ अत्र सहस्रग्चतुष्टयमन्यानि च सप्ततिसहस्राणि । लक्षं शतानि सप्त विंशतिग्युक्तानि गन्धानाम् ॥ ७६.१७॥ एकैकमेकभागं द्विग्त्रिचतुर्भागिकैर्युतं द्रव्यैः । षड्गन्धकरं तद्वद्द्वित्रिचतुर्भागिकं कुरुते ॥ ७६.१८॥ द्रव्यग्चतुष्टययोगाद्गन्धचतुर्विंशतिर्यथाएकस्य । एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ॥ ७६.१९॥ षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् । अष्टादश जायन्ते शतानि सहितानि विंशत्या ॥ ७६.२०॥ षण्णवतिग्भेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात् । षण्णनवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम् ॥ ७६.२१॥ पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम् । इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः ॥ ७६.२२॥ द्विग्त्रीन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः ॥ ७६.२३॥ स्पृक्काग्त्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः । सप्तगृतुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः ॥ ७६.२४॥ षोडशके कच्छपुटे यथा तथा *मिश्रिते चतुर्द्रव्ये । (K.मिश्रितैश्चतुर्द्रव्यैः) येऽत्राष्टादश भागास्तेऽस्मिन् गन्धादयो योगाः ॥ ७६.२५॥ नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतोब्दोधाः(ऊ।उद्बोधाः) । गुडग्नखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ॥ ७६.२६॥ जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः । बहवोऽत्र पारिजाताश्चतुर्भिरिच्छापरिगृहीतैः ॥ ७६.२७॥ सर्जग्रसश्रीवासकसमन्विता येऽत्र सर्वधूपास् तैः । (K.सर्वयोगास्) श्रीग्सर्जरसवियुक्तैः स्नानानि सबालक त्वभिः ॥ ७६.२८॥ (K.सवालक) रोध्रोशीरग्नतागुरु*मुस्तापत्र प्रियङ्गुवनपथ्याः । (K.मुस्ता) नवकोष्ठात् कच्छपुटाद्द्रव्यत्रितयं समुद्धृत्य ॥ ७६.२९॥ चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा । कटुघिङ्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥ ७६.३०॥ सप्ताहं गोमूत्रे हरीतकीग्चूर्णसंयुते क्षिप्त्वा । गन्धोदके च भूयो विनिक्षिपेद्दन्तकाष्ठानि ॥ ७६.३१॥ एलाग्त्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च । गन्धाम्भः कर्तव्यं किञ् चित् कालं स्थितान्यस्मिन् ॥ ७६.३२॥ जातीफलपत्रैलाकर्पूरैः कृतयमैकशिखिभागैः । अवचूर्नितानि भानोर्मरीचिभिः शोषणीयानि ॥ ७६.३३॥ वर्णप्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च । संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्भवानाम् ॥ ७६.३४॥ कामं प्रदीपयति रूपमभिव्यनक्ति सौभाग्यमावहति वक्त्रसुगन्धितां च । ऊर्जं करोति कफजांश्च निहन्ति रोगांस् ताम्बूलमेवमपरांश्च गुणान् करोति ॥ ७६.३५॥ युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम् । चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम् ॥ ७६.३६॥ पत्राधिकं निशि हितं सफलं दिवा च प्रोक्तान्यथाकरणमस्य विडम्बनैव । कक्कोलपूगलवलीफलपारिजातैर् आमोदितं मदमुदा मुदितं करोति ॥ ७६.३७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गन्धयुक्त्यध्यायः समाप्तः ॥ ७६॥

७७ स्त्रीपुंससमायोगाध्यायः

शस्त्रेन वेणीग्विनिगूहितेन विदूरथं स्वा महिषी जघान । विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥ ७७.०१॥ एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैरनुकीर्तितैः किम् । रक्ताविरक्ताः पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥ ७७.०२॥ स्नेहं मनोभवकृतं कथयन्ति भावा नाभीग्भुजस्तनविभूषणदर्शनानि । वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि ॥ ७७.०३॥ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्याआसनोत्सर्पणं गात्रास्फोटनग्जृम्भणानि सुलभद्रव्याल्पसंप्रार्थना । बालालिङ्गनग्चुम्बनान्यभिमुखे सख्याः समालोकनं दृक्पातश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥ ७७.०४॥ इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति । विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥ ७७.०५॥ तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् । स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ चुम्बाग्प्रथमाभियोगः ॥ ७७.०६॥ विरक्तग्चेष्टा भ्रुकुटी मुखत्वं (K.भृकुटी) पराङ्मुखत्वं कृतविस्मृतिश्च । असम्भ्रमो दुष्परितोषता च तद्द्विष्टमैत्री परुषं च वाक्यम् ॥ ७७.०७॥ स्पृष्ट्वाथ वागालोक्य धुनोति गात्रं करोति गर्वं न रुणद्धि यान्तम् । चुम्बाग्विरामे वदनं प्रमार्ष्टि पश्चात् समुत्तिष्ठति पूर्वसुप्ता ॥ ७७.०८॥ भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका । मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ॥ ७७.०९॥ कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन । ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥ ७७.१०॥ रात्रीग्विहारजागररोगव्यपदेशपरगृहईक्षणिकाः । व्यसनोत्सवाश्च सङ्केतघेतवस्तेषु रक्ष्याश्च ॥ ७७.११॥ आदौ नेच्छति नोज्झति स्मरकथां व्रीडाग्विमिश्रालसा मध्ये ह्रीग्परिवर्जिताभ्युपरमे लज्जाविनम्रानना । भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः ॥ ७७.१२॥ स्त्रीणां गुणा यौवनग्रूपवेष- दाक्षिण्यविज्ञानविलासपूर्वाः । स्त्री रत्नसंज्ञा च गुणान्वितासु स्त्रीग्व्याधयोऽन्याश्चतुरस्य पुंसः ॥ ७७.१३॥ न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां च कुर्यात् । न चान्यकार्यस्मरणं रहःस्था मनो हि मूलं हरदधमूर्तेः ॥ ७७.१४॥ श्वासं मनुष्येण समं त्यजन्ती बाहूपधानस्तनदानदक्षा । सुगन्धकेशा सुसमीपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा ॥ ७७.१५॥ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः । यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥ ७७.१६॥ या स्वप्नशीला बहुग्रक्तपित्ता प्रवाहिनी वातकफातिरक्ता । (K.अतिरिक्ता) महाशना स्वेदयुताङ्गदुष्ठा या ह्रस्वकेशी पलितान्विता वा ॥ ७७.१७॥ (K.च) मांसानि यस्याश्च चलन्ति नार्या महोदरा खिक्खिमिनी च या स्यात् ॥ स्त्रीलक्षणे याः कथिताश्च पापास् ताभिर्न कुर्यात् सह कामधर्मम् ॥ ७७.१८॥ शशशोणितसङ्काशं लाक्षारससन्निकाशमथवा यत् । प्रक्षालितं विरज्यति यच्चासृक्तद्भवेत्ग्शुद्धम् ॥ ७७.१९॥ यच्छब्दवेदनावर्जितं त्र्यहात् सन्निवर्तते रक्तम् । तत् पुरुषसंप्रयोगादविचारं गर्भतां याति ॥ ७७.२०॥ न दिनत्रयं निषेव्यं(K.निषेवेत्) स्नानं माल्यानुलेपनं *स्त्रीभिः । (K.च स्त्री) स्नायाच्चतुर्थदिवसे शास्त्रोक्तेनोपदेशेन ॥ ७७.२१॥ पुष्यस्नानौषधयो याः कथितास्ताभिरम्बुग्मिश्राभिः । स्नायात् तथात्र मन्त्रः स एव यस्तत्र निर्दिष्टः ॥ ७७.२२॥ युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु । दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ॥ ७७.२३॥ दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ । यदुदरमध्योपगतं नपुंसकं तन् निबोद्धव्यम् ॥ ७७.२४॥ केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैः समेते । पापैस्त्रिलाभारिगतैश्च यायात् पुञ्जन्मयोगेषु च संप्रयोगम् ॥ ७७.२५॥ न नखदशनविक्षतानि कुर्याद् ऋतुसमये पुरुषः स्त्रियाः कथञ् चित् । ऋतुरपि दश षट् च वासराणि प्रथमग्निशात्रितयं न तत्र गम्यम् ॥ ७७.२६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्त्रीपुंससमायोगाध्यायः समाप्तः ॥ ७७॥

७८ शय्यासनलक्षणाध्यायः

सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रमिदम् । राज्ञां विशेषतोऽतः शयनासनलक्षणं वक्ष्ये ॥ ७८.०१॥ असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः । काश्मर्य्गञ्जनपद्मकशाका वा शिंशपा च शुभाः ॥ ७८.०२॥ अशनिग्जलानिलहस्तिप्रपातिता मधुविहङ्गकृतनिलयाः । चैत्यश्मशानपथिजऊर्ध्वशुष्कवल्लीनिबद्धाश्च ॥ ७८.०३॥ कण्टकिनो *ये च स्युर्महानदीग्सङ्गमोद्भवा ये च । (K.वा ये) सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ॥ ७८.०४॥ प्रतिषिद्धवृक्षनिर्मितशयनासनसेवनात् कुलविनाशः । व्याधिग्भयव्ययकलहा भवन्त्यनर्था अनेकविधाः ॥ ७८.०५॥ (K.अनर्थाश्च) पूर्वच्छिन्नं यदि वा दारु भवेत् तत् परीक्ष्यमारम्भे । यद्यारोहेत् तस्मिन् कुमारकः पुत्रपशुदं तत् ॥ ७८.०६॥ सितकुसुममत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि । मङ्गल्यान्यन्यानि च दृष्ट्वागारम्भे शुभं ज्ञेयम् ॥ ७८.०७॥ कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ॥ ७८.०८॥ नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च । नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ॥ ७८.०९॥ अर्धमतोऽष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः । आयामत्र्यंशसमः पादोच्छ्रायः सकुक्ष्य शिराः ॥ ७८.१०॥ (K.सकुक्षि) यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता । असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ॥ ७८.११॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ॥ ७८.१२॥ यः पद्मकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम् । कुरुते शालेन कृतः कल्याणं शाकरचितश्च ॥ ७८.१३॥ केवलग्चन्दनरचितं काञ्चनगुप्तं विचित्ररत्नयुतम् । अध्यासन् पर्यङ्कं विबुधैरपि पूज्यते नृपतिः ॥ ७८.१४॥ अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा । न *श्रीपर्णेन च देवदारुवृक्षो न चाप्यसनः ॥ ७८.१५॥ (K.श्रीपर्णी न) शुभदौ तु शालशाकौ परस्परं संयुतौ पृथक्चैव । (K.शाकशालौ) तद्वत् पृथक्प्रशस्तौ सहितौ च हरिद्रककदम्बौ ॥ ७८.१६॥ सर्वः स्पन्दनग्रचितो न शुभः प्राणान् हिनस्ति चाम्बकृतः । असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ॥ ७८.१७॥ अम्बस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः । फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥ ७८.१८॥ गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे । कार्योऽलङ्कारविधिर्गजदन्तेन प्रशस्तेन ॥ ७८.१९॥ दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्ग्शेषम् । अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ् चित् ॥ ७८.२०॥ *श्रीवृक्ष ग्वर्धमानच्छत्रध्वजचामरानुरूपेषु । (K.श्रीवत्स) छेदे दृष्टेष्वारोग्य ग्विजयधनवृद्धिसौख्यानि ॥ ७८.२१॥ (K.अरोग्य) प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । लोष्ठे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥ ७८.२२॥ (K.ऊ।लोष्टे) स्त्रीरूपे धननाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः । (K.स्वविनाशो) कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ॥ ७८.२३॥ कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम् । (K.वशत्वम्) गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः ॥ ७८.२४॥ पाशेऽथ वा कबन्धे नृपमृत्युर्जनविपत् स्रुते रक्ते । कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ७८.२५॥ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः । अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ॥ ७८.२६॥ ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः । अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम् ॥ ७८.२७॥ एकेनावाक्शिरसा भवति हि पादेन पादवैकल्यम् । (K.एकेनावाक्च्छिरसा) द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशवधबन्धाः ॥ ७८.२८॥ सुषिरेऽथ वा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः । पादे कुम्भो यश्च ग्रन्थौ तस्मिन्न् उदररोगः ॥ ७८.२९॥ कुम्भाधस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम् । तस्याश्चाधरोऽधः क्षयकृद्द्रव्यस्य तत्र कृतः ॥ ७८.३०॥ खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः । ईषाग्शीर्षण्योश्च त्रिभागसंस्थो भवेन् न शुभः ॥ ७८.३१॥ निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च । कालकमन्यद्धुन्धुकमिति कथितश्छिद्रसंक्षेपः ॥ ७८.३२॥ घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम् । निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ॥ ७८.३३॥ सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च । वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ॥ ७८.३४॥ कालकसंज्ञं कृष्णं धुन्धुकमिति यद्भवेद्विनिर्भिन्नम् । दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ॥ ७८.३५॥ निष्कुटसण्ज्ञे द्रव्यक्षयस्तु कोलेक्षणे कुलध्वंसः । शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ॥ ७८.३६॥ कालकधुन्धुकसंज्ञं कीटैर्विद्धं च न शुभदं छिद्रम् । सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ॥ ७८.३७॥ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिरात्मजवृद्धिकरं चतुर्भिरर्थं यशश्चाग्र्यम् ॥ ७८.३८॥ (K.अर्थो) पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते । षट्सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः ॥ ७८.३९॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शय्यासनलक्षणाध्यायः समाप्तः ॥ ७८॥

७९ रत्नपरीक्षाध्यायः

रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन । यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः ॥ ७९.०१॥ द्विपघयवनिताआदीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति । इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥ ७९.०२॥ रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि । के चिद्भुवः स्वभावाद्वैचित्र्यं प्राहुरुपलानाम् ॥ ७९.०३॥ वज्रेन्द्रनीलमरकतकर्केतरपद्मरागरुधिराख्याः । वैदूर्य ग्पुलकविमलकराजमणिस्फतिकशशिकान्ताः ॥ ७९.०४॥ (K.वैडूर्य) सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः । ब्रह्ममणिग्ज्योतीरससस्यकमुक्ताप्रवालानि ॥ ७९.०५॥ वेणाग्तटे विशुद्धं शिरीषकुसुम*प्रभं च कौशलकम् । (K.उपमं) सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥ ७९.०६॥ ईषत्ग्ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम् । आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् ॥ ७९.०७॥ ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यग्रूपमसितं च । कदलीग्काण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥ ७९.०८॥ वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम् । श‍ृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥ ७९.०९॥ वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम् । स्रोतः खनिः प्रकीर्णकमित्याकरसम्भवस्त्रिविधः ॥ ७९.१०॥ रक्तं पीतं च शुभं राजन्यानां सितं द्विजातीनाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम् ॥ ७९.११॥ सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैस्तु विंशत्या । तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ॥ ७९.१२॥ पादत्र्यंशार्धऊनं त्रिभागपञ्चांशषोडशांशाश्च । भागश्च पञ्चविंशः शतिकस्साहस्रिकश्चेति ॥ ७९.१३॥ सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत् स्निघ्दम् । तडिद्गनलशक्रचापोपमं च वज्रं हितायोक्तम् ॥ ७९.१४॥ काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर् विद्धम् । (K.शर्करा) द्विगुणाश्रि दध ग्कलुषत्रस्तविशीर्णानि न शुभानि ॥ ७९.१५॥ (K.दिग्ध) यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि । सर्वेषां चैतेषां मूल्याद्भागोऽष्टमो हानिः ॥ ७९.१६॥ वज्रं न किञ् चिदपि धारयितव्यमेके पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः । श‍ृङ्गाटकत्रिपुटधान्यकवत् स्थितं यच् श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ॥ ७९.१७॥ स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् । अशनिग्विषभयारिनाशनं शुभमुपभोगकरं च भूभृताम् ॥ ७९.१८॥ (K.उरुभोगकर) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रत्नपरीक्षाध्यायः समाप्तः ॥ ७९॥

८० मुक्तालक्षणाध्यायः

द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि । मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥ ८०.०१॥ सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः । कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्व् अष्टौ ॥ ८०.०२॥ (K.ह्य्) बहुसंस्थानाः स्निग्धाः हंसाभाः सिंहलाकराः स्थूलाः । (K.स्निग्धा) ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः ॥ ८०.०३॥ कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः । न स्थूला नात्यल्पा नवनीतग्निभाश्च सौराष्ट्राः ॥ ८०.०४॥ ज्योतिष्मत्यः शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः । (K.मन्तः) लघु जर्जरं दधिनिभं *बृहद्द्विसंस्थानम् अपि हैमम् ॥ ८०.०५॥ (K.बृहद्विसंस्थानम्) विषमं कृष्णश्वेतं लघु कौबेरं प्रमाणतेजोवत् । (K.कृष्णं श्वेतम्) निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥ ८०.०६॥ अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसङ्काशम् । हरितालग्निभं वारुणमसितं यमदैवतं भवति ॥ ८०.०७॥ परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् । निर्धूमानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥ ८०.०८॥ माषकग्चतुष्टयधृतस्यैकस्य शताहता त्रिपञ्चाशत् । कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥ ८०.०९॥ माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च । अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम् ॥ ८०.१०॥ पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः । सार्धास्तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥ ८०.११॥ गुञ्जाग्त्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य । रूपकपञ्चत्रिंशत्त्रयस्य गुञ्जार्धहीनस्य ॥ ८०.१२॥ पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदश सुरूपाः । *त्रिशती(ऊ।त्रिंशती) सपञ्चविंशा रूपकसङ्ख्या कृतं मूल्यम् ॥ ८०.१३॥ षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता । यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशता सहितम् ॥ ८०.१४॥ त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं च । (K.मूल्या) षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम् ॥ ८०.१५॥ मुक्ताशीत्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना । द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम् ॥ ८०.१६॥ पिक्काग्पिच्चार्घार्धा रवकः सिक्थं त्रयोदशाद्यानाम् । सञ्ज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम् ॥ ८०.१७॥ एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं मूल्यम् । (K.प्रकीतितम्) परिकल्प्यमन्तराले हीनगुणाणां क्षयः कार्यः ॥ ८०.१८॥ कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् । त्र्यंशोनं विषमकपीतयोश्च षड्भागदलहीनम् ॥ ८०.१९॥ ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु । ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥ ८०.२०॥ तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु । बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ८०.२१॥ नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः । सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥ ८०.२२॥ दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम् । तिमिजं मत्स्याआक्षीभं बृहत् पवित्रं बहुगुणं च ॥ ८०.२३॥ वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाद्भ्रष्टम् । ह्रियते किल खाद्दिव्यैस्तडित्ग्प्रभं मेघसम्भूतम् ॥ ८०.२४॥ तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम् । स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ॥ ८०.२५॥ शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि । वर्षति देवोऽकस्मात् तज्ज्ञेयं नागसम्भूतम् ॥ ८०.२६॥ अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति । भौजङ्गं नृपतीनां धृतमकृतार्घं विजयदं च ॥ ८०.२७॥ कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् । शङ्खोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥ ८०.२८॥ शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्य्*अवैद्यानि । (K.अवैध्यानि ऊऽवेद्यानि) अमितगुणत्वाच्चैषामर्घः शास्त्रे न निर्दिष्टः ॥ ८०.२९॥ एतानि सर्वाणि महागुणानि सुतार्थसौभाग्ययशस्कराणि । रुक्ग्शोकहन्तॄणि च पार्थिवानां मुक्ताफलानिगीप्सितकामदानि ॥ ८०.३०॥ सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् । इन्दुच्छन्दो नाम्ना विजयच्छन्दस्तदर्धेन ॥ ८०.३१॥ (K.इन्द्रच्छन्दो) शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता । अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥ ८०.३२॥ द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः । षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः ॥ ८०.३३॥ मन्दरसंज्ञोऽष्टाभिः पञ्चलता हारफलकमित्युक्तम् । सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालागिति ॥ ८०.३४॥ अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर्वा । तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥ ८०.३५॥ एकावली नाम यथेष्टसङ्ख्या हस्तप्रमाणा मणिग्विप्रयुक्ता । संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्तम् ॥ ८०.३६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मुक्तालक्षणाध्यायः समाप्तः ॥ ८०॥

८१ पद्मरागलक्षणाद्यायः

सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः । (K.स्त्र्। पद्मरागो सम्भूतिः) सौगन्धिकजा भ्रमराञ्जनाब्जग्जम्बूरसद्युतयः ॥ ८१.०१॥ कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः । स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥ ८१.०२॥ स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभोऽतिरागो मणिरत्नगुणाः समस्तानाम् ॥ ८१.०३॥ (K.अतिरागा) कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ ८१.०४॥ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजङ्गानाम् । भवति मणिः किक मूर्धनि योऽनर्घेयः स विज्ञेयः ॥ ८१.०५॥ यस्तं बिभर्ति मनुजाधिपतिर्न तस्य दोषा भवन्ति विषग्रोगकृताः कदा चित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥ ८१.०६॥ षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमाणस्य । कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥ ८१.०७॥ अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि । यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ ८१.०८॥ माषकग्चतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ । परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥ ८१.०९॥ वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यमष्टांशम् । अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥ ८१.१०॥ आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद्द्विशतभागम् । इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ ८१.११॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पद्मरागलक्षणाद्यायः समाप्तः ॥ ८१॥

८२ मरकतलक्षणाध्यायः

शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् । सुरपितृकार्ये मरकतम्(K.रकतम्) अतीव शुभदं नृणां विहितम् ॥ ८२.०१॥ (K.विधृतम्) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मरकतलक्षणाध्यायः समाप्तः ॥ ८२॥

८३ दीपलक्षणाध्यायः

वामावर्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्तिः क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि । दीपः पापं कथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति ॥ ८३.०१॥ दीपः संहतमूर्तिरायततनुर्निर्वेपनो दीप्तिमान् निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्य हेमद्युतिः । (K.वैडूर्य) लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं यश्चोद्यतं दीप्यते (K.रुचिरं, K.स्त्र्। सुचिरम्) शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥ ८३.०२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दीपलक्षणाध्यायः समाप्तः ॥ ८३॥

८४ दन्तकाष्ठलक्षणाध्यायः

वल्लीग्लतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशो यैः । फलानि वाच्यान्यथ तत्प्रसङ्गो (K.अति) मा भूदतो वच्म्यथ कामिकानि ॥ ८४.०१॥ अज्ञातपूर्वाणि न दन्तकाष्ठान्य् अद्यान् न पत्रैश्च समन्वितानि । न युग्मपर्वाणि न पाटितानि न चगूर्ध्वशुष्काणि विना त्वचा च ॥ ८४.०२॥ वैकङ्कतश्रीफलकाश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः । वृद्धिर्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके सगुणाः प्रियत्वम् ॥ ८४.०३॥ (K.ककुभे) लक्ष्मीः शिरीषे च तथा करञ्जे प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात् । मान्यत्वमायाति जनस्य जात्यां प्राधान्यमश्वत्थतरौ वदन्ति ॥ ८४.०४॥ आरोग्यमायुर्बदरीग्बृहत्योर् ऐश्वर्यवृद्धिः खदिरे सबिल्वे । द्रव्याणि चेष्टान्यतिमुक्तके स्युः प्राप्नोति तान्येव पुनः कदम्बे ॥ ८४.०५॥ नीपे ऽर्थाप्तिः करवीरेऽन्नलब्धिर् (K.निम्बे) भाण्डीरे स्याद्*अन्नमेवं प्रभूतम् । (K.इदमेव) शम्यां शत्रून् अपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः ॥ ८४.०६॥ शालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके । वाल्लभ्यमायाति जनस्य सर्वतः प्रियङ्ग्वपामार्गसजम्बुदाडिमैः ॥ ८४.०७॥ उदङ्मुखः प्राङ्मुख एव वाब्दं कामं यथेष्ठं(ऊ।यथेष्टं) हृदये निवेश्य । अद्यादनिन्दन् च सुखोपविष्टः (K.अनिन्द्यं) प्रक्षाल्य जह्याच्च शुचिप्रदेशे ॥ ८४.०८॥ हिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत् । अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥ ८४.०९॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दन्तकाष्ठलक्षणाध्यायः समाप्तः ॥ ८४॥

८५ शाकुनाध्यायः

यत्ग्शक्रशुक्र वागीशकपिष्ठलगरुत्मताम् । (K.शुक्रशक्र) मतेभ्यः प्राह ऋषभो भागुरेर्देवलस्य च ॥ ८५.०१॥ भारद्वाजमतं दृष्ट्वा यच्च श्रीद्रव्यवर्धनः । आवन्तिकः प्राह नृपो महाराजाधिराजकः ॥ ८५.०२॥ सप्तर्षीणां मतं यच्च संस्कृतं प्राकृतं च यत् । यानि चोक्तानि गर्गाद्यैर्यात्राकारैश्च भूरिभिः ॥ ८५.०३॥ तानि दृष्ट्वा चकारेमं सर्वशाकुनसङ्ग्रहम् । वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम् ॥ ८५.०४॥ अन्यग्जन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥ ८५.०५॥ ग्रामारण्याम्बुग्भूव्योमद्युनिशोभयचारिणः । रुतयातईक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः ॥ ८५.०६॥ (K.स्त्रीपुन्नपुंसकाः) पृथग्जात्य्गनवस्थानादेषां व्यक्तिर्न लक्ष्यते । सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ॥ ८५.०७॥ पीनोन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः । स्वल्पगम्भीरविरुताः पुंआंसः स्थिरविक्रमाः ॥ ८५.०८॥ तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः । प्रसक्तमृदुभाषिण्यः स्त्रियोऽतोऽन्यन् नपुंसकम् ॥ ८५.०९॥ ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् । सञ्चिक्षिप्सुरहं वच्मि यात्राग्मात्रप्रयोजनम् ॥ ८५.१०॥ पथ्य्गात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम् । सार्थे प्रधानं साम्ये स्याज्जातिग्विद्यावयोऽधिकम् ॥ ८५.११॥ (K.साम्यं) मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम् । अङ्गार(K.अङ्गारि)ग्दीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः ॥ ८५.१२॥ (K.ऽपरा, K.स्त्र्। अपराः) तत्ग्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत् । परिशेषदिशोर् वाच्यं यथासन्नं शुभाशुभम् ॥ ८५.१३॥ (K.परिशेषयोर्) शीघ्रमासन्नग्निम्नस्थैश्चिरादुन्नतदूरगैः । स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात् फलं पुनः ॥ ८५.१४॥ क्षणतिथ्युडुवातार्कैर्देवदीप्तो यथोत्तरम् । क्रियादीप्तो गतिग्स्थानभावस्वरविचेष्टितैः ॥ ८५.१५॥ दशधागेवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः । मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥ ८५.१६॥ हर्म्यप्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः । श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ॥ ८५.१७॥ स्वकाले गिरिग्तोयस्था बलिनो द्युनिशाचराः । क्लीबस्त्री*पुरुषा ज्ञेया बलिनः स्युर्यथोत्तरम् ॥ ८५.१८॥ (K.पुरुशाश्च एषां) जवग्जातिबलस्थानहर्षसत्त्वस्वरान्विताः । स्वभूमावनुलोमाश्च तद्गूनाः स्युर्विवर्जिताः ॥ ८५.१९॥ कुक्कुटेभपिरिल्यश्च शिखिवञ्जुलछिक्कराः । बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ॥ ८५.२०॥ क्रोष्टुकोलूकघारीतकाककोकऋक्षपिङ्गलाः । कपोतग्रुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥ ८५.२१॥ गोग्शशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः । विडालोत्सववादित्रगीतहासाश्च वारुणाः ॥ ८५.२२॥ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः । चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥ ८५.२३॥ न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः । (K.ग्रामसंस्थितः) दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥ ८५.२४॥ द्वन्द्वग्रोगार्दितत्रस्ताः कलहामिषकाङ्क्षिणः आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित् ॥ ८५.२५॥ रोहिताश्वाजग्*वालेयाः कुरङ्ग उष्ट्रमृगाः शशः । (K.वालेयकुरङ्ग) निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ॥ ८५.२६॥ न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः । शारद्य गब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ ॥ ८५.२७॥ (K.शरद्य) व्याघ्रगृक्षवानरद्वीपिमहिषाः सबिलेशयाः । हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥ ८५.२८॥ ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः । कोशाध्यक्षानलाजीविग्तपोयुक्ताः प्रदक्षिणम् ॥ ८५.२९॥ शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे । परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ॥ ८५.३०॥ नैरृतीग्वारुणीमध्ये प्रमदासूतितस्कराः । शौण्डिकः शाकुनी हिंस्रो वायव्या ग्पश्चिमान्तरे ॥ ८५.३१॥ (K.वायव्य) विषघातकगोस्वामिकुहकज्ञास्ततः परम् । धनवान् ईक्षणीकश्च मालाकारः परं ततः ॥ ८५.३२॥ वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः । *द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥ ८५.३३॥ (K.एवं द्वात्रिंशतो) राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । राजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ८५.३४॥ (K.ऊ।गजाध्यक्षश्) गच्छतस्तिष्ठतो वापि दिशि यस्यां व्यवस्थितः । विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ॥ ८५.३५॥ भिन्नभैरवदीनार्तपरुषक्षामजर्जराः । स्वना(K.स्वरा) नेष्टाः शुभाः शान्त घृष्टप्रकृतिपूरिताः ॥ ८५.३६॥ (K.शान्ता) शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका । सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥ ८५.३७॥ स्त्रीसंज्ञा भासभषककपिश्रीकर्ण*धिक्कराः । (K.छिक्कराः) शिखिग्श्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥ ८५.३८॥ क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः । सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥ ८५.३९॥ ग्रामौ मध्यमग्षड्जौ तु गान्धारश्चेति शोभनाः । षड्ज ग्मध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥ ८५.४०॥ (K.षड्जा) रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः । धन्या नकुलग्चाषौ च सरटः पापदोऽग्रतः ॥ ८५.४१॥ जाहकाहिग्शशक्रोडगोधानां कीर्तनं शुभम् । *रुतं सन्दर्शनं नेष्टं प्रतीपं वानरगृक्षयोः ॥ ८५.४२॥ (K.रतसन्दर्शनं) ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः । चाषः सनकुलो वामो भृगुराहापराह्णतः ॥ ८५.४३॥ छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः । अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥ ८५.४४॥ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे । कन्यकाग्दधिनी पश्चादुदगोविप्रसाधवः ॥ ८५.४५॥ जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ । पश्चादासवग्षण्ढौ च खलासनहलान्युदक् ॥ ८५.४६॥ कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे । यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥ ८५.४७॥ दिवा प्रस्थानवद्ग्राह्याः कुरङ्गग्रुरुवानराः । अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥ ८५.४८॥ पश्चिमे शर्वरीग्भागे नप्तृकोलूकपिङ्गलाः । सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥ ८५.४९॥ नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत् । गिर्य्गरण्य*प्रवेशेषु नदीनां चावगाहने ॥ ८५.५०॥ (K.प्रवेशे च) वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ । क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ ॥ ८५.५१॥ तावेव तु यथाभागं प्रशान्तग्रुतचेष्टितौ । शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये ॥ ८५.५२॥ के चित् तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः । शकुनैरेकजातीयैः शान्तग्चेष्टाविराविभिः ॥ ८५.५३॥ विसर्जयति यद्येक एकश्च प्रतिषेधति । स विरोधोऽशुभो यातुर्ग्राह्यो यो बलवत्तरः ॥ ८५.५४॥ (K.ऊ।वा) पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत् । (K.प्रावेशेको) सुखेन सिद्धिमाचष्टे प्रवेशे तद्ग्विपर्ययात् ॥ ८५.५५॥ (K.तद्विपर्ययः) विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । प्राह यातुररेर्मृत्युं डमरं रोगमेव वा ॥ ८५.५६॥ अपसव्यास्तु शकुना दीप्ता भयग्निवेदिनः । आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥ ८५.५७॥ तिथिग्वाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम् । धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः ॥ ८५.५८॥ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः ॥ ८५.५९॥ चितिग्केशकपालेषु मृत्युबन्धवधप्रदाः । कण्टकीग्काष्ठभस्मस्थाः कलहायासदुःखदाः ॥ ८५.६०॥ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः । कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते ॥ ८५.६१॥ असिद्धिसिद्धिदौ ज्ञेयौ निर्हाराहार कारिणौ । (K.निर्हादाहार) स्थानाद्रुवन् व्रजेद्यात्रां शंसते त्वन्यथागमम् ॥ ८५.६२॥ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः । उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च दोषकृत् ॥ ८५.६३॥ (K.मोषकृत्) एकस्थाने रुवन् दीप्तः सप्ताहाद्ग्रामघातकः । (K.ग्रामघातकृत्) पुरदेशनरेन्द्राणां ऋत्वर्धायनवत्सरात् ८५.६४॥ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः । (K.अशनाः) सर्पमूषकमार्जार*पृथुलोम विवर्जिताः ॥ ८५.६५॥ (K.पृथुरोम) परयोनिषु गच्छन्तो मैथुनं देशनाशनाः । अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिग्मैथुनात् ॥ ८५.६६॥ बन्धघातभयानि स्युः पादऊरूमस्तकान्तिगैः । शष्पापः(K.अपशष्प)ग्पिशितान्नादैर्*दोषवर्षक्षय ग्रहाः ॥ ८५.६७॥ (K.वर्षमोषक्षत ऊ।दोषवर्षक्षत) क्रूरोग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः । चिरकालेन दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥ ८५.६८॥ (K.चिरकालैश्च) सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् । द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥ ८५.६९॥ विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः । स्त्रियाः सङ्ग्रहणं प्राह तद्दिगाख्यातयोनितः ॥ ८५.७०॥ शान्तः पञ्चमदीप्तेन विरुतो विजयावहः । दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥ ८५.७१॥ वामसव्यगतो मध्यः प्राह स्वपरयोर्भयम् । (K.रुतो) मरणं कथयन्ति एते सर्वे समविराविणः ॥ ८५.७२॥ वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः । दीर्घाब्जमुषिताग्रेषु नरनौशिबिकाआगमः ॥ ८५.७३॥ शकटेनोन्नतस्थे वा(K.च) छायास्थे छत्रसंयुते । (K.छत्रसम्युतः) एकत्रिपञ्चसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥ ८५.७४॥ सुरपतिघुतवहयमनिरृतिवरुणपवनेन्दुसङ्कराः *क्रमशः । (K.ओमित्तेद्) प्राच्याद्यानां पतयो दिशः पुमांसोऽङ्गना विदिशः ॥ ८५.७५॥ तरुग्तालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः । द्वात्रिंशत्ग्प्रविभक्ते दिक्चक्रे तेषु कार्याणि ॥ ८५.७६॥ व्यायामशिखिनिकूजितकलहाम्भोनिगडमन्त्रगोशब्दाः । वर्णास्तु रक्तपीतककृष्णसिताः कोणगा मिश्राः ॥ ८५.७७॥ (K.च) चिह्नं ध्वजो दधमथ श्मशानं दरी जलं पर्वतयज्ञघोषाः । एतेषु संयोगभयानि विन्द्याद् अन्यानि वा स्थानविकल्पितानि ॥ ८५.७८॥ स्त्रीणां विकल्पा बृहती कुमारी व्यङ्गा विगन्धा त्वथ नीलवस्त्रा । कुस्त्री प्रदीर्घा विधवा च ताश्च संयोगग्चिन्ता परिवेदिकाः स्युः ॥ ८५.७९॥ पृच्छासु रूप्यकनकातुरभामिनीनां मेषाव्ययानमखगोकुलसंश्रयासु । न्यग्रोधग्रक्ततरुरोध्रककीचकाख्याश् चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च ॥ ८५.८०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुनाध्यायः समाप्तः ॥ ८५॥

८६ शाकुनेऽन्तरचक्राध्यायः

ऐन्द्र्यां दिशि शान्तायां विरुवन् नृपसंश्रितागमं वक्ति । पूजाग्लाभं मणिरत्नद्रव्यसंप्राप्तिम् ॥ ८६.०१॥ तद्गनन्तरदिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च । आयुधधनपूगफलागमस्तृतीये भवेद्भागे ॥ ८६.०२॥ स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाआहिताग्नेश्च । कोणेऽनुजीविग्भिक्षुप्रदर्शनं कनकलोहाप्तिः ॥ ८६.०३॥ याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिरभिमतस्याप्तिः । परतः स्त्रीग्धर्माप्तिः सर्षपयवलब्धिरप्युक्ता ॥ ८६.०४॥ कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य । यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद्याता ॥ ८६.०५॥ यात्राग्सिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च । याम्याद्द्वितीयभागे चारणसङ्गः शुभं प्रीतिः ॥ ८६.०६॥ ऊर्ध्वं सिद्धिः कैवर्तसङ्गमो मीनतित्तिराद्याप्तिः । प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ॥ ८६.०७॥ नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखाप्तिः । परतोऽस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः ॥ ८६.०८॥ वानरभिक्षुश्रवणावलोकनं नैरृतात् तृतीयांशे । फलकुसुमदन्तघटितागमश्च कोणाच्चतुर्थांशे ॥ ८६.०९॥ वारुण्यामर्णवजातग्रत्नवैदूर्य मणिमयप्राप्तिः । (K.वैडूर्य) परतोऽतः शबरव्याधचौरसङ्गः पिशितलब्धिः ॥ ८६.१०॥ परतोऽपि दर्शनं वातरोगिणां चन्दनागुरुग्प्राप्तिः । आयुधपुस्तकलब्धिस्तद्वृत्तिसमागमश्चऊर्ध्वम् ॥ ८६.११॥ वायव्ये फेनकग्चामराउर्णिकाप्तिः समेति कायस्थः । मृन्मयलाभोऽन्यस्मिन् वैतालिकडिण्डिभाण्डानाम् ॥ ८६.१२॥ वायव्याच्च तृतीये मित्रेण समागमो धनप्राप्तिः । वस्त्राश्वाप्तिरतः परमिष्टसुहृत्संप्रयोगश्च ॥ ८६.१३॥ दधिग्तण्डुललाजानां लब्धिरुददर्शनं च विप्रस्य । अर्थावाप्तिरनन्तरमुपगच्छति सार्थवाहश्च ॥ ८६.१४॥ वेश्याग्वटुदाससमागमः परे शुक्ल पुष्पफललब्धिः । (K.शुष्क) *अत ऊर्ध्वं(K.अतः परं) चित्रकरस्य दर्शनं चित्रवस्त्राप्तिः ॥ ८६.१५॥ (K.वस्त्रसंप्राप्तिः) ऐशान्यां देवलकोपसङ्गमो धान्यग्रत्नपशुलब्धिः । प्राक्प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ॥ ८६.१६॥ रजकेन समायोगो जलजद्रव्यागमश्च परतोऽतः । हस्त्य्गुपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च ॥ ८६.१७॥ द्वात्रिंशत्ग्प्रविभक्तं दिक्चक्रं *वास्तुवत् सनेम्युक्तम् । (K.वास्तुबन्धने अप्युक्तम्) अरग्नाभिस्थैरन्तः फलानि नवधा विकल्प्यानि ॥ ८६.१८॥ नाभिस्थे बन्धुग्सुहृत्समागमस्तुष्टिरुत्तमा भवति । प्राग्रक्तपट्टवस्त्रागमस्त्वरे नृपतिसंयोगः ॥ ८६.१९॥ आग्नेये कौलिकतक्षपारिकर्माश्वसूतसंयोगः । लब्धिश्च तत्कृतानां द्रव्याणामश्वलब्धिर्वा ॥ ८६.२०॥ नेमीग्भागं बुद्ध्वा नाभीभागं च दक्षिणे योऽरः । धार्मिकग्जनसंयोगस्तत्र भवेद्धर्मलाभश्च ॥ ८६.२१॥ उस्राग्क्रीडककापालिकागमो नैरृते समुद्दिष्टः । वृषभस्य चात्र लब्धिर्माषकुलत्थाद्यमशनं च ॥ ८६.२२॥ अपरस्यां दिशि योऽरस्तत्रासक्तिः कृषीवलैर्भवति । सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ॥ ८६.२३॥ भारवहतक्षभिक्षुकसन्दर्शनमपि च वायुदिक्संस्थे । तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य ॥ ८६.२४॥ कौबेर्यां दिशि *योऽरस्तत्रस्थो वित्तलाभमाख्याति । (K.शकुनः शान्तायां) भागवतेन समागमनम् आचष्टे पीतवस्त्रैश्च ॥ ८६.२५॥ (K.ऊ।समागमम्) ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति । लब्धिश्च परिज्ञेया कृष्णायःग्शस्त्र घण्टानाम् ॥ ८६.२६॥ (K.कृष्णायोवस्त्र) याम्येऽष्टांशे पश्चाद्द्विग्षट्त्रिसप्ताष्टमेषु मध्यफला । सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ॥ ८६.२७॥ ह्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु । वायव्याग्नैरृतयोररयोः क्लेशावहा यात्रा ॥ ८६.२८॥ (K.?उभय्योः) शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि । ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चैव शात्रूणाम् ॥ ८६.२९॥ तद्गनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम् । अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च ॥ ८६.३०॥ अग्निभयं च चतुर्थे भयमाग्नेये च भवति चौरेभ्यः । कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ॥ ८६.३१॥ प्रमदागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च । हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ॥ ८६.३२॥ अथ पञ्चमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् । षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम् ॥ ८६.३३॥ धीवरशाकुनिकानां सप्तमभागाद् भयं भवति दीप्ते । (K.भागे) भोजनविघात उक्तो निर्ग्रन्थभयं च तत्परतः ॥ ८६.३४॥ कलहो नैरृतभागे रक्तस्रावोऽथ शस्त्रकोपश्च । अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ॥ ८६.३५॥ तदनन्तरं परिव्राट्ग्श्रवणभयं तत्परे त्वनशनभयम् । (K.तदनन्तरे) वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ॥ ८६.३६॥ वायुग्रस्तविनाशः परे परे शस्त्रपुस्त*वार्तानाम् । (K.वार्त्तानाम्) कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ॥ ८६.३७॥ परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः । तस्यासन्नेऽश्ववधो भयमपि च पुरोधसः प्रोक्तम् ॥ ८६.३८॥ गोहरणशस्त्रघातावुदक्परे सार्थघातधननाशौ । आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ॥ ८६.३९॥ ऐशानस्यासन्ने चित्राम्बरग्चित्रकृद्भयं प्रोक्तम् । ऐशाने त्वग्निग्भयं दूषणमप्युत्तमस्त्रीणाम् ॥ ८६.४०॥ प्राक्तस्यैवासन्ने दुःखोत्पत्तिः स्त्रिया विनाशश्च । भयमूर्ध्वं रजकानां विज्ञेयं काच्छिकानां च ॥ ८६.४१॥ हस्त्य्गारोहभयं स्याद्द्विरदविनाशश्च मण्डलसमाप्तौ । ह्यन्तरे तु दीप्ते पत्नीग्मरणं ध्रुवं पूर्वे ॥ ८६.४२॥ शस्त्रानलप्रकोपाग्नेये वाजिमरणशिल्पिभयम् । याम्ये धर्मग्*विनाशोऽपरे ऽग्न्यवस्कन्दचोक्षवधाः ॥ ८६.४३॥ (K.विनाशः परे) अपरे तु कर्मिणां भयमथ कोणे चानिले खरोष्ट्रवधः । अत्रैव मनुष्याणां विसूचिका ग्विषभयं भवति ॥ ८६.४४॥ (K.विशूचिका) उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः । ग्रामीणगोपपीडा च तत्र नाभ्यां तथाआत्मवधः ॥ ८६.४५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुनेऽन्तरचक्राध्यायः समाप्तः ॥ ८६॥

८७ विरुताध्याय्ः

श्यामाग्श्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश् चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः । (K.त्रयाः) भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुटपूर्णकूट*चटकाः प्रोक्ता दिवासञ्चराः ॥ ८७.०१॥ (K.चटकाश्च उक्ता) लोमाशिका पिङ्गलग्च्छिप्पिकाआख्यौ वल्गुलीगुलूकौ शशकश्च रात्रौ । सर्वे स्वकालोत्क्रमग्चारिणः स्युर् देशस्य नाशाय नृपान्तदा वा ॥ ८७.०२॥ हयग्नरभुजगोष्ट्रद्वीपिसिंहऋक्षगोधा वृकग्नकुलकुरङ्गश्वाजगोव्याघ्रहंसाः । पृषतमृगश‍ृगालश्वाविदाख्यान्यपुष्टा द्युनिशमपि बिडालः सारसः सूकरश्च ॥ ८७.०३॥ भषकूटपूरि(ऊ।कूटपूरि)कुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः । नामान्युलूकचेट्याः पिङ्गलिका पेचिका हक्का ॥ ८७.०४॥ कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः । छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ॥ ८७.०५॥ स्रोतस्ग्*तडागभेद्य एकपुत्रकः कलहकारिका च रला । (K.तडागभेद्येक) भृङ्गारवच्च विरुवति निशि भूमौ द्व्य्गङ्गुलशरीरा ॥ ८७.०६॥ (K.वाशति) दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तोऽसौ । धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ॥ ८७.०७॥ गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम । गृहगोधिकागिति संज्ञा विज्ञेया कुड्यमत्स्यस्य ॥ ८७.०८॥ दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरोऽथ गौरुस्रा । श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ॥ ८७.०९॥ एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि । शकुनग्रुतज्ञानार्थं शास्त्रे सञ्चित्य योज्यानि ॥ ८७.१०॥ (K.सञ्चिन्त्य) वञ्जुलकग्रुतं तित्तिड् इति दीप्तमथ किल्किलीति तत्पूर्णम् । श्येनशुकगृध्रकङ्काः प्रकृतेरन्यस्वरा दीप्ताः ॥ ८७.११॥ यानासनशय्यानिलयनं कपोतस्य सद्मविशनं वा । अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः ॥ ८७.१२॥ आपाण्डुरस्य वर्षाच्चित्रकपोतस्य चैव षण्मासात् । कुङ्कुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ॥ ८७.१३॥ चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः । चच्चेति दीप्तः स्यात् स्वप्रियलाभाय चिक्चिगिति ॥ ८७.१४॥ (K.योगाय) हारीतस्य तु शब्दो गुगुः पूर्णोऽपरे प्रदीप्ताः स्युः । स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ॥ ८७.१५॥ किष्किषिग्शब्दः पूर्णः करायिकायाः शुभः कहकहेति । क्षमाय केवलं करकरेति न त्वर्थसिद्धिकरः ॥ ८७.१६॥ (K.ऊ।क्षेमाय) कोटुक्लीति क्षेम्यः स्वरः कटुक्लीति वृष्टये तस्याः । अफलः कोटिकिलीति च दीप्तः खलु गुं कृतः शब्दः ॥ ८७.१७॥ शस्त्रं वामे दर्शनं दिव्यकस्य (K.ऊ।शस्तम्) सिद्धिर्ज्ञेया हस्तमात्रोच्छ्रितस्य । तस्मिन्न् एव प्रोन्नतस्थे शरीराद् धात्री वश्यं सागरान्ताभ्युपैति ॥ ८७.१८॥ फणितोऽभिमुखागमोऽरिसङ्गं कथयति बन्धु ग्वधात्ययं च यातुः । (K.बन्ध) अथ वा समुपैति सव्यभागात् न स सिद्ध्यै कुशलो गमागमे च ॥ ८७.१९॥ जेषु मूर्धसु च वाजिगजोरगाणां राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु । भस्मास्थिग्काष्ठतुषकेशतृणेषु दुःखं दृष्टः करोति खलु खञ्जनकोऽब्दमेकम् ॥ ८७.२०॥ किलिकिल्किलि तित्तिरस्वनः शान्तः शस्तफलोऽन्यथापरः । शशको निशि वामपार्श्वगो वाशन् शस्तफलो निगद्यते ॥ ८७.२१॥ किलिकिलिग्विरुतं कपेः प्रदीप्तं न शुभफलप्रदमुद्दिशन्ति यातुः । शुभमपि कथयन्ति चुग्लुशब्दं कपिसदृशं च कुलालकुक्कुटस्य ॥ ८७.२२॥ पूर्णाननः कृमिग्पतङ्गपिपीलकाआद्यैश् चाषः प्रदक्षिणमुपैति नरस्य यस्य । खे स्वस्तिकं यदि करोत्यथ वा यियासोस् तस्यार्थलाभमचिरात् सुमहत् करोति ॥ ८७.२३॥ चाषस्य काकेन विरुध्यतश्चेत् पराजयो दक्षिणभागगस्य । वधः प्रयातस्य तदा नरस्य विपर्यये तस्य जयः प्रदिष्टः ॥ ८७.२४॥ केकेति पूर्णकुटवद्यदि वामपार्श्वे चाषः करोति विरुतं जयकृत् तदा स्यात् । क्रेक्रेति तस्य विरुतं न शिवाय दीप्तं (K.क्रक्रेति) सन्दर्शनं शुभदमस्य सदैव यातुः ॥ ८७.२५॥ अण्डीरकष् टीगिति रुतेन पूर्णष्- टिट्टिट्टिशब्देन तु दीप्त उक्तः । फेण्टः शुभो दक्षिणभागसंस्थो न वाशिते तस्य कृतो विशेषः ॥ ८७.२६॥ श्रीकर्णग्रुतं तु दक्षिणे क्वक्वक्वेति शुभं प्रकीर्तितम् । मध्यं खलु चिक्चिकीति यच्ग् शेषं सर्वमुशन्ति निष्फलम् ॥ ८७.२७॥ दुर्बलेरपि चिरिल्विरिल्विति प्रोक्तमिष्टफलदं हि वामतः । वामतश्च यदि दक्षिणं व्रजेत् कार्यसिद्धिमचिरेण यच्छति ॥ ८७.२८॥ चिक्चिकिग्वाशितमेव तु कृत्वा दक्षिणभागमुपैति तु वामात् । क्षेमकृदेव न साधयतेऽर्थान् व्यत्ययगो वधबन्धभयाय ॥ ८७.२९॥ क्रक्रेति च सारिका द्रुतं त्रेत्रे वाप्य्गभया विरौति या । सा वक्ति यियासतोऽचिराद्गात्रेभ्यः क्षतजस्य विस्रुतिम् ॥ ८७.३०॥ (K.गात्रेभ्य) फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः । शोभनो निगद्यते प्रदीप्त उच्यतेऽपरः ॥ ८७.३१॥ श्रेष्ठं खरं स्थास्नुमुशन्ति वामं ओङ्ग्कारशब्देन हितं च यातुः । *अतोऽपरं गर्दभग्नादितं यत् (K.अतः परं) सर्वाश्रयं तत् प्रवदन्ति दीप्तम् ॥ ८७.३२॥ आग्काररावी समृगः कुरङ्ग ओग्काररावी पृषतश्च पूर्णः । येऽन्ये स्वरास्ते कथिताः प्रदीप्ताः पूर्णाः शुभाः पापफलाः प्रदीप्ताः ॥ ८७.३३॥ भीता रुवन्ति कुकुकुक्विति ताम्रचूडास् त्यक्त्वा रुतानि भयदान्यपराणि रात्रौ । स्वस्थैः स्वभावविरुतानि निशावसाने ताराणि राष्ट्रपुरपार्थिववृद्धिदानि ॥ ८७.३४॥ नानाविधानि विरुतानि हि छिप्पिकायास् तस्याः शुभाः कुलुकुलुर्न शुभास्तु शेषाः । यातुर्बिडालविरुतं न शुभं सदैव गोस्तु क्षुतं मरणमेव करोति यातुः ॥ ८७.३५॥ हुंहुङ्गुग्लुगिति प्रियामभिलषन् क्रोशत्युलूको मुदा पूर्णः स्याद्गुरुलु प्रदीप्तमपि च ज्ञेयं सदा किस्किसि । विज्ञेयः कलहो यदा बलबलं तस्य असकृद्वाशितं (K.तस्याः) दोषायैव टटट्टटेति न शुभाः शेषास्तु दीप्त स्वराः ॥ ८७.३६॥ (K.दीप्ताः) सारसकूजितमिष्टफलं तद्यद्युगपद्विरुतं मिथुनस्य । एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति चिरेण ॥ ८७.३७॥ (K.प्रतिरौति) चिरिल्विरिल्विति स्वरैः शुभं करोति पिङ्गलाः । (K.पिङ्गला) अतोऽपरे तु ये स्वराः प्रदीप्तसंज्ञितास्तु ते ॥ ८७.३८॥ इशिविरुतं गमनप्रतिषेधि कुशुकुशु चेत् कलहं प्रकरोति । हिमतकार्यगतिं च यथा सा कथयति तं च विधिं कथयामि ॥ ८७.३९॥ दिनान्तसन्ध्यासमये निवासं आगम्य तस्याः प्रयतश्च वृक्षम् । देवान् समभ्यर्च्य पितामहादीन् नवाम्बरस्तं च तरुं सुगन्धैः ॥ ८७.४०॥ एको निशीथेऽनलदिक्स्थितश्च दिव्येतरैस्तां शपथैर्नियोज्य । पृच्छेद्यथाचिन्तितमर्थमेवं अनेन मन्त्रेण यथागाश‍ृणोति ॥ ८७.४१॥ विद्धि भद्रे मया यत् त्वमिममर्थं प्रचोदिता । कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यसे ॥ ८७.४२॥ आपृच्छेऽद्य गमिष्यामि वेदितश्च पुनस्त्वहम् । प्रातरागम्य पृच्छे त्वामाग्नेयीं दिशमाश्रितः ॥ ८७.४३॥ प्रचोदयाम्यहं यत् त्वां तन् मे व्याख्यातुमर्हसि । स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम् ॥ ८७.४४॥ इत्येवमुक्ते तरुग्मूर्धगायाश् चिरिल्विरिल्वीति रुतेऽर्थसिद्धिः । अत्याकुलत्वं(ऊऽव्याकुलत्वम्) दिशिकारशब्दे कुचाकुचागित्येवमुदाहृते वा ॥ ८७.४५॥ अवाक्ग्प्रदानेऽपि हित अर्थसिद्धिः (K.विहित) पूर्वोक्तदिक्चक्रफलैरतोऽन्यत् । वाच्यं फलं चोत्तममध्यनीच- शाखाग्स्थितायां वरमध्यनीचम् ॥ ८७.४६॥ दिङ्मण्डलेऽभ्यन्तरबाह्यभागे फलानि विन्द्याद्गृहगोधिकायाः । छुच्छुन्दरी चिच्चिड् इति प्रदीप्ता पूर्णा तु सा तित्तिड् इति स्वनेन ॥ ८७.४७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां विरुताध्याय्ः समाप्तः ॥ ८७॥

८८ श्वचक्राध्यायः

नृग्तुरगकरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्चयच्छत्रशय्याआसनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वावमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिरेवाथ वा अथ विषतरुग्कण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथ वा यायिनोऽग्रेसरोऽनिष्टमाख्याति शय्याकुलालादि भाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयन् कन्यकादोषकृद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणेऽवर्णजः सङ्करः । (K.वर्णजः) गमनमुखमुपानहं संप्रगृह्योपतिष्ठेद्यदा स्याद्तदा सिद्धये मांसपूर्णाननेऽर्थाप्तिराद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युः प्रशान्तोल्मुकेनाभिघातोऽथ पुंसः शिरोहस्तपादादि वक्त्रे भुवोऽभ्यागमो वस्त्रचीरादिभिर्व्यापदः के चिदाहुः सवस्त्रे शुभं (K.ह्यागमो) प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् वधः श‍ृङ्खलाशीर्णवल्लीवरत्राआदि वा बन्धनं चोपगृह्योपतिष्ठेद्यदा स्यात् तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात् स्वपंश्चऊर्ध्वपादः सदा दोषकृत् ॥ ८८.०१॥ सूर्योदयेऽर्काभिमुखो विरौति ग्रामस्य मध्ये यदि सारमेयः । एको यदा वा बहवः समेताः शंसन्ति देशाधिपमन्यमाशु ॥ ८८.०२॥ सूर्योन्मुखः श्वानलदिक्ग्स्थितश्च चौरानलत्रासकरोऽचिरेण । मध्याह्नकालेऽनलमृत्युशंसी सशोणितः स्यात् कलहोऽपराह्णे ॥ ८८.०३॥ रुवन् दिनेशाभिमुखोऽस्तकाले कृषीबलानां भयमाशु दत्ते । (K.धत्ते) प्रदोषकालेऽनिलदिङ्मुखश्च (K.तु) दत्ते भयं मारुततस्करोत्थम् ॥ ८८.०४॥ (K.धत्ते) उदङ्ग्मुखश्चापि निशार्धकाले विप्रव्यथां गोहरणं च शास्ति । निशावसाने शिवदिन्ग्मुखश्च कन्याभिदूषानलगर्भपातान् ॥ ८८.०५॥ उच्चैः स्वराः स्युस्तृणकूटसंस्थाः प्रासादवेश्मोत्तमसंस्थिता वा । वर्षासु वृष्टिं कथयन्ति तीव्रां अन्यत्र मृत्युं दहनं रुजश्च ॥ ८८.०६॥ प्रावृट्ग्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावर्तै(K.प्रत्यावृत्तै) रेचकैश्चाप्यभीक्षणम् । (K.अभीक्ष्णम्) आधुन्वन्तो वा पिबन्तश्च तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥ ८८.०७॥ द्वारे शिरो न्यस्य बहिः शरीरं रोरूयते श्वा गृहिणीं विलोक्य । रोगप्रदः स्यादथ मन्दिरान्तर्- बहिर्ग्मुखो *वक्ति च बन्धकीं ताम् ॥ ८८.०८॥ (K.शंसति) कुड्यमुत्किरति वेश्मनो यदा तत्र खानकभयं भवेत् तदा । गोष्ठमुत्किरति गोग्रहं वदेद्धान्यलब्धिमपि धान्यभूमिषु ॥ ८८.०९॥ एकेनाक्ष्णा साश्रुणा दीनदृष्टिर् मन्दाहारो दुःखकृत् तद्गृहस्य । गोभिः साकं क्रीडमाणः सुभिक्षं (K.सार्धं) क्षेमारोग्यं चाभिधत्ते मुदं च ॥ ८८.१०॥ वामं जिघ्रेज्जानु वित्तागमाय स्त्रीभिः साकं विग्रहो दक्षिणं चेत् । ऊरुं वामं चेन्द्रियार्थोपभोगः (K.उपभोगाः) सव्यं जिघ्रेदिष्टमित्रैर्विरोधः ॥ ८८.११॥ पादौ जिघ्रेद्यायिनश्चेदयात्रां प्राहार्थाप्तिं वाञ्छितां निश्चलस्य । स्थानस्थस्योपानहौ चेद्विजिघ्रेत् क्षिप्रं यात्रां सारमेयः करोति ॥ ८८.१२॥ उभयोरपि जिघ्रणे हि बाह्वोर् विज्ञेयो रिपुग्चौरसंप्रयोगः । अथ भस्मनि गोपयीत भक्षान् मांसास्थीनि च शीघ्रमग्निकोपः ॥ ८८.१३॥ (K.वा च) ग्रामे भषित्वा च बहिः श्मशाने भषन्ति चेदुत्तमपुंविनाशः । यियासतश्चाभिमुखो विरौति यदा तदा श्वा निरुणद्धि यात्राम् ॥ ८८.१४॥ उकारग्*वर्णे विरुते ऽर्थसिद्धिर् (K.वर्णेन रुते) ओकारवर्णेन च वामपार्श्वे । व्याक्षेपमौकारग्रुतेन विन्द्यान् निषेधकृत् सर्वरुतैश्च पश्चात् ॥ ८८.१५॥ *खङ्खेति चोच्चैश्च मुहुर्मुहुर्ये (K.सङ्खेति) रुवन्ति दण्डैरिव ताड्यमानाः । श्वानोऽभिधावन्ति च मण्डलेन ते शून्यतां मृत्युग्भयं च कुर्युः ॥ ८८.१६॥ प्रकाश्य दन्तान् यदि लेढि सृक्विणी तदाशनं मृष्टम् उशन्ति तद्विदः । (K.मिष्टम्) यदागाननं *लेढि पुनर् न सृक्विणी (K.च अवलिहेन्) प्रवृत्तभोज्येऽपि तदान्नविघ्नकृत् ॥ ८८.१७॥ ग्रामस्य मध्ये यदि वा पुरस्य भषन्ति संहत्य मुहुर्मुहुर्ये । ते क्लेशमाख्यान्ति तद्गीश्वरस्य श्वारण्यसंस्थो मृगवद्विचिन्त्यः ॥ ८८.१८॥ वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा । वायोर्गृहे सस्यभयं गृहान्तः पीडा पुरस्यैव च गोपुरस्थे ॥ ८८.१९॥ भयं च शय्यासु तद्गीश्वराणां याने भषन्तो भयदाश्च पश्चात् । अथापसव्या जनसन्निवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥ ८८.२०॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां श्वचक्राध्यायः समाप्तः ॥ ८८॥

८९ शिवारुताध्यायः

श्वभिः श‍ृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः । हूहू रुतान्ते परतश्च टाटा पूर्णः स्वरोऽन्ये कथिताः प्रदीप्ताः ॥ ८९.०१॥ लोमाशिकायाः खलु कक्कशब्दः पूर्णः स्वभावप्रभवः स तस्याः । येऽन्ये स्वरास्ते प्रकृतेरपेताः सर्वे च दीप्ता इति संप्रदिष्टाः ॥ ८९.०२॥ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता । धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥ ८९.०३॥ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः । गजाध्यक्षश्च पूर्वागाद्याः क्षत्रियाद्याश्चतुर्दिशम् ॥ ८९.४॥ सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना । पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा ॥ ८९.०५॥ याहीत्यग्निभयं शास्ति टाटेति मृतवेदिका । धिग्धिग्दुष्कृतिम् आचष्टे सज्वाला देशनाशिनी ॥ ८९.०६॥ (K.दुष्कृतम्) नैव दारुणतामेके सज्वालायाः प्रचक्षते । अर्काद्यनलवत् तस्या वक्त्रं लालास्वभावतः ॥ ८९.०७॥ अन्यप्रतिरुता याम्या सागुद्बन्धमृतशंसिनी । वारुण्यनुरुता सागेव शंसते सलिले मृतम् ॥ ८९.०८॥ अक्षोभः श्रवणं चेष्टं धनप्राप्तिः प्रियागमः । क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः ॥ ८९.०९॥ फलमा सप्तमादेतदग्राह्यं परतो रुतम् । याम्यायां तद्ग्विपर्यस्तं फलं षट्पञ्चमादृते ॥ ८९.१०॥ या रोमाञ्चं मनुष्याणां शकृन्ग्मूत्रं च वाजिनाम् । रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥ ८९.११॥ मौनं गता प्रतिरुते नरद्विरद*वाजिभिः । (K.वाजिनाम्) या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति ॥ ८९.१२॥ भेभागिति शिवा भयङ्करी भोभो व्यापदमादिशेच्च सा । मृतिग्बन्धनिवेदिनी फिफे हूहू चात्महिता शिवा स्वरे ॥ ८९.१३॥ (K.फिफ) शान्ता त्ववर्णात् *परमारुवन्ती (K.पवनौ रुवन्ती) टाटामुदीर्णामिति वाश्यमाना । टेटे च पूर्वं परतश्च थेथे तस्याः स्वतुष्टिप्रभवं रुतं तत् ॥ ८९.१४॥ उच्चैर्घोरं वर्णमुच्चार्य पूर्वं पश्चात् क्रोशेत् क्रोष्टुकस्यानुरूपम् । या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण ॥ ८९.१५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शिवारुताध्यायः समाप्तः ॥ ८९॥

९० मृगचेष्टिताध्यायः

सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ समापतन्तः । संप्रत्य्गतीतैष्यभयानि दीप्ताः कुर्वन्ति शून्यं परितो भ्रमन्तः ॥ ९०.०१॥ ते ग्राम्यसत्त्वैरनुवाश्यमाना भयाय रोधाय भवन्ति वन्यैः । द्वाभ्यामपि प्रत्यनुवाशितास्ते वन्दिग्*ग्रहायै च(K.ग्रहायैव) मृगा रुवन्ति ॥ ९०.०२॥ (K.भवन्ति) वन्ये सत्त्वे द्वारसंस्थे पुरस्य रोधो वाच्यः संप्रविष्टे विनाशः । सूते मृत्युः स्याद्भयं संस्थिते च गेहं याते बन्धनं संप्रदिष्टम् ॥ ९०.०३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मृगचेष्टिताध्यायः समाप्तः ॥ ९०॥

९१ गवेङ्गिताध्यायः

गावो दीनाः पार्थिवस्याशिवाय पादैर्भूमिं कुट्टयन्त्यश्च रोगान् । मृत्युं कुर्वन्त्यश्रुग्पूर्णायताक्ष्यः पत्युर्भीतास्तस्करान् आग्रुवन्त्यः ॥ ९१.०१॥ अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय । भृशं निरुद्धा यदि मक्षिकाभिस्तदागाशु वृष्टिं सरमात्मजैर्वा ॥ ९१.०२॥ आगच्छन्त्यो वेश्म बम्भारवेण संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः । आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा धन्या गावः स्युर्महिष्योऽपि चैवम् ॥ ९१.०३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गवेङ्गिताध्यायः समाप्तः ॥ ९१॥

९२ अश्वेङ्गिताध्यायः

उत्सर्गान् न शुभदं *आसनात् परस्थं (K.ऊ।आसनापरस्थं) वामे च ज्वलनमतोऽपरं प्रशस्तम् । सर्वाङ्गग्ज्वलनमवृद्धिदं हयानां द्वे वर्षे दहनकणाश्च धूपनं वा ॥ ९२.०१॥ अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते । पायौ च पुच्छे च पराजयः स्याद् वक्त्रोत्तमाङ्गग्ज्वलने जयश्च ॥ ९२.०२॥ स्कन्धासनांसग्ज्वलनं जयाय बन्धाय पादग्ज्वलनं प्रदिष्टम् । ललाटवक्षोऽक्षिभुजे च धूमः (K.अक्षिभुजेषु) पराभवाय ज्वलनं जयाय ॥ ९२.०३॥ नासापुटप्रोथशिरोऽश्रुपात- *नेत्रे च रात्रौ ज्वलनं जयाय । (K.नेत्रेषु) पलाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ॥ ९२.०४॥ प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः । अस्वप्नश्च विरोधिनां निशि दिवा निद्रालसध्यानता । (K.विरोधिता) सादोऽधोग्मुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् ॥ ९२.०५॥ आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः । उपवाह्यतुरङ्गमस्य वा कल्पस्यैव विपन्नशोभना ॥ ९२.०६॥ क्रौञ्चवद्रिपुग्वधाय ह्रेषितं (K.हेषितं) ग्रीवया त्वचलया च सोन्मुखम् । स्निग्धमुच्चमनुनादि हृष्टवद्ग् ग्रासग्रुद्धवदनैश्च वाजिभिः ॥ ९२.०७॥ पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि वा । द्रव्यमिष्टमथ वा परं भवेद् ध्रेषतां यदि समीपतो जयः ॥ ९२.०८॥ (K.धेषतां) भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकग्नन्दिनोऽथ वा । सव्यपार्श्वगतदृष्टयोऽथ वा वाञ्छितार्थफलदास्तुरङ्गमाः ॥ ९२.०९॥ वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः । सन्ध्यासु दीप्तामवलोकयन्तो ह्रेषन्ति चेद्बन्धपराजयाय ॥ ९२.१०॥ (K.हेषन्ति) अतीव ह्रेषन्ति किरन्ति वालान् (K.हेषन्ति) निद्रारताश्च प्रवदन्ति यात्राम् । रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः ॥ ९२.११॥ समुद्गवद्दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः । जयाय शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद्बुधः ॥ ९२.१२॥ आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिह्रेषते च । (K.प्रतिहेषते) वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुरचिरात् प्रचिनोति लक्ष्मीम् ॥ ९२.१३॥ मुहुर्मुहुर्मूत्रशकृत् करोति न ताड्यमानोऽप्यनुलोमयायी । अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते ॥ ९२.१४॥ (K.शुभम्) उक्तमिदं हयग्चेष्टितमत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि । तेषां तु दन्तकल्पनभङ्गम्लानादिचेष्टाभिः ॥ ९२.१५॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां अश्वेङ्गिताध्यायः समाप्तः ॥ ९२॥

९३ हस्तिचेष्टिताध्यायः

दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् । अधिकमनूपग्चराणां न्यूनं गिरिचारिणां किञ् चित् ॥ ९३.०१॥ श्रीवत्सवर्धमानच्छत्रध्वजचामरानुरूपेषु । छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ॥ ९३.०२॥ प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः । लोष्टे तु लब्धपूर्वस्य भवति देशस्य संप्राप्तिः ॥ ९३.०३॥ स्त्रीरूपेऽश्वविनाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः । (K.स्वविनाशो) कुम्भेन निधिग्प्राप्तिर्यात्राविघ्नं च दण्डेन ॥ ९३.०४॥ कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम् । (K.वशत्वम्) गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः ॥ ९३.०५॥ पाशेऽथ वा कबन्धे नृपमृत्युर्जनविपत् स्रुते रक्ते । कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ॥ ९३.०६॥ शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः । गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ॥ ९३.०७॥ मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः । स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥ ९३.०८॥ दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् । वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान् ॥ ९३.०९॥ (K.इभपान्) आदिशेदुभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम् । सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभमतोऽन्यथा वदेत् ॥ ९३.१०॥ (K.भवेत्) क्षीरमृष्ट फलपुष्पपादपेष्वापगातटविघट्टितेन वा । (K.क्षीरवृक्ष) वाममध्यरदभङ्गखण्डने शत्रुनाशकृदतोऽन्यथा परम् ॥ ९३.११॥ (K.खण्डनं) स्खलितगतिरकस्मात् त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तघस्तः पृथिव्याम् । द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशोऽसृक्शकृत्कृत् ॥ ९३.१२॥ (K.ऽसृक्छकृत् च) वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टिर् यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्य चोच्चैः । कक्ष्याग्सन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा तत्काले वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं च ॥ ९३.१३॥ (K.तत्कालं) प्रवेशनं वारिणि वारणस्य ग्राहेण नाशाय भवेन् नृपस्य । ग्राहं गृहोत्वा(K.ग्रिहीत्वा)गुत्तरणं नृपस्य (K.ऊ।द्विपस्य) तोयात् स्थलं वृद्धिग्करं नृभर्तुः ॥ ९३.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां हस्तिचेष्टिताध्यायः समाप्तः ॥ ९३॥

९४ वायसविरुताध्यायः

प्राच्यानां दक्षिणतः शुभदाः(K.शुभदः) काकाः करायिका वामाः । (K.वामा) विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्ध्याएव ॥ ९४.०१॥ वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता । निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥ ९४.०२॥ नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् । याम्योत्तरयोर्मध्यात् प्रधानवृष्टिस्तरोरुपरि ॥ ९४.०३॥ (K.मध्या) शिखिग्दिशि मण्डलवृष्टिर्नैरृत्यां शारदस्य निष्पत्तिः । परिशेषयोः सुभिक्षं मूषकग्*सम्पच्च वायव्ये ॥ ९४.०४॥ (K.सम्पत् तु) शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु । शून्यो भवति स देशश्चौरानावृष्टिग्रोगार्तः ॥ ९४.०५॥ द्विग्त्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् । अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय ॥ ९४.०६॥ चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैस्तु वह्निभयम् । विकलैर्दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः ॥ ९४.०७॥ अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः । (K.प्रवाशद्भिः) रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः ॥ ९४.०८॥ हयाश्च तुण्डपक्षैश्चरणविघातैर्जनान् अभिभवन्तः । कुर्वन्ति शत्रुग्वृद्धिं निशि विचरन्तो जनविनाशम् ॥ ९४.०९॥ सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् । अत्याकुलं भ्रमद्भिर्वातोद्भ्रमो भवति काकैः ॥ ९४.१०॥ ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः । सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥ ९४.११॥ भस्मास्थिग्केशपत्राणि विन्यसन् पतिवधाय शय्यायाम् । मणिग्कुसुमाद्यवहनने(K.अवहनेन) सुतस्य *जन्माप्यथाङ्गनायाश् च ॥ ९४.१२॥ (K.जन्माङ्गनायाश्च)(ऊ।जन्मान्यथाङ्गनायाश्) पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः । भयदो जनसंवासाद्यदि भाण्डान्यपनयेत् काकः ॥ ९४.१३॥ वाहनशस्त्रोपानत्छत्रछायाङ्गकुट्टने मरणम् । तत्पूजायां पूजा विष्ठाग्करणेऽन्नसंप्राप्तिः ॥ ९४.१४॥ यद्द्रव्यमुपनयेत् तस्य लब्धिरपहरति चेत् प्रणाशः स्यात् । पीतद्रव्यैः(K.पीतद्रव्ये) कनकं वस्त्रं *कार्पासिकैः सितैः रूप्यम् ॥ ९४.१५॥ (K.कार्पासिके सिते) सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च । प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुग्जलैः ॥ ९४.१६॥ दारुणग्नादस्तरुकोटरोपगो वायसो महाभयदः । सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥ ९४.१७॥ दीप्तोद्विग्नो विटपे विकुट्टयन् वह्निकृद्विधुतपक्षः । रक्तद्रव्यं दधं तृणकाष्ठं वा गृहे विदधत् ॥ ९४.१८॥ ऐन्द्र्यादिग्दिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिनः । राजभयग्चोरबन्धनकलहाः स्युः पशुभयं चेति ॥ ९४.१९॥ शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः । भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥ ९४.२०॥ आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च । याम्ये माषकुलूत्था भोज्यं गान्धर्विकैर्योगः ॥ ९४.२१॥ (K.कुलत्था) नैरृत्यां दूताश्वोपकरणदधितैलपललभोज्याप्तिः । वारुण्यां मांससुराआसवधान्यसमुद्ररत्नाप्तिः ॥ ९४.२२॥ मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च । सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ॥ ९४.२३॥ ऐशान्यां संप्राप्तिर्घृतपूर्णानां भवेदनडुहश्च । एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ॥ ९४.२४॥ गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति । हिमुखमुपैति यातुर्विरुवन् विनिवर्तयेद्यात्राम् ॥ ९४.२५॥ वामे वाशित्वागादौ दक्षिणपार्श्वेऽनुवाशते यातुः । अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥ ९४.२६॥ यदि वाम एव विरुवन् मुहुर्मुहुर्यायिनोऽनुलोमगतिः । (K.विरुयात्) अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ॥ ९४.२७॥ वामः प्रतिलोमगतिर्विरुवन् गमनस्य विघ्नकृद्भवति । (K.वाशन्) तत्रस्थस्यैव फलं कथयति तद्ग्वाञ्छितं गमने ॥ ९४.२८॥ दक्षिणविरुतं कृत्वा वामे विरुयाद्यथाईप्सितावाप्तिः । प्रतिवाश्य पुरो यायाद्द्रुतं *अत्यर्थागमो भवति ॥ ९४.२९॥ (K.अग्रेऽर्थागमोऽतिमहान्) प्रतिवाश्य पृष्ट्ःअतो दक्षिणेन यायाद्द्रुतं क्षतजकारी । (K.क्षतजकर्ता) एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरघेतुः ॥ ९४.३०॥ दृष्ट्वार्कमेकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि । पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥ ९४.३१॥ सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः । आकुलग्चेष्टो विरुवन् सीमान्ते क्लेशकृद्यातुः ॥ ९४.३२॥ सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु । सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः ॥ ९४.३३॥ (K.चार्थकरः) निष्पन्नसस्यशाद्वल भवनप्रासादहर्म्यहरितेषु । (K.शाड्वल, K.स्त्र्। शाद्वल) धन्य गुच्छ्रयमङ्गल्येषु चैव विरुवन् धनागमदः ॥ ९४.३४॥ (K.धान्य) गोपुच्छस्थे वल्मीकगेऽथ वा दर्शनं भुजङ्गस्य । सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥ ९४.३५॥ कार्यस्य व्याघातस्तृणकूटे वामगेऽम्बुग्संस्थे वा । (K.अस्थिसंस्थे) ऊर्ध्वाग्निग्प्लुष्टेऽशनिहते च काके वधो भवति ॥ ९४.३६॥ कण्टकिग्मिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च । कण्टकिनि भवति कलहो वल्लीग्परिवेष्टिते बन्धः ॥ ९४.३७॥ छिन्नाग्रेऽङ्गग्च्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्क्षे । पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः ॥ ९४.३८॥ मृतपुरुषाङ्गावयवस्थितोऽभिविरुवन् करोति मृत्युभयम् । (K.ऽभिवाशन्) भञ्जन्न् अस्थि च चञ्च्वा यदि विरुवत्य् अस्थिग्भङ्गाय ॥ ९४.३९॥ (K.वाशत्य्) रज्ज्व्गस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति । भुजगगददंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः ॥ ९४.४०॥ सितकुसुमाशुचिग्मांसाननेऽर्थसिद्धिर्यथाईप्सिता यातुः । *पक्षौ धुन्वन्न् ऊर्ध्वानने च विघ्नं मुहुः क्वणति ॥ ९४.४१॥ (K.धुन्वन् पक्षाव्) यदि श‍ृङ्खलां वरत्रां वल्लीं वागादाय वाशते बन्धः । पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ॥ ९४.४२॥ अन्योन्यभक्षसङ्क्रामितानने तुष्टिरुत्तमा भवति । विज्ञेयः स्त्रीग्लाभो दम्पत्योर्विरुवतोर् युगपत् ॥ ९४.४३॥ (K.वाशतोर्) प्रमदाग्शिरोपगतपूर्णकुम्भसंस्थेऽङ्गनार्थसंप्राप्तिः । घटकुट्टने सुतविपद्घटोपहदनेऽन्नसंप्राप्तिः ॥ ९४.४४॥ स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः । सूचयतेऽन्यत्ग्स्थानं निश्चलपक्षस्तु भयमात्रम् ॥ ९४.४५॥ (K.ऽन्यस्थानं) प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनाआमिषं ध्वाङ्क्षैः । अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च ॥ ९४.४६॥ बन्धः सूकरसंस्थे पङ्काक्ते सूकरे द्विकेऽर्थाप्तिः । क्षेमं खरोष्ट्रसंस्थे के चित् प्राहुर्वधं तु खरे ॥ ९४.४७॥ वाहनलाभोऽश्वगते विरुवत्यनुयायिनि क्षतजपातः । अन्येऽप्यनुव्रजन्तो यातारं काकवद्विहगाः ॥ ९४.४८॥ द्वात्रिंशत् प्रविभक्ते दिचक्रे यद्यथा समुद्दिष्टम् । तत्तत् तथा विधेयं गुणदोषफलं यियासूनाम् ॥ ९४.४९॥ का इति काकस्य रुतं स्वग्निलयसंस्थस्य निष्फलं प्रोक्तम् । कव इति चात्मप्रीत्यै केति रुते स्निग्धमित्राप्तिः ॥ ९४.५०॥ करागिति कलहं कुरुकुरु च हर्षमथ कटकटेति दधिभक्तम् । केके विरुतं कुकु वा धनलाभं यायिनः प्राह ॥ ९४.५१॥ खरेखरे पथिकागममाह कखाखागिति यायिनो मृत्युम् । गमनप्रतिषेधिकमा कखला सद्योऽभिवर्षाय ॥ ९४.५२॥ (K.आखलखल, K.स्त्र्। आ खलखल) काकागिति विघातः काकटीति चाहारदूषणं प्राह । (K.विघातं) प्रीत्य्गास्पदं कवकवेति बन्धमेवं कगाकुरिति ॥ ९४.५३॥ करगौ विरुते वर्षं गुडवत् त्रासाय वड् इति वस्त्राप्तिः । (K.करकौ) कलयेति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥ ९४.५४॥ कड् (K.फड्) इति फलाप्तिः फलदा ग् (K.फलवा) अहिदर्शनं टड्डिति प्रहाराः स्युः । (K.टडिति) स्त्रीग्लाभः स्त्रीति रुते गड् इति गवां पुड् इति पुष्पाणाम् ॥ ९४.५५॥ युद्धाय टाकुटाक्विति गुहु वह्निग्भयं कटेकटे कलहः । टाकुलि चिण्टिचि केकेकेति पुरं चेति दोषाय ॥ ९४.५६॥ काकद्वयस्यापि समानमेतत् फलं यदुक्तं रुतग्चेष्टिताद्यैः । पतत्रिणोऽन्येऽपि यथागेव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये ॥ ९४.५७॥ स्थलसलिलचराणां व्यत्ययो मेघकाले प्रचुरसलिलवृष्ट्यै शेषकाले भयाय । मधु भवनग्निलीनं तत् करोत्याशु शून्यं मरणमपि *च नीला मक्षिका मूर्ध्नि लीना ॥ ९४.५८॥ (K.निलीना) विनिक्षिपन्त्यः सलिलेऽण्डकानि पिपीलिका वृष्टिग्निरोधमाहुः । *तरुं स्थलं वापि नयन्ति निम्नाद् (K.तरुस्थलं, K.स्त्र्।तरुं स्थलं) यदा तदा ताः कथयन्ति वृष्टिम् ॥ ९४.५९॥ कार्यं तु मूलशकुनेऽन्तरजे तदह्नि विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः । प्रारम्भयानसमयेषु तथा प्रवेशे ग्राह्यं क्षुतं न शुभदं क्व चिदप्युशन्ति ॥ ९४.६०॥ शुभं दशाग्पाकमविघ्नसिद्धिं मूलाभिरक्षामथ वा सहायान् । दुष्टस्य संसिद्धिमनामयत्वं (K.इष्टस्य) वदन्ति ते मानयितुर्नृपस्य ॥ ९४.६१॥ क्रोशादूर्ध्वं शकुन विरुतं निष्फलं प्राहुरेके (K.शकुनि) तत्रानिष्टे प्रथमशकुने मानयेत् पञ्च षट् च । प्राणायामान् नृपतिरशुभे षोडशैव द्वितीये प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टस्तृतीयः ॥ ९४.६२॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वायसविरुताध्यायः समाप्तः ॥ ९४॥

९५ शाकुनोत्तराध्यायः

दिग्देशचेष्टास्वरवासरऋक्षमुहूर्तहोराकरणोदयांशान् । चरस्थिर उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद्रुतज्णः ॥ ९५.०१॥ (K.चिरस्थिर, K.स्त्र्। चरस्थिर) द्विविधं कथयन्ति संस्थितानां आगामिग्स्थिरसंज्ञितं च कार्यम् । नृपदूतचरान्यदेशजातान्य् हिघातः स्वजनादि चागमाख्यम् ॥ ९५.०२॥ उद्बद्धसङ्ग्रहणभोजनचौरवह्नि- वर्षोत्सवात्मजवधाः कलहो भयं च । वर्गः स्थिरोऽयमुदयेन्दुयुते स्थिरगृक्षे विद्यात् स्थिरं चरगृहे च चरं यदुक्तम् ॥ ९५.०३॥ स्थिरप्रदेशोपलमन्दिरेषु सुरालये भूजलसन्निधौ च । स्थिराणि कार्याणि चराणि यानि चलप्रदेशादिषु चागमाय ॥ ९५.०४॥ आप्योदयगृक्षक्षणदिग्जलेषु पक्षावसानेषु च ये प्रदीप्ताः । सर्वेऽपि ते वृष्टिकरा रुवन्तः शान्तोऽपि वृष्टिं कुरुतेऽम्बुचारी ॥ ९५.०५॥ आग्नेयदिग्लग्नमुहूर्तदेशेष्व् अर्कप्रदीप्तोऽग्निभयाय रौति । विष्ट्यां यमगृक्षोदयकण्टकेषु निष्पत्रवल्लीषु च दोषकृत् स्यात् ॥ ९५.०६॥ (K.मोषकृत्) ग्राम्यः प्रदीप्तः स्वरग्चेष्टिताभ्यां उग्रो रुवन् कण्टकिनि स्थितश्च । भौमगृक्षलग्ने यदि नैरृतीं च स्थितोऽभितश्चेत् कलहाय दृष्टः ॥ ९५.०७॥ लग्नेऽथ वागिन्दोर्भृगुभांशसंस्थे विदिक्ग्स्थितोऽधोवदनश्च रौति । दीप्तः स चेत् सङ्ग्रहणं करोति योन्या तया या विदिशि प्रदिष्टा ॥ ९५.०८॥ पुंराशिग्लग्ने विषमे तिथौ च दिक्स्थः प्रदीप्तः शुकुनो नराख्यः । वाच्यं तदा सङ्ग्रहणं नराणां मिश्रे भवेत् पण्डकसंप्रयोगः ॥ ९५.०९॥ एवं रवेः क्षेत्रग्नवांशलग्ने लग्ने स्थिते वा स्वयमेव सूर्ये । दीप्तोऽभिधत्ते शकुनो विरौति (K.विवासं) पुंसः प्रधानस्य हि कारणं तत् ॥ ९५.१०॥ प्रारम्भमाणेषु च सर्वकार्येष्वर्कान्विताद्भाद्गणयेद्विलग्नम् । (K.प्रारभ्यमाणेषु) सम्प्तद्विपच्चेति यथा क्रमेण सम्पद्विपच्चेति(K.वापि) तथैव वाच्यम् ॥ ९५.११॥ (K.वाच्या) काणेनाक्ष्णा दक्षिणेनैति सूर्ये चन्द्रे लग्नाद्द्वादशे चेतरेन । लग्नस्थेऽर्के पापदृष्टेऽन्ध एव कुब्जः स्वगृक्षे श्रोत्रहीनो जडो वा ॥ ९५.१२॥ क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद् यस्मिन् राशौ तद्गृहाङ्गे व्रणोऽस्य । (K.स्यात्) एवं प्रोक्तं यन् मया जन्मकाले चिह्नं रूपं तत् तदस्मिन् विचिन्त्यम् ॥ ९५.१३॥ अतः परं लोकग्निरूपितानि (K.ओमित्स्फ़्रोम् ९५.ॠ१अ तो ९५.ॠ३२/ ) द्रव्येषु नानाक्षरसङ्ग्रहाणि । / इष्टप्रणीतानि विभाजितानि / नामानि केन्द्रक्रमशः प्रवक्ष्ये ॥ ९५.ॠ१॥ लग्नाम्बुग्संस्थास्तनभःस्थितेषु क्षेत्रेषु ये लग्नगता गृहांशाः । / तेभ्योऽक्षराण्यात्मगृहाश्रयाणि / विन्द्याद्ग्रहाणां स्वगणक्रमेण ॥ ९५.ॠ२॥ कवर्गपूर्वान् कुजशुक्रचान्द्रि- जीवार्कजानां प्रवदन्ति वर्गान् । / यकारपूर्वाः शशिनो निरुक्ता / वर्णास्त्वकारप्रभवा रवेः स्युः ॥ ९५.ॠ३॥ द्रेष्काणवृद्ध्या प्रवदन्ति नाम त्रिग्पञ्चसप्ताक्षरमोजराशौ । / युग्मे तु विन्द्याद्द्विचतुष्कषट्कं / नामाक्षराणि ग्रहदृष्टिवृद्ध्या ॥ ९५.ॠ४॥ वर्गोत्तमे द्व्यक्षरकं चरांशे स्थिरगृक्षभागे चतुरक्षरं तत् । / ओजेषु चैभ्यो विषमाक्षराणि / स्युर्द्विस्वभावेषु तु राशिवच्च ॥ ९५.ॠ५॥ द्विमूर्तिग्संज्ञे तु वदेद्द्विनाम सौम्यगीक्षिते द्विप्रकृतौ च राशौ । / यावान् गणः स्वोदयगोऽंशकानां / तावान् ग्रहः सङ्ग्रहकेऽक्षराणाम् ॥ ९५.ॠ६॥ संयोगमादौ बहुलेषु विन्द्यात् कूटेषु संयोगपरं वदन्ति । / स्वोच्चांशके द्विष्कृतं ऋक्षयोगाद् / गुर्व्गक्षरं तद्भवनांशके स्यात् ॥ ९५.ॠ७॥ मात्रागादियुक्स्याद्ग्रहयुक्त्रिकोणे द्रेष्काणपर्यायवदक्षरेषु । नभोग्बलेषुऊर्ध्वमधोऽम्बुजेषु ज्ञेयो *विसर्गस्तु बल(ऊ।विसर्गोऽस्तबल)गन्वितेषु ॥ ९५.ॠ८॥ शीर्षोदयेषुगूर्ध्वमुशन्ति मात्रां अधश्च पृष्ठोदयशब्दितेषु । तीर्यक्च विन्द्यादुभयोदये तां दीर्घेषु दीर्घामितरेषु चान्याम् ॥ ९५.ॠ९॥ प्राग्लग्नतोयास्तनभःस्थितेषु भेष्वंशकेभ्योऽक्षरसङ्ग्रहः स्यात् । / क्रूरोऽक्षरं हन्ति चतुष्टयस्थो दृष्ट्यापि मात्रां च त्रिकोणगो वा ॥ ९५.ॠ१०॥ शुभग्रहस्तुगूर्जितवीर्यभागी स्थानांशतुल्याक्षरदः स चोक्तः । / पश्यन् स्थितः केन्द्रत्रिकोणयोर्वा स्वोच्चेऽपि वर्णद्वयमात्मभागे ॥ ९५.ॠ११॥ क्षेत्रेश्वरे क्षीणबलेऽंशके च मात्राक्षरं नाशमुपैति तज्जम् । / असम्भवेऽप्युद्भवमेति तस्मिन् वर्गाद्यमुच्चांशयुजिईशदृष्टे ॥ ९५.ॠ१२॥ केन्द्रे यथास्थानबलप्रकर्षं क्षेत्रस्य तत्ग्क्षेत्रपतेश्च बुद्ध्वा । / कार्योऽक्षराणामनुपूर्वयोगो मात्रागादिसंयोगविकल्पना च ॥ ९५.ॠ१३॥ तत्रादिराश्य्गादिचतुर्विलग्नं आद्य्गंशकादिक्रमपर्यायेण । / ग्रहांशकेभ्यः स्वगणाक्षराणां अन्वर्थने प्राप्तिरियं विधार्या ॥ ९५.ॠ१४॥ मेषे ककारो हिबुके यकारस् तुले चकारो मकरे पकारः । / मेषे छकारो हिबुकेऽप्यकारस् तुले खकारो मकरे फकारः ॥ ९५.ॠ१५॥ मेषे टकारो हिबुके ठकारस् तुले तकारो मकरे थकारः । / मेषे तु रेफा हिबुके जकारस् तुले बकारो मकरे गकारः ॥ ९५.ॠ१६॥ आकारमाद्येऽम्बुगते घकारं अस्ते भकारं मकरे झकारम् । / लग्ने डकारं हिबुके दकारं अस्ते धकारं मकरे ढकारम् ॥ ९५.ॠ१७॥ लग्ने ञकारो हिबुके मकारस् तुले ङकारो मकरे लकारः । / लग्ने ककारो हिबुके पकारस् तुले चकारो मकरे इकारः ॥ ९५.ॠ१८॥ लग्ने नकारो हिबुके तकारस् तुले णकारो मकरे टकारः । / इत्येतदुक्तं चरसंज्ञकस्य वक्ष्ये स्थिराख्यस्य चतुष्टयस्य ॥ ९५.ॠ१९॥ वृषे फकारो हिबुके खकारः कीटे वकारो नृघटे छकारः । आद्यांशकेभ्यो मतिमान् विदध्याद् अनुक्रमेण स्थिरसंज्ञकेषु ॥ ९५.ॠ२०॥ लग्ने बकारो हिबुके जकार ईकारमस्तेऽम्बरगे गकारः । वृषे थकारो हिबुके टकारः कीटे डकारो नृघटे दकारः ॥ ९५.ॠ२१॥ वृषे घकारो हिबुके शकारः कीटे झकारो नृघटे भकारः । लग्ने जकारो हिबुके उकारः कीटे ङकारो नृघटे मकारः ॥ ९५.ॠ२२॥ लग्ने ढकारोऽथ जले णकारश् चास्ते धकारोऽम्बरगे नकारः । वृषे षकारो हिबुके चकारः कीटे पकारो नृघटे ककारः ॥ ९५.ॠ२३॥ ऊकारमाहुर्वृषभे जले खं अस्ते फकारो नृघटे छकारः । अन्त्ये वृषे टं तमुशन्ति सिंहे थं सप्तगे ठं प्रवदन्ति कुम्भे ॥ ९५.ॠ२४॥ द्विमूर्तिसंज्ञे मिथुने जकाराः षष्ठे बकारः प्रथमांशके स्यात् । धनुर्धरेऽस्तोपगते गकारो मीनद्वये चाम्बरगे सकारः ॥ ९५.ॠ२५॥ लग्ने घकारो हिबुके भकारश् चास्ते झकारोऽम्बरमध्यगे ई । लग्ने दकारो हिबुके धकारं अस्ते डकारं विदुरम्बरे ढम् ॥ ९५.ॠ२६॥ लग्ने मकारो हिबुके ङकारश् अस्ते हकारोऽम्बरगे ञकारः । लग्ने पकारो जलगे चकार ऐकारमस्तेऽम्बरगे ककारः ॥ ९५.ॠ२७॥ प्राग्लग्ने नं जलगे णमाहुर् अस्तं गते टं नभसि स्थिते तम् । प्राग्लग्नगे खं जलगे यमाहुर् अस्तं गते छं नभसि स्थिते फम् ॥ ९५.ॠ२८॥ लग्ने जमोकारमथाम्बुसंस्थे गमस्तसंस्थे विदुरम्बरे बम् । ठं लग्नगेऽन्त्ये हिबुकाश्रिते डं थमस्तगे दं नभसि स्थिते वै ॥ ९५.ॠ२९॥ एवं विकल्पोऽक्षरसङ्ग्रहोऽयं नाम्नां निरुद्दिष्टविधान उक्तः । सर्वेषु लग्नेषु च के चिदेवं इच्छन्ति पूर्वोक्तविधानवत् तु ॥ ९५.ॠ३०॥ केन्द्राणि वा केन्द्रगतांशकैः स्वैः पृथक्पृथक्सङ्गुणितानि कृत्वा । त्रिकृद्ग्विभक्तं विदुरक्षरं तत् क्षेत्रगीश्वरस्याम्शपरिक्रमस्वम् ॥ ९५.ॠ३१॥ सञ्चिन्तितप्रार्थितनिर्गतेषु नष्टक्षतस्त्रीरतिभोजनेषु । स्वप्नगृक्षचिन्तापुरुषादिवर्गेष्व् एतेषु नामान्युपलक्षयेत ॥ ९५.ॠ३२॥ द्व्यक्षरं चरगृहांशकोदये नाम चास्य चतुर्गक्षरं स्थिरे । नामयुग्ममपि च द्विमूर्तिषु त्र्यक्षरं भवति चास्य पञ्चभिः ॥ ९५.१४॥ काद्यास्तु वर्गाः कुजशुक्रसौम्य जीवार्कजानां क्रमशः प्रदिष्टाः । वर्णाष्टकं यादि च शीतरश्मे रवेरकारात् क्रमशः स्वराः स्युः ॥ ९५.१५॥ नामानि चाग्न्य्गम्बुकुमारविष्णु- शक्रेन्द्रपत्नीग्चतुराननानाम् । तुल्यानि सूर्यात् क्रमशो विचिन्त्य द्विग्त्र्यादिवर्णैर्घटयेत् स्वबुद्ध्या ॥ ९५.१६॥ वयांसि तेषां स्तनपानबाल्य- व्रतस्थिता यौवनमध्यवृद्धाः । अतीववृद्धा इति चन्द्रभौम- ज्ञशुक्रजीवार्कशनैश्चराणाम् ॥ ९५.१७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुनोत्तराध्यायः समाप्तः ॥ ९५॥

९६ पाकाध्यायः

पक्षाद्भानोः सोमस्य मासिकोऽङ्गारकस्य वक्त्रोक्तः । आदर्शनाच्च पाको बुधस्य जीवस्य वर्षेण ॥ ९६.०१॥ षड्भिः सितस्य मासैरब्देन शनेः सुरद्विषोऽब्दार्धात् । वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥ ९६.०२॥ त्रिभिरेव धूमकेतोर्मासैः श्वेतस्य सप्तरात्रान्ते । सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥ ९६.०३॥ शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः । स्थिरग्चरयोरन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ॥ ९६.०४॥ अक्रियमाणककरणं भूकम्पोऽनुत्सवो दुरिष्टं च । शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥ ९६.०५॥ स्तम्भकुसूलार्चानां जल्पितरुदितप्रकम्पितस्वेदाः । मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥ ९६.०६॥ कीटाखुग्मक्षिकोरगबाहुल्यं मृगविहङ्गविरुतं च । लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते मासैः ॥ ९६.०७॥ प्रसवः शुनामरण्ये वन्यानां ग्रामसंप्रवेशश्च । मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद्वा ॥ ९६.०८॥ गोमायुगृध्रसङ्घा दशाहिकाः सद्य एव तूर्यरवः । आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः ॥ ९६.०९॥ अहुताशप्रज्वलनं घृततैलवसाआदिवर्षणं चापि । सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥ ९६.१०॥ छत्रग्चितियूपहुतवहबीजानां सप्तभिर्भवति पक्षैः । छत्रस्य तोरणस्य च केचिन् मासात् फलं प्राहुः ॥ ९६.११॥ अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् । मार्जारग्नकुलयोर्मूषकेण सङ्गश्च मासेन ॥ ९६.१२॥ गन्धर्वपुरं मासाद्रसवैकृत्यं हिरण्यविकृतिश्च । ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥ ९६.१३॥ नवकैकाष्टदशकैकषट्त्रिकत्रिकसङ्ख्यमासपाकानि । नक्षत्राण्यश्विनिपूर्वकाणि सद्यः फलाश्लेषा ॥ ९६.१४॥ पित्र्यान् मासः षट् सट्ग्त्रयोऽर्धमष्टौ च त्रिषडेकैकाः । मासग्चतुष्केऽषाढे सद्यः पाकाभिजित्तारा ॥ ९६.१५॥ सप्ताष्टवध्यर्धं त्रयस्त्रयः पञ्च चैव मासाः स्युः । श्रवणादीनां पाको नक्षत्राणां यथासङ्ख्यम् ॥ ९६.१६॥ निगदितसमये न दृश्यते चेद् अधिकतरं द्विगुणे प्रपच्यते तत् । यदि न कनकग्रत्नगोप्रदानैर् उपशमितं विधिवद्द्विजैश्च शान्त्या ॥ ९६.१७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पाकाध्यायः समाप्तः ॥ ९६॥

९७ नक्षत्रकर्मगुणाध्यायः

शिखिगुणरसेन्द्रियानलशशिविषयगुणऋतुपञ्चवसुपक्षाः । विषयैकग्चन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ॥ ९७.०१॥ भूतशतपक्षवसवो द्वात्रिंशच्चेति तारकामानम् । क्रमशोऽश्विन्य्गादीनां कालस्ताराप्रमाणेन ॥ ९७.०२॥ नक्षत्रजमुद्वाहे फलमब्दैस्तारकाग्मितैः सदसत् । दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः ॥ ९७.०३॥ अश्विग्यमदहनकमलजशशिशूलभृददितिजीवफणिपितरः । योन्य्गर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ॥ ९७.०४॥ शक्रो निरृतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥ ९७.०५॥ त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् । हिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भान् ॥ ९७.०६॥ मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति । हिघातमन्त्रवेतालबन्धवधभेदसम्बन्धाः ॥ ९७.०७॥ उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु । योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥ ९७.०८॥ लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पाउषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥ ९७.०९॥ मृदुग्वर्गो ऽनूराधाचित्रापौष्णाइन्दवानि मित्रार्थे । (K.मृदुवर्गस्त्व्) सुरतविधिग्वस्त्रभूषणमङ्गलगीतेषु च हितानि ॥ ९७.१०॥ हौतभुजं सविशाखं मृदुग्तीक्ष्णं तद्विमिश्रफलकारि । श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ ९७.११॥ हस्तत्रयं मृगशिरः श्रवणत्रयं च (K.श्रवनात्त्रयं) पूषाश्विग्शक्रगुरुभानि पुनर्वसुश्च । क्षौरे तु कर्मणि हितान्युदये क्षणे वा युक्तानि चोडुपतिना शुभतारया च ॥ ९७.१२॥ न स्नातमात्रगमनोन्मुख भूषितानां (K.उत्सुक) ह्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्याग्*निशाशनिकुजार्कतिथौ च रिक्ते (K.निशोः कुजयमार्कदिने) क्षौरं हितं न नवमेऽह्नि न चापि विष्ट्याम् ॥ ९७.१३॥ नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च । पुंसंज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥) हस्तो मूलं श्रवणा पुनर्वसुर्मृगशिरस्तथा पुष्यः । K.९८.१५॥ सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चोडुगणाधिपऋक्षे । वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ॥) लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने । K.९८.१७॥ शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पापैस्त्रिषष्ठायगैर् लग्ने केन्द्रगतेऽथ वा सुरगुरौ दैत्येन्द्रपूज्येऽपि वा । सर्वारम्भफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे सग्राम्यस्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा ॥ ९७.१६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्रकर्मगुणाध्यायः समाप्तः ॥ ९७॥

९८ तिथिकर्मगुणाध्यायः

कमलजविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः । धर्मगीशसवितृमन्मथकलयो विश्वे च तिथिपतयः ॥ ९८.०१॥ पितरोऽमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः । नन्दा भद्रा विजया रिक्ता पूर्णा च तास्त्रिविधाः ॥ ९८.०२॥ यत् कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत् कार्यम् । करणमुहूर्तेष्वपि तत् सिद्धिकरं देवतासदृशम् ॥ ९८.०३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां तिथिकर्मगुणाध्यायः समाप्तः ॥ ९८॥

९९ करणगुणाध्यायः

वववालवकौलव तैतिलाख्यगरवणिजविष्टिसंज्ञानाम् । (K.बवबालवकौलब) पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥ ९९.०१॥ कृष्णग्चतुर्दश्यर्धाद्धुवाणि शकुनिश्चतुष्पदं नागम् । (K.ऊ।ध्रुवाणि) किंस्तुघ्नमिति च तेषां कलिग्वृषफणिमारुताः पतयः ॥ ९९.०२॥ कुर्याद्ववे शुभग्चरस्थिरपौष्टिकानि (K.बवे) धर्मक्रियाग्द्विजहितानि च वालव आख्ये । (K.बालव) संप्रीतिग्मित्रवरणानि च कौलवे स्युः (K.कौलबे) सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥ ९९.०३॥ कृषिग्बीजगृहाश्रयजानि गरे वणिजि धुव ग्कार्यवणिग्युतयः । (K.ध्रुव) न हि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम् ॥ ९९.०४॥ कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्रास्तथा गोकार्याणि चतुष्पदे द्विजपितृन् उद्दिश्य राज्यानि च । नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः किंस्तुघ्ने शुभमिष्टि पुष्टिकरणं मङ्गल्यसिद्धिक्रियाः ॥ ९९.०५॥ (K.इष्ट) लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने । वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुग्चित्राहरिपौष्णभेषु ॥ ९९.०६॥ रोहिण्य्गुत्तररेवतीमृगशिरोमूलानुराधामघा- हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः । सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे ॥ ९९.०७॥ दम्पत्योर्द्विग्नवाष्टराशिरहिते चारानुकुले रवौ चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथ वा पापयोः । त्यक्त्वा च व्यतिपातवैधृति दिनं विष्टिं च रिक्तां तिथिं (K.वैधृत) क्रूराहायनपौषचैत्र विरहे लग्नांशके मानुषे ॥ ९९.०८॥ (K.चैत्रपौष) इति श्रीवराहमिहिरकृतौ बृहत्संहितायां करणगुणाध्यायः समाप्तः ॥ ९९॥

१०० नक्षत्रजातकाध्यायः

प्रियभूषणः स्वरूपः सुभगो दक्षोऽश्विनीषु मतिमांश्च । (K.सुरूपः) कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥ १००.०१॥ बहुभुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः । रोहिण्यां सत्यशुचिः प्रियंवदः *स्थिरः स्वरूपश्च ॥ १००.०२॥ (K.स्थिरसुरूपश्च) चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी । शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रऋक्षे ॥ १००.०३॥ दान्तः सुखी सुशीलो दुर्मेधा रोगभाक्पिपासुश्च । अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥ १००.०४॥ शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये । शठसर्वभक्षक्ष्य पापः कृतघ्नधूर्तश्च भौजङ्गे ॥ १००.०५॥ (K.भक्ष)(ऊ।भक्ष्य) बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्ये । प्रियवाग्दाता द्युतिमान् अटनो नृपसेवको भाग्ये ॥ १००.०६॥ सुभगो विद्यागाप्तधनो भोगी सुखभाग्द्वितीयफल्गुन्याम् । उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥ १००.०७॥ चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च चित्रायाम् । (K.भवति चित्रायाम्) दान्तो वणिक्तृषालुः प्रियवाग्धर्माश्रितः स्वातौ ॥ १००.०८॥ (K.कृपालुः) ईर्षुर् लुब्धो द्युतिमान् वचनपटुः कलहकृद्विशाखासु । (K.इर्ष्युर्) आढ्यो विदेशवासी क्षुधालुरटनोऽनुराधासु ॥ १००.०९॥ ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः । मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ १००.१०॥ इष्टाग्नन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे । वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥ १००.११॥ श्रीमान् श्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः । दातागाढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः ॥ १००.१२॥ स्फुटवाग्व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः । भद्रपदासूद्विग्नः स्त्रीजितधनपटुरदाता च ॥ १००.१३॥ वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिको द्वितीयासु । सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्णे ॥ १००.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नक्षत्रजातकाध्यायः समाप्तः ॥ १००॥

१०१ राशिविभागाध्यायः

अश्विन्योऽथ भरण्यो बहुलापादश्च कीर्त्यते मेषः । वृषभो बहुलाशेषं रोहिण्योऽर्धं च मृगशिरसः ॥ १०१.०१॥ मृगशिरोऽर्धं रौद्रं पुनर्वसोर्(K.पुनर्वसोर्च) अंशकत्रयं मिथुनः । (K.मिथुनम्) पादश्च *पुनर्वसुतस्तिष्यः श्लेषा च कर्कटकः ॥ १०१.०२॥ (K.पुनर्वसोः सतिष्योऽश्लेषा) सिंहोऽथ मघा पूर्वा च फल्गुनी पाद उत्तरायाश्च । तत्परिशेषं हस्तश्चित्राद्यर्धं च कन्याख्यः ॥ १०१.०३॥ तौलिनि चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः । अलिनि विशाखापादस्तथानुराधान्विता ज्येष्ठा ॥ १०१.०४॥ मूलमषाढा पूर्वा प्रथमश्चाप्युत्तरांशको धन्वी । मकरस्तत्परिषेशं श्रवणः पूर्वं धनिष्ठार्धम् ॥ १०१.०५॥ कुम्भोऽन्त्यधनिष्ठार्धं शतभिषगंशत्रयं च पूर्वायाः । भद्रपदायाः शेषं तथोत्तरा रेवती च झषः ॥ १०१.०६॥ अश्विनीग्पित्र्यमूलाद्या मेषसिंहहयादयः । विषमगृक्षान् निवर्तन्ते पादवृद्ध्या यथोत्तरम् ॥ १०१.०७॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां राशिविभागाध्यायः समाप्तः ॥ १०१॥

१०२ विवाहपटलाध्यायः

मूर्तौ करोति दिनकृद्विधवां कुजश्च राहुर्विपन्नतनयां रविजो दरिद्राम् । शुक्रः शशाङ्कतनयश्च गुरुश्च साध्वीं आयुःक्षयं प्रकुरुतेऽथ विभावरीशः ॥ १०२.०१॥ कुर्वन्ति भास्करशनैश्चरराहुभौमा दारिद्र्यदुःखमतुलं नियतं द्वितीये । वित्तेश्वरीमविधवां गुरुग्शुक्रसौम्या नारीं प्रभूततनयां कुरुते शशाङ्कः ॥ १०२.०२॥ सूर्येन्दुग्भौमगुरुशुक्रबुधास्तृतीये कुर्युः सदा बहुसुतां धनभागिनीं च । व्यक्तां दिवाकरसुतः सुभगां करोति (K.व्यक्तं) मृत्युं ददाति नियमात् खलु सैंहिकेयः ॥ १०२.०३॥ स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे दौर्भाग्यमुष्णकिरणः कुरुते शशी च । राहुः सपत्ननम्(K.सपत्न्यमू।सपत्नम्) अपि च क्षितिजोऽल्पवित्तं (K.अल्पवित्तां) दद्याद्भृगुः सुरगुरुश्च बुधश्च सौख्यम् ॥ १०२.०४॥ नष्टात्मजां रविकुजौ खलु पञ्चमस्थे (K.पञ्चमस्थौ) चन्द्रात्मजो बहुसुता गुरुभार्गवौ च । राहुर्ददाति मरणं शनिरुग्ररोगं कन्याग्*विनाशम् अचिरात् कुरुते शशाङ्कः ॥ १०२.०५॥ (K.प्रसूतिम्) षष्ठाश्रिताः शनिग्दिवाकरराहुजीवाः कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम् । चन्द्रः करोति विधवामुशना दरिद्रां ऋद्धां शशाङ्कतनयः कलहप्रियां च ॥ १०२.०६॥ सौरारग्जीवबुधराहुरवीन्दुशुक्राः कुर्युः प्रसह्य खलु सप्तमराशिग्संस्थाः । वैधव्यबन्धनवधक्षयमर्थनाश- व्याधिग्प्रवासमरणानि यथाक्रमेण ॥ १०२.०७॥ स्थानेऽष्टमे गुरुबुधौ नियतं वियोगं मृत्युं शशी भृगुसुतश्च तथैव राहुः । सूर्यः करोत्यविधवां सरुजां महीजः (K.सरुजं) सूर्यात्मजो धनवतीं पतिवल्लभां च ॥ १०२.०८॥ धर्मे स्थिता भृगुग्दिवाकरभूमिपुत्रा जीवश्च धर्मनिरतां शशिजस्त्वरोगाम् । राहुश्च सूर्यतनयश्च करोति बन्ध्यां (K.वन्ध्यां) कन्याप्रसूतिमटनां कुरुते शशाङ्कः ॥ १०२.०९॥ (K.अटनं) राहुर्नभःस्थलगतो विधवां करोति (K.नभस्थलगतो) पापे रतां दिनकरश्च शनैश्चरश्च । मृत्युं कुजोऽर्थरहितां कुलटां च चन्द्रः शेषा ग्रहा धनवतीं सुभगां च कुर्युः ॥ १०२.१०॥ आये रविर्बहुसुतां सधनां शशाङ्कः (K.धनिनीं) पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् । आयुष्मतीं सुरगुरुः शशिजः समृद्धां राहुः करोत्यविधवां भृगुरर्थयुक्ताम् ॥ १०२.११॥ अन्ते गुरुर्धनवतीं दिनकृद्दरिद्रां चन्द्रो धनव्ययकरीं कुलटां च राहुः । साध्वीं भृगुः शशिसुतो बहुग्पुत्रपौत्रां पानप्रसक्तहृदयां रविजः कुजश्च ॥ १०२.१२॥ गोपैर्यष्ट्य्गाहतानां खुरपुटदलिता या तु धूलिर्दिनान्ते सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री । तस्मिन् काले न चगृक्षं न च तिथिकरणं नैव लग्नं न योगः ख्यातः पुंसां सुखार्थं शमयति दुरितान्युत्थितं गोरजस्तु ॥ १०२.१३॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां विवाहपटलाध्यायः समाप्तः ॥ १०२॥

१०३ ग्रहगोचराध्यायः

प्रायेण सूत्रेण विनाकृतानि प्रकाशग्रन्ध्राणि चिरन्तनानि । रत्नानि शास्त्राणि च योजितानि नवैर्गुणैर्भूषयितुं क्षमाणि ॥ १०३.०१॥ प्रायेण गोचरो व्यवहार्योऽतस्तत्फलानि वक्ष्यामि । नानावृत्तैरार्या(K.तन्नो) मुखचपलत्वं *क्षमध्वं नः ॥ १०३.०२॥ (K.क्षमन्त्वार्याः) माण्डव्यगिरं श्रुत्वा न मदीया रोचतेऽथ वा नैवम् । साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला ॥ १०३.०३॥ सूर्यः षट्ग्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तग्नवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ । सौम्यः षड्ग्द्विचतुर्दशाष्टमगतः सूर्ये ऽप्युपान्ते शुभाः (K.ऊ।सर्वे) शुक्रः सप्तमग्षड्दशऋक्षसहितः शार्दूलवत् त्रासकृत् ॥ १०३.०४॥ जन्मन्यायासदोऽर्कः क्षपयति विभवान् कोष्ठरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति च न सुखं वञ्चनां दृग्रुजं च । स्थानप्राप्तिं तृतीये *धनग्निचयमुदा कल्यकृच्(K.धननिचयमुदाकल्यकृच्) चारिहर्ता (K.हन्ता) रोगान् दत्ते चतुर्थे जनयति च मुहुः स्रधराग्भोगविघ्नम् ॥ १०३.०५॥ (K.धत्ते) पीडाः स्युः पञ्चमस्थे सवितरि बहुशो रोगारिग्जनिताः षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपून् शोकांश्च नुदति । अध्वानं सप्तमस्थो जठरगदभयं दैन्यं च कुरुते । रुक्ग्त्रासौ चाष्टमस्थे भवति सुवदना न स्वापि वनिता ॥ १०३.०६॥ (K.रुक्कासौ) रवावापद्दैन्यं रुगिति नवमे वित्त चेष्टाविरोधो (K.चित्त) जयं प्राप्नोत्युग्रं दशमगृहगे कर्मसिद्धिं क्रमेण । जयस्थानं मानं विभवमपि चैकादशे रोगनाशं (K.जयं स्थानं) सुवृत्तानां चेष्टा भवति सफला द्वादशे नेतरेषाम् ॥ १०३.०७॥ शशी जन्मन्यन्नप्रवरशयनाच्छादनकरो द्वितीये मानार्थान् ग्लपयति सविघ्नश्च भवति । (K.मानार्थौ) तृतीये वस्त्रस्त्रीधनविजय सौख्यानि लभते (K.निचय) चतुर्थेऽविश्वासः शिखरिणि भुजङ्गेन सदृशः ॥ १०३.०८॥ दैन्यं व्याधिं शुचमपि शशी पञ्चमे मार्गविघ्नं षष्ठे वित्तं जनयति सुखं शत्रुरोगक्षयं च । यानं मानं शयनमशनं सप्तमे वित्तलाभं मन्दाक्रान्ते फणिनि हिमगौ च अष्टमे भीर्न कस्य ॥ १०३.०९॥ नवमगृहगो बन्धोद्वेगश्रमोदररोगकृद् दशमभवने च आज्ञाकर्मप्रसिद्धिकरः *शशी । (K.ओमित्तेद्) उपचयसुहृत्संयोगार्थप्रमोदमुपान्त्यगो वृषभग्चरितान् दोषान् अन्त्ये(K.अन्ते) करोति च सव्ययान् ॥ १०३.१०॥ (K.हि) कुजेऽभिघातः प्रथमे द्वितीये नरेन्द्रपीडा कलहारिदोषैः । भृशं च पित्तानलग्*चौररोगैर् उपेन्द्रवज्रप्रतिमोऽपि यः स्यात् ॥ १०३.११॥ (K.रोगचौरैर्) तृतीयगश्चौरकुमारकेभ्यो भौमः सकाशात् फलमादधाति । प्रदीप्तिमाज्ञां धनमौर्णिकानि धात्व्गाकराख्यानि किल अपराणि ॥ १०३.१२॥ भवति धरणिजे चतुर्थगे ज्वरग्जठरगदासृगुद्भवः । कुपुरुषग्जनिताच्च सङ्गमात् प्रसभमपि करोति च अशुभम् ॥ १०३.१३॥ रिपुगदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । द्युतिरपि न अस्य चिरं भवेत् स्थिरा शिरसि कपेरिव मालती यथा ॥ १०३.१४॥ (K.कृता) रिपुग्भयकलहैर्विवर्जितः सकनकविद्रुमताम्र*कामगः । (K.कागमः ऊॅहागम) रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते ॥ १०३.१५॥ कलत्रकलहाक्षिरुग्जठररोगकृत् सप्तमे क्षरत्ग्क्षतजरूक्षितः क्षपित वित्तमानोऽष्टमे । (K.क्षयित) कुजे नवमसंस्थिते परिभवार्थनाशादिभिर् विलम्बितगतिर्भवत्यबलदेहधातुक्लमैः ॥ १०३.१६॥ दशमगृहगते समं महीजे विविधधनाप्तिरुपान्त्यगे जयश्च । जनपदमुपरि स्थितश्च भुङ्क्ते वनमिव षट्चरणः सुपुष्पिताग्रम् ॥ १०३.१७॥ नानाव्ययैर्द्वादशगे महीसुते सन्ताप्यतेऽनर्थशतैश्च मानवः । स्त्रीग्कोपपित्तैश्च सनेत्रवेदनैर् योऽपि इन्द्रवंशाभिजनेन गर्वितः ॥ १०३.१८॥ दुष्टवाक्यपिशुनाहितभेदैर्बन्धनैः सकलहैश्च हृतस्वः । जन्मगे शशिसुते पथि गच्छन् स्वागतेऽपि कुशलं न श‍ृणोति ॥ १०३.१९॥ परिभवो धनगते धनलब्धिः सहजगे शशिसुते हृदयाप्तिः । (K.ऊ।सुहृदाप्तिः) नृपतिग्शत्रुभयशङ्कित*चितो द्रुतपदं व्रजति दुश्चरितैः स्वैः ॥ १०३.२०॥ (K.चित्तो) चतुर्थगे स्वजनकुटुम्बवृद्धयो धनागमो भवति च शीतरश्मिजे । सुतस्थिते तनयकलत्रविग्रहो निषेवते न च रुचिरामपि स्त्रियम् ॥ १०३.२१॥ सौभाग्यं विजयमथ उन्नतिं च षष्ठे वैवर्ण्यं कलहमतीव सप्तमे ज्ञः । मृत्युस्थे जयसुत वस्त्रवित्तलाभा (K.सुतजय) नैपुण्यं भवति मतिग्प्रहर्षणीयम् ॥ १०३.२२॥ विघ्नकरो नवमः शशिपुत्रः कर्मगतो रिपुहा धनदश्च । सप्रमदं शयनं च विधत्ते तद्गृहदोऽथ *कथां स्तरणं च ॥ १०३.२३॥ (K.कथास्तरणं) धनग्*सुतसुख(K.सुखसुत)योषिन्मित्र*वाह आप्तितुष्टिस् (K.वाह्य) तुहिनकिरणपुत्रे लाभगे मृष्टवाक्यः । रिपुग्परिभवरोगैः पीडितो द्वादशस्थे न सहति परिभोक्तुं मालिनीग्योगसौख्यम् ॥ १०३.२४॥ जीवे जन्मन्यपगतधनधीः स्थानभ्रष्टो बहुकलहयुतः । प्राप्य अर्थेऽर्थान् व्यरिरपि कुरुते कान्तागास्याब्जे भ्रमरविलसितम् ॥ १०३.२५॥ स्थान्ह्रंशात् कार्यविघाताच्च तृतीयेऽनेकैः (K.नैकैः) क्लेशैर्बन्धुजनोत्थैश्च चतुर्थे । जीवे शान्तिं पीडितचित्तश्च स विन्देद् (K.विन्देन्) नैव ग्रामे नापि वने मत्तमयूरे ॥ १०३.२६॥ जनयति च तनयभवनमुपगतः परिजनशुभसुतकरितुरगवृषान् । सकनकपुरगृहयुवतिवसनकृन् मणिगुणनिकरकृदपि विबुधगुरुः ॥ १०३.२७॥ न सखीग्वदनं तिलकोज्ज्वलं न *च वनं शिखिग्कोकिलनादितम् । (K.भवनं) हरिणप्लुतशावविचित्रितं रिपुगते मनसः सुखदं गुरौ ॥ १०३.२८॥ त्रिदशगुरुः शयनं रतिभोगं धनमशनं कुसुमान्युपवाह्यम् । जनयति सप्तमराशिमुपेतो ललितपदां च गिरं धिषणां च ॥ १०३.२९॥ बन्धं व्याधिं चाष्टमे शोकमुग्रं मार्गग्*क्लेशान् मृत्युतुल्यांश्च रोगान् । (K.क्लेशं) नैपुण्यागाज्ञापुत्रकर्मार्थसिद्धिं धर्मे जीवः शालिनीनां च लाभम् ॥ १०३.३०॥ स्थानकल्यधनहा दशऋक्षगस् तत्प्रदो भवति लाभगो गुरुः । द्वादशेऽध्वनि विलोमदुःखभाग् याति यद्यपि नरो रथोद्धतः ॥ १०३.३१॥ प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः सुरभिग्मनोज्ञगन्धकुसुमाम्बरैरुपचयम् । शयनगृहासनाशनयुतस्य च अनुकुरुते समदविलासिनीमुखसरोजषट्चरणताम् ॥ १०३.३२॥ शुक्रे द्वितीयगृहगे प्रसवार्थधान्य- भूपालग्*सन्नत कुटुम्बहितान्यवाप्य । (K.सन्नति) संसेवते कुसुमग्रत्नविभूषितश्च कामं वसन्ततिलकद्युतिमूर्धजोऽपि ॥ १०३.३३॥ आज्ञार्थमानास्पदभूतिवस्त्रशत्रुक्षयान् दैत्यगुरुस्तृतीये । दत्ते चतुर्थश्च सुहृत्ग्समाजं रुद्रेन्द्रवज्रप्रतिमां च शक्तिम् ॥ १०३.३४॥ (K.धत्ते) जनयति शुक्रः पञ्चमसंस्थो गुरुग्परितोषं बन्धुजनाप्तिम् । सुतधनलब्धिं मित्रसहायान् अनवसितत्वं च अरिबलेषु ॥ १०३.३५॥ षष्ठो भृगुः परिभवग्रोगतापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम् । यातोऽष्टमं भवनपरिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः ॥ १०३.३६॥ नवमे तु धर्मवनितासुखभाग् भृगुजेऽर्थवस्त्रनिचयश्च भवेत् । दशमेऽवमानकलहान् नियमात् प्रमिताक्षराण्यपि वदन् लभते ॥ १०३.३७॥ उपान्त्यगो भृगो सुतः सुहृद्ग्धनान्नगन्धदः । धनाम्बरागमोऽन्त्यगः स्थिरस्तु नाम्बरागमः ॥ १०३.३८॥ प्रथमे रविजे विषवह्निहतः स्वजनैर्वियुतः कृतबन्धुवधः । परदेशमुपैत्यसुहृद्ग्भवनो विमुखार्थसुतोऽटकदीनमुखः ॥ १०३.३९॥ चारवशाद्द्वितीयगृहगे दिनकरतनये रूपसुखापवर्जिततनुर्विगतमदबलः । अन्यगुणैः कृतं वसुचयं तदपि खलु भवत्य् अम्ब्विव वंशपत्रपतितं न बहु न च चिरम् ॥ १०३.४०॥ सूर्यसुते तृतीयगृहगे धनानि लभते दासपरिच्छदोष्ट्रमहिषाश्वकुञ्जरखरान् । सद्मविभूतिसौख्यममितं गदव्युपरमं भीरुरपि प्रशास्त्यधिरिपूंश्च वीरललितैः ॥ १०३.४१॥ चतुर्थं गृहं सूर्यपुत्रेऽभ्युपेते सुहृद्ग्वित्तभार्यादिभिर्विप्रयुक्तः । भवत्यस्य सर्वत्र चासाधु दुष्टं भुजङ्गप्रयातानुकारं च चित्तम् ॥ १०३.४२॥ सुतधनपरिहीणः पञ्चमस्थे प्रचुरकलहयुक्तश्च अर्कपुत्रे । विनिहतरिपुरोगः षष्ठयाते पिबति च वनितागास्यं श्रीपुटोष्ठम् ॥ १०३.४३॥ गच्छत्यध्वानं सप्तमे च अष्टमे च हीनः स्त्रीग्पुत्रैः सूर्यजे दीनचेष्टः । तद्वद्धर्मस्थे वैरघृद्रोगबन्धैर् धर्मोऽप्युच्छिद्येद्वैश्वदेवीग्क्रियाआद्यः ॥ १०३.४४॥ कर्मप्राप्तिर्दशमेऽर्थक्षयश्च विद्याग्कीर्त्योः परिहानिश्च सौरे । तैक्ष्ण्यं लाभे परयोषार्थग्*लाभश् (K.लाभा) च अन्त्ये प्राप्नोत्यपि शोकगूर्मिमालाम् ॥ १०३.४५॥ (K.अन्ते) अपि कालमपेक्ष्य च पात्रं शुभकृद्विदधात्यनुरूपम् । न मधौ बहु कं कुडवे वा विसृजत्यपि मेघवितानः ॥ १०३.४६॥ (K.च) रक्तैः पुष्पैर्गन्धैस्ताम्रैः कनकवृषबकुलकुसुमैर्दिवाकरभूसुतौ भक्त्या पूज्याविन्दुर्धेन्वा सितकुसुमरजतमधुरैः सितश्च मदप्रदैः । कृष्णद्रव्यैः सौरिः सौम्यो मणिग्रजततिलककुसुमैर्गुरुः परिपीतकैः प्रीतैः पीडा न स्यादुच्चाद्यदि पतति विशति यदि वा भुजङ्गविजृम्भितम् ॥ १०३.४७॥ शमयोद्गतामशुभदृष्टिमपि विबुधविप्रपूजया । शान्तिग्जपनियमदानदमैः सुजनाभिभाषणसमागमैस्तथा ॥ १०३.४८॥ रविग्भौमौ पूर्वार्धे शशिसौरौ कथयतोऽन्त्यगौ राशेः । सदसल्ग्लक्षणमार्यगीत्युपगीत्योर्यथासङ्ख्यम् ॥ १०३.४९॥ आदौ यादृक्सौम्यः पश्चादपि तादृशो भवति । उपगीतेर्मात्राणां गणवत् सत्संप्रयोगो वा ॥ १०३.५०॥ आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः । गण इव षष्ठे दृष्टः स(K.च) सर्वलघुतां जनं नयति ॥ १०३.५१॥ (K.गतो) अशुभग्निरीक्षितः शुभफलो बलिना बलवान् अशुभफलप्रदश्च शुभदृग्विषयोपगतः । अशुभशुभावपि स्वफलयोर्व्रजतः समतां इदमपि गीतकं च खलु नर्कुटकं च यथा ॥ १०३.५२॥ नीचेऽरिभेऽस्ते *च अरिदृष्टस्य(K.स्त्र्। अरिदृष्टस्य) सर्वं वृथा यत् परिकीर्तितम् । (K.स्त्र्। यथा) पुरतोऽन्धस्य इव कामिन्याः सविलासकटाक्षनिरीक्षणम् ॥ १०३.५३॥ सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति यथा । स्कन्धकमार्यागीतिर्वैतालीयं च मागधी गाथागार्याम् ॥ १०३.५४॥ सौरोऽर्करश्मिग्*योगात् सविकारो लब्धवृद्धिरधिकतरम् । (K.रागात्) पित्तवदाचरति नृणां पथ्यकृतां न तु तथागार्याणाम् ॥ १०३.५५॥ यादृशेन ग्रहेणेन्दुर्युक्तस्तादृग्भवेत् सोऽपि । मनोग्वृत्तिसमायोगाद्विकार इव वक्त्रस्य ॥ १०३.५६॥ पञ्चमं *लघु सर्वेषु सप्तमं द्विचतुर्थयोः । (K.सर्वपादेषु) यद्वत्ग्श्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः ॥ १०३.५७॥ प्रकृत्यापि लघुर्यश्च वृत्तबाह्ये व्यवस्थितः । स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः ॥ १०३.५८॥ प्रारब्धमसुस्थितैर्ग्रहैर्यत् कर्मात्मविवृद्धये बुधैः । (K.ऽबुधैः) विनिहन्ति तदेव कर्म तान् वैतालीयमिव अयथाकृतम् ॥ १०३.५९॥ सौस्थित्यमवेक्ष्य यो ग्रहेभ्यः काले प्रक्रमणं करोति राजा । अणुना अपि स पौरुषेण वृत्तस्याउपच्छन्दसिकस्य याति पारम् ॥ १०३.६०॥ उपचयभवनोपयातस्य भानोर्दिने कारयेद्धेमताम्राश्वकाष्ठास्थिचर्माउर्णिकाद्रिद्रुमत्वग्नखव्यालचौरायुधीयाटवीक्रूरराजोपसेवाभिषेकाउषधक्षौमपण्यादिगोपालकान्तारवैद्याश्मकूटावदाताभिविख्यातशूराहवश्लाघ्य*याय्य्(K.याज्य)*अग्निकर्माणि सिद्ध्यन्ति लग्नस्थिते वा रवौ । (K.अग्निकार्याणि) शिशिरकिरणवासरे तस्य व अप्युद्गमे केन्द्रसंस्थेऽथ वा भूषणं शङ्खमुक्ताब्जरूप्याम्बुयज्ञेक्षुभोज्याङ्गनाक्षीरसुस्निग्धवृक्षक्षुपानूपधान्यद्रवद्रव्य*विप्राध्वगीत(K.विप्राश्वशीत)क्रियाश‍ृङ्गिकृष्यादिसेनाधिपाक्रन्दभूपालसौभाग्यनक्तञ्चरश्लैष्मिकद्रव्यमातुल्य पुष्पाम्बरारम्भसिद्धिर्भवेत् ॥ (K.मातुङ्ग) क्षितितनयदिने प्रसिद्ध्यन्ति(K.प्रसिध्यन्ति) धात्वाकरादीनि सर्वाणि कार्याणि चामीकराग्निप्रवालायुधक्रौर्यचौर्याभिघाताटवीदुर्गसेनाधिकारास्तथा रक्तपुष्पद्रुमा रक्तमन्यच्च तिक्तं कटुद्रव्यकूटाहिपाशार्जितस्वाः कुमारा भिषक्शाक्यभिक्षुक्षपावृत्तिकोशेश(K.कौशेय)शाठ्यानि सिद्ध्यन्ति दम्भास्तथा । (K.सिध्यन्ति) हरति(ऊअरित, K.हरित)मणिग्महीसुगन्धीनि वस्त्राणि साधारणं नाटकं शास्त्रविज्ञानकाव्यानि सर्वाः कलायुक्तयो मन्त्रधातुक्रियावादनैपुण्यपुण्यव्रतायोगदूतास्तथाआयुष्यमायानृतस्नानह्रस्वाणि दीर्घाणि मध्यानि च छन्दतश्(K.च्छन्दनश्) चण्डवृष्टिप्रयातानुकारीणि कार्याणि सिद्ध्यन्ति सौम्यस्य लग्नेऽह्नि वा ॥ १०३.६१॥ (K.सिध्यन्ति) सुरगुरुग्दिवसे कनकं रजतं तुरगाः करिणो वृषभा भिषगौषधयः (K.ओषधयः) द्विजपितृसुरकार्यपुरःस्थितघर्मनिवारणचामरभूषणभूपतयः । विबुधभवनधर्मसमाश्रयमङ्गलशास्त्रमनोज्ञबलप्रदसत्यगिरः व्रतघवनधनानि च सिद्धिकराणि तथा रुचिराणि च वर्णकदण्डकवत् ॥ १०३.६२॥ भृगुसुतदिवसे च चित्रवस्त्रवृष्यवेश्यकामिनीविलासहासयौवनोपभोगरम्यभूमयः स्फटिकरजतमन्मथोपचारवाहनेक्षुशारदप्रकारगोवणिक्कृषीवलाउषधाम्बुजानि च । सवितृसुतदिने च कारयेन् महिष्य्गजोष्ट्रकृष्णलोहदासवृद्धनीचकर्मपक्षिचौरपाशिकान् च्युतविनयविशीर्णभाण्डहस्त्यपेक्षविघ्नकारणानि च अन्यथा न साधयेत् समुद्रगोऽप्यपां कणम् ॥ १०३.६३॥ विपुलामपि बुद्ध्वा छन्दोविचितिं भवति कार्यमेतावत् । श्रुतिग्सुखदवृत्तसङ्ग्रहमिममाह वराहमिहिरोऽतः ॥ १०३.६४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां ग्रहगोचराध्यायः समाप्तः ॥ १०३॥

१०४ रूपसत्राध्यायः

पादौ मूलं जङ्घे च रोहिणी जानुनी तथाश्विन्यः । (K.ओमित्तेद्) ऊरू च आषाढद्वयमथ गुह्यं फल्गुनीग्*द्वितयम् ॥ १०४.०१॥ (K.युग्मम्) कटिरपि च कृत्तिका पार्श्वयोश्च यमला भवन्ति भद्रपदाः । कुक्षिस्था रेवत्यो विज्ञेयमुरोऽनुराधा च ॥ १०४.०२॥ पृष्ठं विद्धि धनिष्ठां(K.धनिष्ठा) भुजौ विशाखा स्मृतौ करौ हस्तः । (K.विशाखां) अङ्गुल्यश्च पुनर्वसुराश्लेषासंज्ञिताश्च नखाः ॥ १०४.०३॥ ग्रीवा ज्येष्ठा *श्रवणं श्रवणौ पुष्यो मुखं द्विजाः स्वातिः । (K.श्रवणौ श्रवनः) हसितं शतभिषगथ नासिका मघा मृगशिरो नेत्रे ॥ १०४.०४॥ चित्रा ललाटसंस्था शिरो भरण्यः शिरोरुहाश्चार्द्रा । नक्षत्रपुरुषकोऽयं कर्तव्यो रूपमिच्छद्भिः ॥ १०४.०५॥ चैत्रस्य बहुलपक्षे ह्यष्टम्यां मूलसंयुते चन्द्रे । ह्य् उपवासः कर्तव्यो विष्णुं सम्पूज्य धिष्ण्यं च ॥ १०४.०६॥ (K.ओमित्तेद्) दद्याद्व्रते समाप्ते घृतपूर्णं भाजनं सुवर्णयुतम् । विप्राय कालविदुषे सरत्नवस्त्रं स्वशक्त्या च ॥ १०४.०७॥ अन्नैः क्षीरघृतोत्कटैः सह गुडैर्विप्रान् समभ्यर्चयेद् दद्यात् तेषु सुवर्ण वस्त्ररजतं लावण्यमिच्छन् नरः । (K.तथैव) पादगृक्षात् प्रभृति क्रमादुपवसन्न् अङ्गऋक्षनामस्वपि कुर्यात् केशवपूजनं स्वविधिना धिष्ण्यस्य पूजां तथा ॥ १०४.०८॥ प्रलम्बबाहुः पृथुपीनवक्षाः क्षपाकरास्यः सितचारुदन्तः । गजेन्द्रगामी कमलायताक्षः स्त्रीचित्तहारी स्मरतुल्यमूर्तिः ॥ १०४.०९॥ शरद्गमलपूर्णचन्द्रद्युतिसदृशमुखी सरोजदलनेत्रा । रुचिरदशना सुकर्णा भ्रमरोदरसन्निभैः केशैः ॥ १०४.१०॥ पुंस्कोकिलसमवाणी ताम्रोष्टी पद्मपत्रकरचरणा । (K.ऊ।ताम्रोष्ठी) स्तनभाराग्नतमध्या प्रदक्षिणावर्तया नाभ्या ॥ १०४.११॥ कदलीग्काण्डनिभऊरुः सुश्रोणी वरकुकुन्दरा सुभगा । (K.ऊ।ऊरूः) सुश्लिष्टाङ्गुलिग्पादा भवति प्रमदा *मनुष्यश्च ॥ १०४.१२॥ (K.मनुष्यो वा) यावन् नक्षत्रमाला विचरति गगने भूषयन्ती इह भासा तावन् नक्षत्रभूतो विचरति सह तैर्ब्रह्मणोऽह्नोऽवशेषम् । कल्पादौ चक्रवर्ती भवति हि मतिमांस्तत्क्षयाच्चापि भूयः संसारे जायमानो भवति नरपतिर्ब्राह्मणो वा धनाढ्यः ॥ १०४.१३॥ मृगशीर्षाद्याः केशवग्नारायणमाधवाः सगोविन्दाः । विष्णुग्मधुसूदनाख्यौ त्रिविक्रमो वामनश्चैव ॥ १०४.१४॥ श्रीधरग्नामा तस्मात् सहृषीकेशश्च पद्मनाभश्च । दामोदर इत्येते मासाः प्रोक्ता यथासङ्ख्यम् ॥ १०४.१५॥ मासग्नाम समुपोषितो नरो द्वादशीषु विधिवत् प्रकीर्तयन् । केशवं समभिपूज्य तत्पदं याति यत्र नहि जन्मजं भयम् ॥ १०४.१६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रूपसत्राध्यायः समाप्तः ॥ १०४॥

१०५ उपसंहाराध्यायः

ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया । लोकस्य आलोककरः शास्त्रशशाङ्कः समुत्क्षिप्तः ॥ १०५.०१॥ पूर्वाचार्यग्रन्था नोत्सृष्टाः कुर्वता मया शास्त्रम् । तान् अवलोक्येदं च प्रयतध्वं कामतः सुजनाः ॥ १०५.०२॥ अथ वा कृशम् अपि सुजनः प्रथयति दोषार्णवाद्गुणं दृष्ट्वा । (K.भृशम्) नीचस्तद्ग्विपरीतः प्रकृतिरियं साध्वसाधूनाम् ॥ १०५.०३॥ दुर्जनघुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति । श्रावयितव्यं तस्माद्दुष्टजनस्य प्रयत्नेन ॥ १०५.०४॥ ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति लेख्याद्बहुश्रुतमुखाधिगमक्रमेण । यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा परिहृत्य रागम् ॥ १०५.०५॥ दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनाइदम् । शास्त्रमुपसङ्गृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥ १०५.०६॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां उपसंहाराध्यायः समाप्तः ॥ १०५॥

१०६ शास्त्रानुक्रमणी

शास्त्रोपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च । शशिग्राहुभौमबुधगुरुसितमन्दशिखिग्रहाणां च ॥ १०६.०१॥ चारश्चागस्त्यमुनेः सप्तर्षीणां च कूर्मयोगश्च । नक्षत्राणां व्यूहो ग्रहभक्तिर्ग्रहविमर्दश्च ॥ १०६.०२॥ ग्रहशशियोगः सम्यग्ग्रहवर्षफलं ग्रहाणां च । श‍ृङ्गाटसंस्थितानां मेघानां गर्भलक्षणं चैव ॥ १०६.०३॥ धारणवर्षणरोहिणिवायव्याषाढभद्रपद योगाः । (K.भाद्रपद) क्षणवृष्टिः कुसुमलताः सन्ध्याग्चिह्नं दिशां दाहः ॥ १०६.०४॥ भूकम्पोल्काग्परिवेषलक्षणं शक्रचापखपुरं च । प्रतिसूर्यो निर्घातः सस्यद्रव्यार्घकाण्डं च ॥ १०६.०५॥ इन्द्रध्वजग्नीराजनखञ्जनकोत्पातवर्हि चित्रं च । (K.बर्हि) पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ॥ १०६.०६॥ उदक् आर्गलमारामिकममरालयलक्षणं कुलिशलेपः । (K.उदग्) प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ॥ १०६.०७॥ चिह्नं गवामथ शुनां कुक्कुटकूर्माजपुरुषचिह्नं च । पञ्चमनुष्यविभागः स्त्रीचिह्नं वस्त्रविच्छेदः ॥ १०६.०८॥ चामरदण्डपरीक्षा स्त्रीस्तोत्रं चापि सुभगकरणं च । कान्दर्पिकानुलेपनपुंस्त्रिकाध्यायशयनविधिः ॥ १०६.०९॥ वज्रपरीक्षा मौक्तिकलक्षणमथ पद्मरागमरकतयोः । दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम् ॥ १०६.१०॥ अन्तरचक्रं विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च । चरितं मृगाश्वकरिणां वायसविद्योत्तरं च ततः ॥ १०६.११॥ पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः । *गोचरमथ ग्रहाणां कथितो नक्षत्रपुरुषश्च ॥ १०६.१२॥ (K.गोचरस्तथा) शतमिदमध्यायानामनुपरिपाटिक्रमादनुक्रान्तम् । अत्र श्लोकसहस्राण्याबद्धान्यूनचत्वारि ॥ १०६.१३॥ अत्रैवान्तर्भूतं परिशेषं निगदितं च यात्रायाम् । बह्वाश्चर्यं जातकमुक्तं करणं च बहुचोद्यम् ॥ १०६.१४॥ इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शास्त्रानुक्रमणी समाप्तः ॥ १०६॥ इति ब्रिहत्संहिता समाप्ता । Originally digitized by Michio YANO and Mizue Sugita based on the edition of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation variants marked by K. and K's tr. and Utpala's commentary marked by U. variants start from *. Proofread by Yash Khasbage
% Text title            : Brihatsamhita
% File name             : bRRihatsaMhitA.itx
% itxtitle              : bRihatsaMhitA (varAhamihirAchAryavirachitA)
% engtitle              : Brihat Samhita
% Category              : jyotisha, sociology_astrology, varAhamihira
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Author                : varAhamihira
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Michio YANO and Mizue Sugita
% Proofread by          : Yash Khasbage
% Description/comments  : edition of A.V.Tripathi (Sarasvati Bhavan Granthamala)
% Indexextra            : (Text with trasnlation)
% Acknowledge-Permission: GRETIL
% Latest update         : June 26, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org