पूर्वम्: १।१।३८
अनन्तरम्: १।१।४०
 
प्रथमावृत्तिः

सूत्रम्॥ क्त्वातोसुन्कसुनः॥ १।१।३९

पदच्छेदः॥ क्त्वातोसुन्कसुनः १।३ अव्ययम् १।१ ३६

समासः॥

क्त्वा च तोसुंश्च कसुंश्च क्त्वातोसुन्कसुनः, इतरेतरद्वन्द्वः

अर्थः॥

क्त्वा तोसुन् कसुन् इत्येवम् अन्ताः शब्दाः अव्ययसंज्ञकाः भवन्ति।

उदाहरणम्॥

क्त्वा - पठित्वा, चित्वा, जित्वा, कृत्वा, हृत्वा। तोसुन् - पुरा सूर्यस्योदेतोराधेयः (का॰ सं॰ ८।३)। कसुन् - पुरा क्रूरस्य विसृपो विरप्शिन् (य॰ १।२८)॥
काशिका-वृत्तिः
क्त्वातोसुन्कसुनः १।१।४०

क्त्वा, तोसुन्, कसुन्, इत्येवम् अन्तं शब्दरूपम् अव्ययसंज्ञं भवति। कृत्वा। हृत्वा। तोसुन् व्युष्टायां पुरा सूर्यस्योदेतो राधेयः। पुरा वत्सानामपाकर्त्तोः। भावलक्षणे स्थाइण्कृञ्वदि ३।४।१६ इति इणः, कृञश्च तोसुन् प्रत्ययः। कसुन् सृपितृदोः कसुन् ३।४।१७। पुरा क्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः।
लघु-सिद्धान्त-कौमुदी
क्त्वातोसुन्कसुनः ३७१, १।१।३९

एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥
न्यासः
क्त्वातोसुन्कसुनः। , १।१।३९

"कृत्वा,ह्मत्वा" इति। "समानुकर्तृकयोः पूर्वकाले" ३।४।२१ इति क्त्वा। " उदेतोः" इति। "इण् गतौ" (धा।१०४५) "सार्वधातुक" ७।३।८४ इति गुणः। "अपाकर्त्तोः" इति। कृञः। "विसृपः"इति।"गम्लृ" (धा।९४२) "सृप्लृ" (धा।९८३) इतौ। "आतृदः" इति। "तृदिर् हिंसानारदयोः" (धा।१४४७)
बाल-मनोरमा
क्त्वातोसुन्कसुनः ४४४, १।१।३९

क्त्वातोसुन्। कृत्वेति। "समानकर्तृकयोः" इति क्त्वा। उदेतोरिति। उत्पूर्वादिणो "भावलक्षणे" इत्यादिना तोसुन्। विसृप इति। "सुपितृदोः कसुन्"।

तत्त्व-बोधिनी
क्त्वतोसुन्कसुनः ४०१, १।१।३९

क्त्वातोसुन्कसुनः। कृत्वेति। "समानकर्तृकयोः"इत्यादिना क्त्वा। उदेतोरिति। उत्पूर्वादिणो "भावलक्षणे स्थे"णित्यादिना "तोसुन्"। विसृप इति। "सृपितृदोः कसुन्"।