पूर्वम्: १।३।७२
अनन्तरम्: १।३।७४
 
प्रथमावृत्तिः

सूत्रम्॥ अपाद्वदः॥ १।३।७३

पदच्छेदः॥ अपात् ५।१ वदः ५।१ कर्त्रभिप्राये ७।१ ७२ क्रियाफले ७।१ ७२ आत्मनेपदम् १।१ १२

अर्थः॥

अपपूर्वात् वदधातोः कर्त्रभिप्राये क्रियाफले अर्थे आत्मनेपदं भवति।

उदाहरणम्॥

धनकामो न्यायम् अपवदते।
काशिका-वृत्तिः
अपाद् वदः १।३।७३

कर्त्रभिप्राये इति वर्तते। अपपूर्वद् वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। धनकामो न्यायम् अपवदते। न्यायापवादेन धनम् अर्जयिष्यामि इति मन्यते। कर्त्रभिप्रये क्रियफले इत्येव, अपवदति।
न्यासः
अपाद्वदः। , १।३।७३

"न्यायपवादेन" इत्यादिना येनाभिप्रायेण धनकामो न्यायमपवदते तं दर्शयति॥
बाल-मनोरमा
अपाद्वदः ५६५, १।३।७३

अपाद्वदः। अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः। न्यायमपवदते इति। वचनेने निरस्यतीतय्र्थः। "किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः" इति न्यायात्।