प्रथमावृत्तिः
सूत्रम्॥
राधीक्ष्योर्यस्य विप्रश्नः॥ १।४।३९
पदच्छेदः॥
राधीक्ष्योः ६।२ यस्य ६।१ विप्रश्नः १।१ सम्प्रदानम् १।१ ३२ कारके ७।१ २३
समासः॥
रादिश्च, ईक्षिश्च, राधीक्षी, तयोः ॰, इतरेतरद्वन्द्वः।
अर्थः॥
राधीक्ष्योः धात्वोः प्रयोगे यस्य विप्रश्नः = विविधः प्रश्नः क्रियते, तत् कारकं सम्प्रदानसंज्ञकं भवति।
उदाहरणम्॥
देवदत्ताय राघ्नोति। देवदत्ताय ईक्षते॥
काशिका-वृत्तिः
राद्ीक्ष्योर् यस्य विप्रश्नः १।४।३९
राधेरीक्षेश्च कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? यस्य विप्रशः। विविधः प्रश्नः विप्रश्नः। स कस्य भवति? यस्य शुभाशुभं पृच्छ्यते। देवदत्ताय राध्यति। देवदत्ताय ईक्षते। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः।
न्यासः
राधीक्ष्योर्यस्य विप्रश्नः। , १।४।३९
"राध्यति" इति। "राध साध संसिद्धौ" (धा।पा।१२६२,१२६३),दैवादिकः। "दैवम्" इति शुभाशुभं कर्म। यस्येति ग्रहणं विस्पष्टार्थम्। तथा हि-- "यं प्रति" इत्यनुवत्र्तते, तत्र यं विप्रश्न इत्येवमभिसम्बन्धे क्रियमाणे यस्येत्यस्यार्थोऽप्रयुज्यमानस्यापि गम्यत एव।
तत्त्व-बोधिनी
राधीक्ष्योर्यस्य विप्रश्नः ५१२, १।४।३९
राधीक्ष्योः। "राध संसिद्धौ", "ईक्ष दर्शने"। अनयोस्त्विह शुभाऽशुभपर्यालोचनमर्थस्तञ्च प्रश्नपूर्वकमित्याशयेन विवृणोति--पृष्टो गर्ग इति। शुभाऽशुभरूपयोः कर्मणोर्धात्वर्थेनोपसंग्रहादकर्मकावेतौ। अतएव राध्यतीति श्यन्, "राधोऽकर्मकाद्वृद्धावेव" इथि दिवादिषु वक्ष्यमाणेनि गणसूत्रेणाऽकर्मकादेव तद्विधानात्, कृष्णसम्बन्धि शुभाऽशुभमित्यर्थाभ्युपगमात् षष्ठ()आं प्राप्तायां वचनमिदम्।