पूर्वम्: १।४।४७
अनन्तरम्: १।४।४९
 
प्रथमावृत्तिः

सूत्रम्॥ उपान्वध्याङ्वसः॥ १।४।४८

पदच्छेदः॥ उपान्वध्याङ्वसः ६।१ कर्म १।१ ४६ आधारः १।१ ४५ कारके ७।१ २३

समासः॥

अप च अनु च अधि च आङ् च उपान्यध्याङः, तेभ्यः वस् उपान्वध्याङ्वस्, तस्य ॰ द्वन्द्वगर्भपञ्चमीतत्पुरुषः।

अर्थः॥

अप, अनु, अधि, आङ्, इत्येवंपूर्वात् वसधातोः प्रयोगे आधारः यत्कारकं, तत् कर्मसंज्ञं भवति॥

उदाहरणम्॥

ग्रामम् उपवसति सेना (ग्रामस्य समीपे सेना तिष्ठति)। पर्वतम् उपवसति। ग्रामम् अनुवसति (ग्रामेण सह सेना तिष्ठति)। ग्रामम् अधिवसति (ग्रामस्य सेना तिष्ठति)। ग्रामम् आवसति (ग्रामे वसति)॥
काशिका-वृत्तिः
उपान्वध्याङ्वसः १।४।४८

उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्रामम् उपवसति सेना। पर्वतम् उपवसति। ग्रामम् अनुवसति। ग्रामम् अधिवसति। ग्रामम् आवसति। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः। ग्रामे उपवसति। भोजननिवृत्तिं करोति इत्यर्थः।
बाल-मनोरमा
उपान्वध्याङ्वसः ५३६, १।४।४८

उपान्वध्याङ्वसः। उप अनु अधि अङ् इत्येतेषां द्वन्द्वः। उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः। तदाह--उपादिपूर्वस्येति। उपवसतीत्यादि। वैकुण्ठे वसतीत्यर्थः। उपसर्गा आधारत्वद्योतकाः। अत्र "वसेरश्यर्थस्य प्रतिषेधः" इति वार्तिकम्। तत्राऽर्थशब्दो निवृत्तिवचनः। "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः। भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः। भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत्।

तदेतदर्थतः। सङ्गृह्णाति--अभुक्त्यर्थस्य नेति। उभसर्वतसोरिति। वार्तिकम्। उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः। धिगिति। धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या। "प्रकृतिवदनुकरणमि"त्यव्ययत्वात्सुपो लुक्। उपर्यादिष्वित्यनेन "उपर्यध्यधसः सामीप्ये" इति सूत्रोपात्तान्यव्ययानि गृह्रन्ते। द्विरुक्तस्य परमाम्रेडितम्। तदन्तेषु। कृतद्विर्वचनेष्विति यावत्। तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः। तत इति। उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः। उभयतः कृष्णं गोपा इति। कृष्णस्य पार्(ाद्वयेऽपीत्यर्थः। आद्यादित्वात्तसिः। "उभयोऽन्यत्रे"त्ययच्। षष्ठ()र्थे द्वितीया। सर्वतः कृष्णमिति। कृष्णस्य सर्वेषु पार्(ोषु गोपा इत्यर्थः। धिक्कृष्णाभक्तमिति। धिक्-निन्दायाम्। कृष्णाभक्तस्य निन्देत्यर्थः। केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः। "धिङ्मूर्खे"त्यत्र तु "नषिद्धाचरण"मित्यध्याहार्यम्। उपर्युपरीति। "उपर्यध्यधसः सामीप्ये" इति द्विर्वचनम्। लोकस्य समीपे उपरि हरिरस्तीत्यर्थः। अध्यधीति। लोकस्य समीपदेसे हरिरस्तीत्यर्थः। अधोऽध इति। लोकस्य समीपे अधो हरिरस्तीत्यर्थः।

अबितः परित इति। "ततोऽन्यत्रापि दृश्यते" इत्यस्य प्रपञ्चोऽयम्। "योगेऽपी"त्यनन्तरं "द्वितीये"ति शेषः। अभितः कृष्णमिति। "गोपा" इति शेषः। कृष्णस्य पार्(ाद्वयेऽपीत्यर्थः। परितः कृष्णमिति। कृष्णस्य सर्वेषु पार्(ोषु गोपा इत्यर्थः। "पर्यभिभ्यां चे"ति तसिल्। ग्रां समया निकषेति। "समया" "निकषा" इति च आकारान्ते अव्यये। "ग्राम"मित्यस्य प्रत्येकमन्वयः। ग्रामस्य समीपे इत्यर्थः। "निकषाऽन्तिके" "समयाऽन्तिकमध्ययोः" इति चामरः। विलङ्घ्य लङ्कां निकषा हनिष्यती"ति माघः। हा कृष्णाभक्तमिति। "हा" इत्याकारान्तमव्ययं खेदे। "हा विषादशुगार्तिषु" इत्यमरः। तदाह-तस्य शोच्यतेत्यर्थ इति। कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये। प्रतियोगमुदाहरति--बुभुक्षितमिति। क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः। "भा दी#उ()तौ"। इह तु उपसर्दबलात्स्फुरणे वर्तते। ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम्। एवंच "कर्मप्रवचनीययुक्ते द्वितीया" इत्यनेन गतार्थत्वं न भवति।

तत्त्व-बोधिनी
उपान्वध्याङ्वसः ४८२, १।४।४८

उपान्व। "लुग्विकरणादलुग्विकरणं बलीय"इति "वस निवासे"इति भौवादिक एव गृह्रते, न तु "वस आच्छादने"इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह---उपादिपूर्वस्य वसतेरिति। "वसेरशश्यर्थस्य प्रतिषेधः"इति वार्तिकमर्थतो व्याचष्टे---

अभुक्त्यर्थस्य न। अभुक्त्यर्थस्य नेति। वार्तिके अर्थशब्दो निवृत्तिवचनः। भोजननिवृत्तिवाचकस्य वसेराधारः कर्म नेत्यर्थः। वने उपवसतीति। कथं तर्हि "गत्र्थाऽकर्मके"ति सूत्रे "हरिदिनमुपोषितः"इत्युदाहरणं सङ्गच्छत इति चेत्। अत्राहुः--वसेरत्र स्थितिरर्थः, भोजननिवृत्तिस्त्वार्थिकीति न दोष इति। उपपदविभक्तिमाह--उभसर्वतसोरित्यादिना। उभसर्वयोस्तसौ उभसर्वतसो, तदन्तयोर्योगे द्वितीय कार्येत्यर्थः। प्रकृतिद्वित्वेन तसोरिति द्वित्वनिर्देशः। अत्र उभशब्दादयत् न कृतः, अनुकरणशब्दत्वेनाऽसङ्ख्यावाचित्वात्। तथाच उभशब्देन उभयशब्दो लक्ष्यते, केवलात्परत्र तसिलोऽसम्भवादित्येके। वस्तुतस्तु वृत्तिविषये अयच्प्रवृत्तावपि उभशब्दाद्विहितो यस्तस् तदन्तमस्त्येवेति यथाश्रुतं साधु इति तु मनोरमायां स्थितम्। धिगिति। धिक्()शब्दयोगेऽपि द्वितीया कार्येत्यर्थः। अत्र प्राञ्चः--"धि"गित्यविभक्तिको निर्देशो गवित्ययमाहेतिवदित्याहुः। तन्न। तथा सत्यपदान्ततया दृष्टन्ते "लोपः शाकल्यस्य"इत्यस्येव दार्ष्टान्तिके जश्त्वस्याप्यप्रवृत्तिसङ्गात्। न चायं गकारान्त एवास्त्विति शङ्क्यम्। "कस्य च दः"इति सूत्रे "धकि"दित्युदाहरणस्याऽसङ्गतिप्रसङ्ग#आत्। "कस्य च दः"इत्यनेन हि कान्ताव्ययस्याऽकच्सन्नियोगेन दत्वं विधीयते, तस्माद्धिगिति विभक्त्यन्तमेव। परन्तु "प्रकृतिवदनुकरण"मित्यतिदेशेनाऽव्ययत्वात्सुपो लुक्। यदि तु धिगित्यविभक्तितो निर्देश इत्येतावानेव प्राचां ग्रन्थस्तदा सम्यगेव। अव्ययत्वात्सुपो लुक्यविभक्तिको निर्देश इति वक्तुं शक्यत्वात्। उभयतः कृष्णमिति। कृष्णस्य पार्(ाद्वयेऽपूत्यर्थः। आद्यादित्वात्तसिः। षष्ठ()र्थे द्वितीया। एवमुपपदविभक्तौ सर्वत्र बोध्यम्। अत्र--व्याचक्षते--"उभसर्वतसो"रित्यत्र उभसर्वयोर्गणे परस्परसाहचर्यात्तसिलेव गृह्रते, न त्वाद्यादिभ्य इति तसिः। तथा चोभयत इत्यादौ "तसेश्चे"त्यनेन तसिलादेशोऽवगन्तव्यस्तेन यत्र सञ्ज्ञायां तसेस्त सिलादेशाऽभावस्तत्र न द्वितीया, किन्तु षष्ठ()एव। तसिलभावस्तु "तसेश्चे"त्यत्र "किंसर्वनामबहुभ्यः"इत्यनुवर्तनादिति। धिक् कृष्णाभक्तमिति। तस्य निन्द्यतेत्यर्थः। षष्ठ()र्थे द्वितीया। स निन्द्य इत्यर्थः। प्रथमार्थे द्वितीयेत्येके। कथं धिह् सूर्खेति()। सम्बोधनपदस्य क्रियमन्वय इति प्रागेवोक्ततया धिक्शब्दयोगाऽभावाद्द्वितीया न प्रवर्तत इति "सम्बोधने चे"ति प्रथमैव भव[ती]ति। क्रियापदं च क्वचिच्छ्रुतं क्वचिदाक्षिप्तम्। तथा च धिङ् मूर्क निषिद्धाचरणमिदमित्येतदिह कल्प्यम्। मूर्खसम्बोध्यकनिषिद्धाचरणस्य निन्द्यतेति तु वाक्यार्थः। "प्रथमार्थे धिग्योदे द्वितीये"ति वादिनां तु मूर्खसम्बोध्यकं निषिद्धाचरमं निन्द्यमिति वाक्यार्थः। यत्तु "उपपदविभक्तेः कारकविभक्तिर्बलीयसी"ति सम्बोधने प्रथमैव भवति, सम्बोधनपदस्य कर्तृकारकवाचित्वादित्याहुः। तच्चिन्त्यम्। सम्बोधनस्य कर्तृकारकत्वे उक्तिसम्भवाऽभावात्। न च "देव प्रसीदे"त्यादौ वस्तुगत्या देव एव कर्तेत्यस्त्येवोक्तिसम्भव इति वाच्यम्, वास्तवकर्तृत्वेऽपि कारकविभक्तित्वस्याऽलाभात्। किञ्च "देव त्वां भजे, त्वां भजन्ति भक्ता"इत्यादौ सम्बोध्यदेवस्य वास्तवमपि कर्तृत्वं नास्तीति आस्तां तावत्। उपर्युपरीति। कथं तर्हि "उपर्युपरिबुद्धीनां चरन्तीस्वरबुद्ध्यः"इति()। अत्राहुः--उपरिबुद्धीनाम्ुत्तानबुद्धीनामुपरि चरन्तीत्यर्थः। तेनाऽ‌ऽत्राम्रेडितत्वाऽभावान्न द्वितीया। यद्वा--प्रतिपदोक्तस्य "उपर्यध्यधसः सामीप्ये"इति कृतद्वित्वस्य वार्तिके ग्रहणादिह च वीप्साद्विर्वचनत्वान्नास्ति द्वितीयाप्रसक्तिरिति।

अभितः परितः समयानिकषाहाप्रतियोगेऽपि। अभितः परितैति। एतच्च "अन्यत्रापि दृश्यत" इति पूर्वोक्तस्यैव प्रपञ्चभूंतमिति व्याचख्युः। लङ्कां निकषा हनिष्यती"ति माघः। "ह"ति खेदे, तदेतदाह--तस्य शोच्यतेति। बुभुक्षितमिति। बुभुक्षितस्येत्यर्थः। एष प्रतिशब्दः क्रियाविशेषकत्वादुपसर्गः, न तु कर्मप्रवचनीयः। तेनाऽत्र "कर्मप्रवचनीययुक्ते---" इत्यनेन गतार्थता न शङ्क्या।