पूर्वम्: २।१।२
अनन्तरम्: २।१।४
 
प्रथमावृत्तिः

सूत्रम्॥ प्राक् कडारात् समासः॥ २।१।३

पदच्छेदः॥ प्राक् कडारात् ५।१ समासः १।१ २।२।३८

काशिका-वृत्तिः
प्राक् कडारात् समासः २।१।३

कडारसंशब्दनात् प्राग् यानित उर्ध्वम् अनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति यथा ऽसादृश्ये २।१।७। यथा वृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः तृतीयासमासे १।१।२९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
प्राक्कडारात्समासः ९०८, २।१।३

कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥
न्यासः
प्राक्कडारात्समासः। , २।१।३

"यथावृद्धम्" इति। अत्र समाससंज्ञायां सत्याम् "कृत्तद्धितसमासाश्च " १।२।४६ इत्येवमादि कार्यं भवति। अथ किमर्थं प्राग्वचनम्? यावता पञ्चमीनिर्देंशादेव प्रागित्यस्याध्याहारो भविष्यति; न च परागित्ययमपि दिक्छब्दोऽस्ति, अतस्तस्याप्यध्याहारः स्यादित्यशङ्कनीयम्, तदध्याहारे कडारसंशब्दनात् परे येऽनुक्रंस्यन्ते तेषां समाससंज्ञा स्यात्; तथा च कडारसंशब्दनादनन्तरमेव समासाधिकारं कुर्यात्, इह तु कृतः, तस्मादिह करणसामथ्र्यात् समासाधिकारस्य प्रागित्यस्याध्याहारो भविष्यति, ततो नार्थः प्राग्वचनेनेत्याह-- " प्राग्वचनम्" इत्यादि। उत्तरत्राव्ययीभावादिसंज्ञाभिः सह समाससंज्ञायाः समावेशो यथा स्यादित्येवमर्थ प्राग्वचमनम्। असति तु तस्मिन्, ताभिरनवकाशाभिरियं संज्ञाल बाध्येत। अस्यास्तु समाससंज्ञायाः "सह सुपा" २।१।४ इत्यत्र सहेति योगविभागेन यः समासः क्रिते सोऽवकाशः स्यात्-- अनुप्रावर्षत्, अनुव्यचलदिति, तिङन्तेनात्र समासः; असत्यपि सावकाशत्व एकसंज्ञाधिकारे वचनप्रमाण्यात् पर्यायेण वृत्तिः स्यात्, न तु समावेशः। साक्षात् सूत्रेणोपात्ते तु प्राग्वचने सति भवति समावेशः, कथम्? एवं हि सम्बन्धः क्रियते-- कडारात् प्राग्यावन्तो व्यवस्थितः सर्वे ते समाससंज्ञका भवन्ति, समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञां लभन्त इत। तेन निमित्तमेव समाससंज्ञाऽव्ययीभावादिसंज्ञानाम्। नच निमित्तिना निमित्तं विहन्यते; अन्यथा तस्य निमित्तत्वमेव न स्यादिति युक्तः सूत्रोपात्तेन प्राग्वचनेन समावेशः। अध्याह्मते तु तस्मिन् "कडारसंशब्दनात्प्राग्यावन्तो व्यवस्थिताः सर्वे ते समाससंज्ञका भवन्ति" इत्येषोऽर्थो लभ्यते, न तु "समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञकाः" इत्येषोऽपि। साक्षात् सूत्रोपात्ते तु तस्मिन्नेषोऽपि लभ्यते; अन्यथा तस्य सूत्रे साक्षादुपादानमनर्थकं स्यात्॥
बाल-मनोरमा
प्राक्कडारात्समासः ६४०, २।१।३

प्राक्कडारात्। "आकडारात्" इत्येव "प्रा"गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम्। सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः। समस्यते अनेकं पदमिति समासः। "अकर्तरि च कारके संज्ञाया"मिति कर्मणि घञ्। अत एव मूले समस्यते इति वक्ष्यते। तथा च अन्वर्थेयं संज्ञा।

तत्त्व-बोधिनी
प्राक्कडारात्समासः ५६८, २।१।३

प्राक्कडारात्समासः। प्राग्ग्रहणमावर्तते, तेन पूर्वं समाससंज्ञा, ततः संज्ञान्तरमपीति लभ्यते। अतोऽव्ययीभावादिभिः समावेशः सिद्ध्यति। अन्यथा पर्यायः स्यात्। समसनं समासः। भावे घञ्। अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके। वस्तुतस्तु--"अकर्तरि च कारके---" इति कर्मणि घञ्। अन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न सङ्गच्छेत। नन्वन्वर्थत्वात्समाससंज्ञायाः प्रत्येतमप्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्क्याह---।