पूर्वम्: २।३।१०
अनन्तरम्: २।३।१२
 
प्रथमावृत्तिः

सूत्रम्॥ प्रतिनिधिप्रतिदाने च यस्मात्॥ २।३।११

पदच्छेदः॥ प्रतिनिधिप्रतिदाने १।२ यस्मात् ५।१ पञ्चमी १।१ १० कर्मप्रवचनीययुक्ते ७।१

काशिका-वृत्तिः
प्रतिनिधिप्रतिदाने च यस्मात् २।३।११

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात् प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर् भवति। अभिमन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने? न एष दोषः, सम्बन्धसम्बन्धात् तस्य अपि योगो ऽस्त्येव।
न्यासः
प्रतिनिधिप्रतिदाने च यस्मात्। , २।३।११

"मुख्यसदृशः प्रतिनिधिः" इति। मुख्यो यः कश्चित् कार्ये रूढः = समर्थः, प्रसिद्धः = प्रधानभूतस्तेन सदृशो यस्तदभावे तस्य कार्यस्य सिद्ध्यर्थमुपादीयते स प्रतिनिधिः। "अभिमन्युरर्जुनतः प्रति" इति। मुख्यादर्जुनादभिमन्युः प्रतिनिधिस्ततः पञ्चमीविभक्तिर्भवति। प्रतियोगे पञ्चम्यास्तसिः। "माषानस्मै तिलेभ्यः प्रतियच्छति" इति। ये तिलाः पूर्वं दत्तास्तेभ्यो माषाणां प्रतिदानम्। तिलेभ्य इति पञ्चमी भवति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। ननु च "प्रतिः प्रतिनिधिप्रतिदानयोः" १।४।९१ इति प्रतेः प्रतिनिधिप्रतिदानरोरेवार्थयोः कर्मप्रवचनीयसंज्ञा, तयोरेव प्रतिना योग उपपद्यते, न तु यतस्ते तस्येति मन्यमान आह-- "ननु च" इत्यादि। "सम्बन्धसम्बन्धात्" इति। सम्बध्यत इति सम्बन्धः=प्रतिनिधिः, प्रतिदानञ्च, तदुभयमयि कर्मप्रवचनीयेन प्रतिना युज्यते। तेन सम्बन्धेन यः सम्बन्धः स सम्बन्धसम्बन्धः। कस्यपुनस्तेन सम्बन्धः? यतः प्रतिनिधिः प्रतिपादनञ्च तस्य। सम्बन्धिशब्दौ हि प्रतिनिधिप्रतिदानशब्दौ। तौ च नासति पूर्वविज्ञाते मुख्ये पूर्वदत्ते च भवति इति प्रतिनिधिप्रतिदानाभ्यां यस्य सम्बन्धस्तस्य ताभ्यां सम्बन्धोऽस्तीति ते अपि कर्मप्रवचनीयैर्युक्ते भवत इति। क्वचित् "सम्बन्धिसम्बन्धात्" इति पाठः। तत्रापि प्रतिनिधिः हूतिदानञ्च सम्बन्धिशब्देनोच्यते; तदुभयस्यापि कर्मप्रवचनीयेन सम्बन्धात्। तेन सम्बन्धिना यः सम्बन्धः स सम्बन्धिसम्बन्ध इति स एवार्थः॥
तत्त्व-बोधिनी
प्रतिनिधिप्रतिदाने च यस्मात् ५३०, २।३।११

प्रतिनिधिप्रतिदाने। अस्मादेव निर्देशाल्लिङ्गादाभ्यां योगे पञ्चमी। "ज्ञापकासिद्धं न सर्वत्र" इति "कृष्णस्य प्रतिनिधि"रित्यपि सिद्धमित्याहुः। मुख्यस्याऽभावे सति तत्सदृश उपादीयते स प्रतिनिधिः। देयस्य प्रतिनिर्यातनं प्रतिदानम्। #एअकर्तरि। हेतुभूतमिति। "हेतौ"इत्यनुवर्तते इथि भावः।