पूर्वम्: २।३।४८
अनन्तरम्: २।३।५०
 
प्रथमावृत्तिः

सूत्रम्॥ एकवचनं संबुद्धिः॥ २।३।४९

पदच्छेदः॥ एकवचनम् १।१ संबुद्धिः १।१ आमन्त्रितम् १।१ ४८

काशिका-वृत्तिः
एकवचनं सम्बुद्धिः २।३।४९

आमन्त्रितप्रथमाया यदेकवानं, तत् सम्बुद्धिसंज्ञं भवति। हे पटो। हे देवदत्त। सम्बुद्धिप्रदेशाः एङ्ह्रस्वात् सम्बुद्धेः ६।१।६७ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
एकवचनं सम्बुद्धिः १३२, २।३।४९

सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥
न्यासः
एकवचनं सम्बुद्धिः। , २।३।४९

"हे पटो, हे देवदत्त" इति। अत्र सम्बुद्धिसंज्ञायां सत्याम्, "सम्बुद्धौ च" ७।३।१०६ इत्यधिकृत्य "ह्यस्वस्य गुणः" ७।३।१०८ इति गुणे "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इति सोर्लोपो यथायोगं भवति। अथ सुग्रहणमेव कस्मान्न कृतम्, न च सप्तमीबहुवचनस्य प्रसङ्गः, सम्बोधनप्रथमाधिकारात्? सत्यम्; किन्तु नैतदस्ति; प्रत्ययमात्रस्य संज्ञाविधानार्थमेकवचनग्रहणं कृतम्-- हे पचनम्, हेपचमानेति; अन्यथा हि पूर्वेण यथा तदन्तस्य संज्ञा विहिता तथेहापि स्यात्। न चेहासंज्ञिनः कश्चिद्विशेषोऽङ्गीक्रियत इति सुशब्देन तदन्तमेव लक्ष्यते, ततश्च तदन्तकस्यैव संज्ञा स्यात्। तथा "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इति सोर्लोपो विधीयमानः "आदेः परस्य" १।१।५३ इत्यादेरेव स्यात्; प्रत्ययमात्रस्य न स्यात्। तस्मात् प्रत्ययमात्रस्य संज्ञा यथा स्यादित्येवमर्थमेकवचनग्रहणम्॥
बाल-मनोरमा
एकवचनं संबुद्धिः १९१, २।३।४९

हे रामसिति स्थिते, "एङ्ह्यस्वात्संबुद्धेः" इति लोपं विधास्यन् संबुद्धिसंज्ञामाह--एकवचनम्। "प्रातिपदिकार्थलिङ्गे"त्यतः "प्रथमे"त्यनुवृत्तं षष्ठ()आ विपरिणम्यते। "संबोधने चे"त्यतः संबोधने इत्यनुवर्तते। तदाह-संबोधने इति। "सुः संबुद्धि"रित्येव सुवचम्। प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम्। नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम्। "ह्यस्वस्य गुणः" इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च। एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम्।

तत्त्व-बोधिनी
एकवचनं संबुद्धिः। १५९, २।३।४९

एकवचनम्। "सुः संबुद्धि"रित्येव सुवचम्। न च सप्तमीबहुवचनेऽतिप्रसङ्गः। "संबोधने प्रथमे"त्यधिकारादेव तदभावादिति नव्याः। अत्र व्याचख्युः--"सुः संबुद्धि"रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्। अन्यथा "सामत्रित"मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति। एङ्ह्यस्वात्संबुद्धेः। यद्यत्र "हल्ङ्याब्भ्य" इत्यतो हलमननुवर्त्त्य "एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप" इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापि "हे ज्ञाने"ति न सिध्येत्। लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्यस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन।