पूर्वम्: ३।१।१४८
अनन्तरम्: ३।१।१५०
 
सूत्रम्
प्रुसृल्वः समभिहारे वुन्॥ ३।१।१४९
काशिका-वृत्तिः
प्रुसृल्वः समभिहारे वुन् ३।१।१४९

प्रु सृ लू इत्येतेभ्यः धातुभ्यः समभिहारे वुन् प्रत्ययो भवति। प्रवकः। सरकः। लवकः। समभिहारग्रहणेन अत्र सधुकारित्वं लक्ष्यते। साधुकारिणि वुन् विधानात् सकृदपि यः सुष्ठु करोति तत्र भवति। बहुशो यो दुष्टं करोति तत्र न भवति।
न्यासः
प्रुसृल्वः समभिहारे वुन्। , ३।१।१४९

"प्रसृल्वः" इति समभिहारं कृत्वा निर्देशः। नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, अनित्यत्वादागमशासनस्य। "समभिहारे वुन्" इति। अन्यत्र समभिहारशब्दस्य पौनः पुन्यादिकमर्थ इति, इहापि स एवार्थ इति कस्यचित् भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- "समभिहारग्रहणेन" इत्यादि। लक्ष्यते प्रदश्र्यत इत्यर्थः। एतच्चानेकार्थत्वाद्धातूनां लभ्यते। शिल्पिनीत्यनुवृत्तेरित्यपरे। शिल्पी = साधुकारी। "साधुकारिणि वुन्विधानम्" साधुकारित्वोपलक्षणस्य फलं दर्शयति। "सकृदपि" इत्यादि। अनन्तरस्यैव स्पष्टीकरणम्॥
बाल-मनोरमा
प्रुसृल्वः समभिहारे वुन् ७२८, ३।१।१४९

प्रुसृल्वः। लक्ष्यते इति। एतच्च भाष्ये स्पषमट्। प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी।

तत्त्व-बोधिनी
प्रुसृल्वः समभिहारे वुन् ६०८, ३।१।१४९

प्रुसृल्वः। पञ्चमीस्थाने व्यत्ययेन जस्। "ओः सुपी"ति यण्। लक्ष्यत इति। भूयः सहचारात्। यो हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते, तेन सकृदपि यःसुष्टु करोति तत्र वुन्, यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः।