पूर्वम्: ३।१।१९
अनन्तरम्: ३।१।२१
 
सूत्रम्
पुच्छभाण्डचीवराण्णिङ्॥ ३।१।२०
काशिका-वृत्तिः
पुच्छभान्डचीवराण् णिङ् ३।१।२०

करणे इति वर्तते। पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति करणविशेषे। पुच्छादुदसने पर्यसने वा। उत्पुच्छयते। परिपुच्छयते। भाण्डात् समाचयने। सम्भान्डयते। चीवरादर्जने परिधाने वा। सञ्चीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः, णेरनिटि ६।४।५१ इति।
न्यासः
पुच्छभाण्डचीवराण्णिङ्। , ३।१।२०

"पुच्छात्" इत्यादि। उदसनम् = ऊध्र्वक्षेपणम्, पर्यसनम् = परितः क्षेपणम्। यदोदसने प्रत्ययस्तदा तस्य द्योतनार्थ उच्छब्दः प्रयुज्यते--- "उत्पुच्छयते" इति। यदा पर्यसने प्रत्ययस्तदा परिशब्दः-- "परिपुच्छयते" इति। "णाविष्ठवत् कार्यम् प्रातिपदिकस्य" (वा।८१३) इतीष्ठवद्भाववाट्टिलोपः। समाचयनम्-- राशीकरणम्। अर्जनम् = अलब्धस्य लाभः। परिधानम् = आच्छादनम्॥
बाल-मनोरमा
पुच्छभाण्डचीवराण्णिङ् ५०१, ३।१।२०

पुच्छभाण्ड। पुच्छादुदसने इति वार्तिकम्। उत्पुच्छयते इति। विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः। भाण्डात्समाचयने - इत्यपि वार्तिकम्। समबभाण्डतेति। उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः। एवम् उदपुपुच्छतेत्यादावपि। चीवरादर्जने इत्यपि वार्तिकम्।

तत्त्व-बोधिनी
पुच्छभाण्डचीवराण्णिङ् ४२९, ३।१।२०

पुच्छभाण्ड। "करणे" इत्यनुवृत्तेरत्रापि क्रियाविशेष एव णिङ्। तमेव विशेषं दर्शयति-- पुच्चादित्यादिना। ङकारोऽत्र "णेरनिटी"ति णिङ्णिचोः सामान्यग्रहणार्थो, नित्यात्मनेपदार्थश्च। उदपुपुच्छत।