पूर्वम्: ३।१।२४
अनन्तरम्: ३।१।२६
 
सूत्रम्
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच्॥ ३।१।२५
काशिका-वृत्तिः
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ३।१।२५

सत्याऽदिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यम् आचष्ते सत्यापयति। अर्थवेदसत्यानाम् आपुग् वक्तव्यः। अर्थम् आचष्ते अर्थापयति। देवापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद् विमोचने विपाशयति। रूपाद् दर्शने रूपयति। वीणयोपगायति उपवीणयति। तूलेनानुकुष्णाति अनुतूलयति। श्लोकैरुपस्तौति उपश्लोकयति। सेनयाभियाति अभिषेणयति। लोमान्यनुमार्ष्टि अनुलोमयति। त्वचं गृह्णाति त्वचयति। अकारान्तस् त्वचशब्दः। वर्मणा सन्नह्यति संवर्मयति। वर्णम् गृह्णाति वर्णयति। चूर्णैः अवध्वंसयति अवचूर्णयति। चुरादिभ्यः स्वार्थे। चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते।
न्यासः
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। , ३।१।२५

चुरादिभ्योऽन्येंषामिह ग्रहणं प्रपञ्चार्थम्। "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (वा।८१३) इति सिद्धत्वात्। "अर्थवेद" इत्यादि। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। व्याख्यानं तु-- प्रातिपदिकाद्धात्वर्थे बहुलमिति कार्यान्तरविधानार्थाद्बहुलणादेषां णिच्सन्नियोगेनापुग्भवतीति। सत्यशब्दस्य तु "सत्याप" इत्यत एव निपातनादापुग्भवतीति वेदितव्यम्। "विपाशयति" इति। पाशं विमोचयतीत्यर्थः। "निरूपयति" इति। रूपं पश्यतीत्यर्थः। "अभिषेणयति" इति। "उपसर्गात्" ८।३।६५ इत्यादिना षत्वम्। "त्वचयति" इति। ननु च त्वच्शब्दो हलन्तः, तस्मात् णिचि "णाविष्ठवत्" (वा।८१३) इतीष्ठवद्भावाट्टिलोपे प्राप्ते तत्र "प्रकृत्यैकाच्" ६।४।१६३ इति प्रकृतिवद्भावे कृते "अत उपधायाः" ७।२।११६ इति वृद्धिः प्राप्नोति, तत् कथं त्वचयतीति हि भवितव्यमित्याह-- "अकारान्तोऽयं त्वचशब्दः" इति। शब्दान्तरमेवेदमकारान्तं त्वच्शब्दसमानार्थम्। अत एव त्वच इत्यकारान्तस्य सूत्रे निर्देशः, तस्यकारस्य लोपे कृते स्थानिवद्भावाद्वृद्धिर्न भवति। "चुरादिभ्य स्वार्थ" इति। स्तेयादौ। ननु च नेह सूत्र आख्यानादयोऽर्था उपात्ताः, तत्कथं ते लभ्यन्ते? अलब्धाश्च कथं निर्दिश्यन्ते? इत्याह-- "स्वाभाविकत्वात्" इत्यादि। शब्दानामर्थाभिधानं स्वाभाविकम्,न तु वाचनिकम्; तस्याशक्यत्व#आदिति प्रागेवोक्तम्। तस्मात् स्वभावत एव यो यस्यार्थस्याभिधायकः स सूत्रानुपात्तोऽर्थो युक्त एव निर्देष्टुम्। "यथायथम्" इति। यो यस्यात्मीय इत्यर्थः॥
बाल-मनोरमा
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवणचूर्णचुरादिभ्यो णिच ३९०, ३।१।२५

सत्याप। सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि-- एषां द्वन्द्वात्पञ्चमी। तदाह - एभ्यो णिच्स्यादिति। कस्मिन्नर्थे इत्याकाङ्क्षायामाह-- चूर्णान्तेभ्य इति। सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथ "प्रातिपदिकाद्धात्वर्थे बहुल"मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः। ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति। नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं, "सत्यस्यतु कृञ्यापुङ्नपात्यते। सत्यं करोति सत्यापयती"त्यादिभाष्यविरोधादिति भावः। नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति। चुरादिभ्यस्तु स्वार्थे इति। अर्थान्तरस्याऽनिर्देशादिति भावः। अत्र "धातोरेकाचः" इत्यतो धातोरित्यनुवर्तते। चुरादिभ्यो धातुभ्यो णिजिति फलितम्। ततश्च णिच आद्र्धधातुकत्वं सिध्यति। अन्यथा धातोरिति विहितत्वाऽभावादाद्र्धधातुकत्वं न स्यादिति बोध्यम्। तदाह -- पुगन्तेति गुण इति। णिचि कृते चुर् इ इति स्थिते णिच आद्र्धधातुकत्वात्तस्मिन् चकारादुकारस्य "पुगन्तलघूपधस्ये"ति गुण इत्यर्थः।

तत्त्व-बोधिनी
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवणचूर्णचुरादिभ्यो णिच ३४१, ३।१।२५

सत्यापपाश। एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति नास्माभिरुपपाद्यन्ते। त्वचशब्दोऽकारान्तः। प्रपञ्चार्थमिति। "सत्याप"ग्रहणं तु आपुगर्थमिति ज्ञेयम्। अन्ये त्वाहुः-- सापेक्षेभ्योऽपि णिजर्थमेषामुपादानम्। अन्यथा "रमणीयं घटं करोती"त्यादाविव "रमणीयं रूपयती"त्यादावपि णिज्न स्यादिति।