पूर्वम्: ३।२।१०
अनन्तरम्: ३।२।१२
 
सूत्रम्
आङि ताच्छील्ये॥ ३।२।११
काशिका-वृत्तिः
आङि ताच्छील्ये ३।२।११

आङ्पूर्वाद् हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः। ताच्छीओये इति किम्? भारम् आहरति इति भाराहारः।
न्यासः
आङि ताच्छील्ये। , ३।२।११

अनुद्यमनमिति निवृत्तम्। तेनाविशेषाल्लभ्यते-- उद्यमने चायं विधिरिति। ननु चानुद्यमने पूर्वेणैव सिद्धम्, परत्वाद्धि तृन् प्राप्नोति, वासरूपविधानादजपि भवति? नैतदस्ति; वक्ष्यति ह्रेतत्-- ताच्छीलिकेषु वासरूपेण तृजादयो न भवन्तीति। "ताच्छील्यं तत्स्वभावता" इति। तत् पुनर्मानसो धर्मः। फलनिरपेक्षया प्रवृत्तिरनुमीयते। "पुष्पाहरः"इत्यादिना ताच्छील्यमुदाहरति॥
बाल-मनोरमा
आङि ताच्छील्ये ७४०, ३।२।११

आङि ताच्छील्ये। आङ्()पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये। ताच्छील्यं - तत्स्वभावता। पुष्पाहर इति। पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः।