पूर्वम्: ३।२।४
अनन्तरम्: ३।२।६
 
सूत्रम्
तुन्दशोकयोः परिमृजापनुदोः॥ ३।२।५
काशिका-वृत्तिः
तुन्दशोकयोः परिमृजापनुदोः ३।२।५

तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोः धात्वोः कप्रत्ययो भवति। तुन्दपरिमृज आस्ते। शोकापनुदः पुत्रो जातः। आलस्य सुखाहरणयोः इति वक्तव्यम्। अलसस् तुन्दप्रिमृज उच्यते। तुन्दपरिमार्जः एव अन्यः। सुखस्य अहर्ता शोकापनुदः। शोकापनोदः एव अन्यः। कप्रकरणो मूलविभुजादिभ्यः उपसङ्ख्यानम्। मूलानि विभुजादिभ्यः उपसङ्ख्यानम्। मूलानि विभुजति इति मूलविभुजो रथः। नखमुचानि धनूंषि। काकनुहस्तिलाः। कौ मोदते कुमुदम्।
न्यासः
तुन्दशोकयोः परिमृजापनुदोः। , ३।२।५

"परिमृजापनुदोः" इति। सुब्व्यत्येन पञ्चम्यर्थे षष्ठी। "मृजू शुद्धौ" (धा।पा।१०६६) पूरिपूर्वः। "नुद प्रेरणे" (धा।पा।१४२६) अपपूर्वः। "आलस्य" इत्यादि। प्रत्ययार्थोपाधिरयम्। अलस एवालस्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। आहरतीत्याहरणः। "कृत्यल्युटो बहुलम्" ३।३।११३ इति कत्र्तरि ल्युट्। सुखस्याहरणः सुखाहरणः। आलस्यकत्र्तरि सुखस्याहरणेऽनेन को भवति, नान्यत्रेत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अत्रापि पूर्ववद्वविभाषागर्हणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनालस्यसुखाहरणयोरेव कर्त्तोः को भवति, नान्यत्रेति। "तुन्दपरिमार्ज एवान्यः" इति। अनालस्ये त्वण् भवति। "मृजेर्वृद्धिः" ७।२।११४। "शोकापनोदः" इति। यः प्रतिपक्षोपदेशेन शोकं केवलमपनुदति, न तु सुखमुत्पादयति। अत्राणेव तु भवति। "कप्रकरणे" इत्यादि। मूलविभुजादिब्यस्तदर्थे चतुर्थी। आदिशब्दः प्रकारवचनः। मूलविभुजाद्यर्थ मूलविभुजादयः साधवो यथा स्युरित्येवमर्थ कप्रत्ययस्योपादानं प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- "ह्वावामश्च" ३।२।२ इत्यतः "आतोऽनुपसर्गे कः" ३।२।३ इत्यत्र चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन मूलविभुजादिभ्यः कप्रत्ययो भविष्यतीति। मूलं विभुजति। "{भुजो-धा।पा।} भुज कौटिल्ये" (धा।पा।१४१७)। नखानि मुञ्चन्तीति नखमुचानि। "मुच्लृ मोक्षणे" (धा।पा।१४३०)। " काकगृहास्तिलाः" इति। "गुहू संवरणे" (धा।पा।८९६)। काकेभ्यो गूहितव्याः।तव्यदाद्यपवादः। कर्मणि कः। "कौ मोदते कुमुदम्" इति। तृजाद्यपवादः॥
बाल-मनोरमा
तुन्दशोकयोः परिमृजापनुदोः ७३५, ३।२।५

तुन्दशोकयोः। तुन्दशोकयोरिति सप्तमी। परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी। तदाह-- उपपदयोराभ्यामिति। तुन्दपरिमृज इति। तुन्दम् = उदरम्। अत्र "मृजेरजादौ" इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः। मूलानि विभुजतीति। विमर्दयतीत्यर्थः। "भुजो कौटिल्ये" तुदादिः। इहोपसर्गबलादन्मर्दने वृत्तिः। महीध्र इति। महीं धरतीति विग्रहः। कित्त्वान्न गुणः। ऋकारस्य यण् रेफः। अणि तु "महीधार" इति स्यात्। कुध्र इति। कुः = पृथ्वी, तां धरतीति विग्रहः। गिल इति। "गृ? निगरणे" अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम्। "अचि विभाषे"ति लत्वम्।

तत्त्व-बोधिनी
तुन्दशोकयः परिमृजापनुदोः ६१४, ३।२।५

तुन्दपरिमृज इति। अत्र "मृजेरजादा"विति वैकल्पिकी वृद्धिव्र्यवस्थितविभाषा नेत्येके। स्यादेवेत्यन्ये।

* कप्रकरणे मूलविभुजादिभ्यः उपसङ्ख्यानम्। मूलविभुजादिभ्यु इति। तादर्थ्ये एषा चतुर्थी। मूलविभुजादिसिद्ध्यर्थमित्यर्थः।