पूर्वम्: ३।२।९४
अनन्तरम्: ३।२।९६
 
सूत्रम्
राजनि युधिकृञः॥ ३।२।९५
काशिका-वृत्तिः
राजनि युधिकृञः ३।२।९५

कर्मणि इत्येव। राजन्शब्दे कर्मणि उपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति। ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति। राजयुध्वा। राजानं योधितवानित्यर्थः। राजकृत्वा।
लघु-सिद्धान्त-कौमुदी
राजनि युधि कृञ ८१२, ३।२।९५

क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥
न्यासः
राजनि युधिकृञः। , ३।२।९५

ननु च युधिरयमकर्मकः, तत्कथं तस्य कर्मणीत्युपपद्यत इत्यभिप्रायेणाह--"अन्तर्भावितण्यर्थः" इत्यादि। अन्तर्भावितः = तनुप्रवेशितो ण्यर्थो यस्मिन्निति बहुव्रीहिः। राजा युध्यते, तं प्रयुङ्क्ते पुरुषो योद्धुं वेति। तत्रासौ पुरुषस्य व्यापारः प्रेषणादिकोऽर्थो ण्यर्थो यदा बुद्ध्या युध्यतेरन्तर्भाव्यते, तदासौ प्रयोज्यकर्मणा सकर्मको भवति। "योधितवान्" इति। ण्यन्तस्य प्रयोगः। "निष्ठायां सेटि" ६।४।५२ इति णिलोपः॥
न्यासः
सहे च। , ३।२।९५

"असत्त्ववाचित्वान्नोपपदं कर्मणा विशेष्यते"इति। तदर्थस्य कर्मत्वानुपपत्तेः॥
बाल-मनोरमा
राजनि युधि कृञः ८१५, ३।२।९५

राजनि युधि कृञः। युधि, कृञ् अनयोः समाहारद्वन्द्वात्पञ्चमी। क्वनिप् स्यादिति। राजनि कर्मण्युपपदे भूतार्ताद्युधेः कृञश्च क्वनिबित्यर्थः। ननु युधेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह-- युधिरन्तर्भावितेति। राजकृत्वेति।राजानं कृतवानित्यर्थः।

तत्त्व-बोधिनी
राजनि युधि कृञः ६७२, ३।२।९५

राजनि युधि कृञः।