करणे ऽधिकरणे च कारके धातोः ल्युट् प्रत्ययो भवति। इध्मप्रव्रश्चनः। पलाशशातनः। अधिकरने गोदोहनी। सक्तुधानी।
"करणेऽधिकरणे च कारके" इत्यनेन करणाधिकरणयोः प्रत्ययार्थत्वं दर्शयति।
अत्रोपपदे करणाधिकरणे कस्मान्न भवतः? "करणाधिकरणयोः"इत्यत एव निर्देशात्। करणाधिकरणशब्दौ हि ल्युडन्तौ करणाधिकरणसाधनौ च। तत्र दद्युपपदत्वमेतयोः स्यादेष निर्देशो नोपपद्यते। यद्येवम्, सति निर्देशे प्रत्ययविधानं च ,
सति च तस्मिन् निर्देश इतीतरेतराश्रयत्वं प्रसज्येत? न; नित्यत्वाच्छब्दानाम्। न ह्रपूर्वं किञ्चिदुत्पद्यते; शब्दानां नित्यत्वात्। सत्तामेव तु तेषामन्वाख्यानं क्रियते इति इतरेतराश्रयतायाः प्रसङ्गः। "इध्मप्रव्रश्चनः" इति। "ओव्रश्चूछेदने" (धा।पा।१२९२), इध्मानां प्रव्रश्चन इति षष्ठीसमासः। "पलाशशातनः" इति। "शद्लृ शातने" (धा।पा।१४२८), "हेतुमण्णिच्, "शदेरगतौ तः"
७।३।४२ इति तत्वम्। "गोदोहनी" इति। "टिड्()ढाणञ्"
४।१।१५ इति ङीप्॥
करणाऽधिकरणयोः। येन नाऽप्राप्तिन्यायेन घञोऽपवादोऽयमजपौस्त्रीप्रत्ययांश्च परत्वाद्बाधते। उक्तं हि-- "अजब्भ्यां स्त्रीखलनाः, स्त्रियाः खलनौ विप्रतिषेधेने"ति। इध्मेति। इध्मानि प्रवृस्च्यन्ते येन, गौर्दुह्रते यस्यामिति विग्रहः।