पूर्वम्: ३।३।३२
अनन्तरम्: ३।३।३४
 
सूत्रम्
प्रथने वावशब्दे॥ ३।३।३३
काशिका-वृत्तिः
प्रथने वावशब्दे ३।३।३३

स्तृ̄ञाच्छादने, अस्माद् धातोः विशब्दे उपपदे घञ् पत्ययो भवति प्रथने गम्यमाने, तच् चेत् प्रथनं शब्दविषयं न भवति। प्रथनं विस्तीर्णता। पटस्य विस्तारः। प्रथने इति किम्? तृणविस्तरः। अशब्दे इति किम्? विस्तरो वचसाम्।
न्यासः
प्रथने वावशब्दे। , ३।३।३३

"तृणविस्तरः" इति। तृणाच्छादनमित्यर्थः॥