पूर्वम्: ३।४।७०
अनन्तरम्: ३।४।७२
 
सूत्रम्
अदिकर्मणि क्तः कर्तरि च॥ ३।४।७१
काशिका-वृत्तिः
आदिकर्मणि क्तः कर्तरि च ३।४।७१

आदिकर्मणि यः क्तो विहितः स कर्तरि भवति। चकाराद् यथाप्राप्तं भावकर्मणोः। आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्य अयम् अर्थनिर्देशः। प्रकृतः कटं देवदत्तः, प्रकृतः क्तो देवदत्तेन, प्रकृतम् देवदत्तेन। प्रभुक्त ओदनं देवदत्तः, प्रभुक्त ओदनो देवदत्तेन, प्रभुक्तं देवदत्तेन।
न्यासः
आदिकर्मणि क्तः कत्र्तरि च। , ३।४।७१

"आदिकर्मणि" इति। आदिश्चासौ कर्म चेति विशेषणसमासः। "क्रियाक्षणः" इति। एतेन कर्मशब्दोक्रियां कर्माचष्टे, न साधनं कर्मेति दर्शयति। कुतः पुनरेतदवसितम्-- "क्रियां कर्माचष्ट इति? आदिशब्देन विशेषणात्। बहुनां क्रियाक्षणनामादिमध्यान्तभावे सत्यनादिभूतक्रियाक्षमव्यवच्छेदादादिभूतो यः क्रियाक्षणस्तदादिकर्मेति युक्तं प्रतिपादयितुम्। आदिग्रहणेन साधनं कर्म त्वेकमेवेत्यादिशब्देन विशेषयितुं न शक्यते; आदेरनादिभूतत्वापेक्षत्वादादिशब्दस्य तत्राप्रवृत्तिः, व्यवच्छेद्याभावात्। आदिकर्मणि च "भूते" ३।२।८४ इत्यनुवत्र्तमाने "निष्ठा" ३।२।१०२ इत्यनेनैव विहित इति दर्शयतिन्नाह--"तस्मिन्" इत्यादि। आद्यो यः क्रियाक्षणः स परिनिष्पन्नत्वाद्()भूतो भवतीति युक्ता तस्य भूतत्वेन विवक्षितता। "प्रकृतः कटं देवदत्तः" इति। कत्र्तरि क्तः। तेनैव कत्र्ताऽभिहित इति देवदत्तशब्दात् तृतीया न भवति। कर्मणस्त्वनभिहितत्वात् कटशब्दाद्द्वितीया भवत्येव। "प्रकृतः कटो देवदत्तेन" इति। अत्र कर्मणि क्तः। तेनैव कर्णणोऽभिहितत्वाद्द्वितीया न भवति। कत्र्तरनभिहितत्वाद्देवदत्तशब्दात् तृतीया भवत्येव। "प्रकृतं देवदत्तेन" इति। भावे क्तप्रत्ययः। सर्वत्र प्रशब्द आदिकर्म द्योतयति। ननु चादिभूतक्रियाक्षमकाले कटोऽनभिनिर्वृत्त एव भवति, कटकारणभूता एव पीरणादयस्तदानीं सन्ति, न च तदवस्थः कटः तदवस्थः कटः, तत्कथं प्रकृतः कट इति भूतकालेन प्रकृतशब्देन कटस्य सामानाधिकरण्यम्? आद्येन क्रियाक्षणेन यो वीरणादीनां विशेष आहितस्तत्र तादथ्र्यात् कटशब्दो वत्र्तते, स च भूत एवेत्यदोषः॥
बाल-मनोरमा
आदिकर्मणि क्तः कर्तरि च ८६०, ३।४।७१

आदिकर्मणि क्तः कर्तरि च। चाद्भावकर्मणोरिति। "तयोरेव कृत्ये"त्यतस्तदनुवृत्तेरिति भावः। "प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः" इति भाष्ये उदाह्मतम्। आरभ्यमाणकरणक्रियेति बोधः।

तत्त्व-बोधिनी
आदिकर्मणि क्तः कर्तरि च ७०५, ३।४।७१

आदिकर्मणीति। आद्येषु क्षणेषु भूतेषु सर्वस्याः क्रियाया भूतत्वाऽभावान्निष्ठा न प्राप्नोतीति वचनम्, आदिकर्मणि क्तस्य कर्तरि विधानार्थं चेत्याहुः। चादिति। अन्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः।