पूर्वम्: ४।१।११५
अनन्तरम्: ४।१।११७
 
सूत्रम्
कन्यायाः कनीन च॥ ४।१।११६
काशिका-वृत्तिः
कन्यायाः कनीन च ४।१।११६

कन्याशब्दादपत्ये ऽण् प्रत्ययो भवति। ढको ऽपवादः। तत् सन्नियोगेन कनीनशब्द आदेशो भवति। कन्यायाः अपत्यं कानीनः कर्णः। कानीनो व्यासः।
लघु-सिद्धान्त-कौमुदी
कन्यायाः कनीन च १०२४, ४।१।११६

चादण्। कानीनो व्यासः कर्णश्च॥
न्यासः
कन्यायाः कनीन च। , ४।१।११६

बाल-मनोरमा
कन्यायाः कनीन च ११०३, ४।१।११६

कन्यायाः क। "कनीने"ति लुप्तप्रथमाकम्। ढक इति। "स्त्रीभ्यो ढ"हिति विहितस्येत्यर्थः। कनीनादेशश्चेति। "प्रकृते"रिति शेषः। भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम्। ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति। अलब्धविवाहाया इत्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
कन्यायाः कनीन च ९२३, ४।१।११६

कन्यायाः। ननु कन्या हृक्षतयोनिः, तस्याश्चाऽपत्यसंभव एव नास्तीत्याशङ्क्याह---अनूढाया इथि। अविवाहिताया इत्यर्थः।