पूर्वम्: ४।१।११६
अनन्तरम्: ४।१।११८
 
सूत्रम्
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु॥ ४।१।११७
काशिका-वृत्तिः
विकर्णशुङ्गछङ्गलाद् वत्सभरद्वाजात्रिषु ४।१।११७

विकर्णशुङ्गछङ्गलशब्देभ्यः यथासङ्ख्यं वत्सभरद्वाजात्रिषु अपत्यविशेषेषु अण् प्रत्ययो भवति। वैकर्णो भवति वात्स्यश्चेत्। वैकर्णिः अन्यः। शौङ्गो भवति भारद्वाजश्चेत्। शौङ्गिः अन्यः। छागलो भवति आत्रेयश्चेत्। छागलिः अन्यः। शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति शौङ्गेयः इति। द्वयम् अपि च एतत् प्रमाणम्, उभयथा सूत्रप्रणयनात्।
न्यासः
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्त्रिषु। , ४।१।११७

अत्र वत्सभरद्वाजास्त्रिशब्दा वात्स्यभारद्वाजात्त्रेयेषु गोत्रविशेषेषु लब्धवृत्तय उपात्ता इति। अत एवाह-- "वैकर्णो भवति वात्स्यश्चेत, शौङ्गो भवति बारद्वाजश्चेत्, चागलो भवत्यात्त्रेयश्चेत्" इति। सा पुनस्तेषां गोत्रापत्ये वृत्तिः कार्ये कारणीपचाराद्वेदितव्या। "द्वयमपि चैतत् प्रमाणम्" इति। कथं पुनः परस्परविरुद्धमपि प्रमाणं भवति? इत्याशङ्क्याह-- "उभयथा ह्रेतत् सूत्रमाचार्येण प्रणीतम्, तस्मात् को विरोधः॥
बाल-मनोरमा
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजाऽत्रिषु ११०४, ४।१।११७

विकर्ण। वत्सादिशब्दैस्तद्वंश्या विवक्षिताः। विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्संवश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः। एतेन वत्सादीनां विकर्ण, शुङ्ग, छगल एभ्योऽण् स्यात्, वत्सवंश्ये भरद्वाजवंश्येऽत्रिवंश्ये चापत्ये इत्यर्थः। एतेन वत्सादीनां मूलपुरुषत्वाद्विकर्णादीन्प्रत्यपत्यत्वाऽसम्भव इति निरस्तम्। "विकर्णादिभ्यो वात्स्यादिष्वेव ऋष्य"णिति नियमार्थं सूत्रं।

तत्त्व-बोधिनी
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजाऽत्रिषु ९२४, ४।१।११७

विकर्ण। वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द्वे "यञञोश्च"

"अत्रिभृगकुत्से "ति सूत्राभ्यामपत्यप्रत्ययस्य लुक्। न चात्र वत्सादीनामेव द्वन्द्वोऽस्त्विति सङ्क्यं, मूलभूतानां तेषां विकर्मादीन्प्रत्यपत्यत्वाऽभावादतो व्याचष्टे---वात्स्य इत्यादि। "युगपदधिकरणवचनतायां बहुत्वमस्ती"ति "शरद्वच्छुनक"सूत्र एवोक्तम्।