ङीपित्येव। यञन्ताच् च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी। अपत्यग्रहणं कर्तव्यम्। इह मा भूत्, द्वीपादनुसमुद्रं यञ्
४।३।१० द्वैप्या। योगविभागः उत्तरार्थः।
"गार्गी। वात्सी" इति। गर्गवत्सशब्दाभ्यां स्त्रियामपत्ये "गर्गादिभ्यो यञ्"
४।१।१०५ इति यञ्, ङीप्, "यस्येति च"
६।४।१४८ इत्यकारस्य लोपः, "हलस्तद्धितस्य"
६।४।१५० इति यकारस्य च।
"अपत्यग्रहणं कत्र्तव्यम्" इति। अपत्यं गृह्रते येन तदपत्यग्रहमम्। व्याख्यानमेतदुक्तं भवति-- तथा व्याख्यानं कत्र्तव्यं यथा यञो विशेषणमपत्यं गृह्रेत्। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे विकल्पार्थं प्राचामिति वचनमनेनापि योगेन सम्बध्यते,व्यवस्थितविभाषा च सा विज्ञायते, तेनापत्येऽर्थे यो यञ् विहितस्तदन्तान्नित्यं भवति, यस्तु द्वीपशब्दाज्जातादावर्थे विहितदन्तान्न भवतीति।
अथ योगविभागः किमर्थः? न पूर्वसूत्र एव अञ्ग्रहणं क्रियेतेत्यत आह-- "योगविभाग उत्तरार्थः" इति। उत्तरसूत्रे यञन्तादेव ष्फो यथा स्यात्, टिदादिभ्यो माभूदिति॥
यञश्च। यञ इति प्रत्ययत्वात्तदन्तग्रहणम्। "ऋन्नेभ्यः" इत्यतो ङीबित्यनुवर्तते। स्त्रियामित्यधिकृतम्। तदाह--यञन्तादिति। यद्यपि "टिड्ढाणञि"ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं "तथापि ष्फ तद्धितः" इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः। अकारलोपे कृते इति। गार्गीत्युदाहरणं वक्ष्यति। गर्गस्यापत्यं स्त्री इत्यर्थे "गर्गादिभ्यो यञि"ति यञ्, आदिवृद्धिः, "यस्येति चे"ति गकारादकारस्य लोपः। गाग्र्यशब्दान्भीपि "हलस्तद्धितस्ये"ति यकारलोपात्परत्वात् "यस्येति चे"ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः।