पूर्वम्: ४।२।१२
अनन्तरम्: ४।२।१४
 
सूत्रम्
तत्रोद्धृतममत्रेभ्यः॥ ४।२।१३
काशिका-वृत्तिः
तत्र उद्धृतम् अमत्रेभ्यः ४।२।१४

तत्र इति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। भुक्तोच्छिष्टम् उद्धृतम् उच्यते, यस्य उद्धरणम् इति प्रसिद्धिः। अमत्रं भाजनं पात्रम् उच्यते। शरावेषु उद्धृतः शाराव ओदनः। माल्लिकः। कार्परः। अमत्रेभ्यः इति किम्? पाणावुद्धृत ओदनः। तत्र इति सप्तमी समर्थविभक्तिः क्षीराड् ढञ् ४।२।१९ इति यावदनुवर्तते।
लघु-सिद्धान्त-कौमुदी
तत्रोद्धृतममत्रेभ्यः १०४२, ४।२।१३

शरावे उद्धृतः शाराव ओदनः॥
न्यासः
तत्रोद्धृतममत्रेभ्यः। , ४।२।१३

बाल-मनोरमा
तत्रोद्धृतममत्रेभ्यः ११९७, ४।२।१३

तत्रोद्धृतम्। तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात्सप्तम्यन्तात्प्रत्ययः स्यादित्यर्थः। अमत्रं-भजनं शरावादि। ननु उद्धरणे पृथक्करणे शरावस्याऽपादानत्वात् कथं सप्तमीत्यत आह--उद्धरतिरिहेति। "सास्मिन्पौर्णमासी" त्यतः प्राक्"तत्रे"त्यनुवर्तते।

तत्त्व-बोधिनी
तत्रोद्धृतममत्रेभ्यः ९८९, ४।२।१३

शाराव इति। भुक्तोच्छिष्ट इत्यर्थ इति वृत्तिकृत्। अवशिष्ट इति तदर्थः। "उच्छिनष्टि, न सर्वं जुहोती"ति कल्पसूत्रव्यवहारात्। सप्तमीति। निधानक्रियापेक्षया अधिकरणत्वादिति भावः।