पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या। पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन।
पाशादिभ्यो यः। समूह इत्येव। पाश्येत्यादि। पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः। स्त्रीत्वं लोकात्।