पूर्वम्: ४।२।७७
अनन्तरम्: ४।२।७९
 
सूत्रम्
कोपधाच्च॥ ४।२।७८
काशिका-वृत्तिः
कौपधाच् च ४।२।७९

ककारौपधात् च प्रातिपदिकातन् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य उवर्नलक्षणस्य च अञो ऽपवादः। कार्णच्छिद्रिकः कूपः। कार्णवेष्टकः। कृकवाकुना निर्वृत्तं कार्कवाकवम्। त्रैशङ्कवम्।
न्यासः
कोपधाच्च। , ४।२।७८

बाल-मनोरमा
कोपधाच्च १२७२, ४।२।७८

कोपधाच्च। कार्णच्छिद्रक इति। कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः। कार्कवाकवमिति। कृकवाकुना निर्वृत्तः कूप इत्यर्थः। ओर्गुणः। आदिवृद्धौ रपरत्वम्। त्रैशङ्कवमिति। त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः।