पूर्वम्: ४।३।३१
अनन्तरम्: ४।३।३३
 
सूत्रम्
सिन्ध्वपकराभ्यां कन्॥ ४।३।३२
काशिका-वृत्तिः
सिन्ध्वपकराभ्यां कन् ४।३।३२

सिन्धुशब्दादपकरशब्दाच् च कन् प्रत्ययो भवति तत्र जात ४।३।२५ इत्येतस्मिन् विषये। सिन्धुशब्दः कच्छादिः, ततो ऽणि मनुष्यवुञि च प्राप्ते विधानम्। अपकरशब्दादपि औत्सर्गिके ऽणि। सिन्धुकः। अपकरकः।
न्यासः
सिन्ध्वपकराभ्यां कन्। , ४।३।३२

"अपकरशब्दादौत्सर्गिकेऽणि" इति। प्राप्ते विधानमिति सम्बन्धः॥
बाल-मनोरमा
सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ठ्युठ्युलौ तुट् च १३७१, ४।३।३२

सायंचिरं। चतुभ्र्य इति। सायं चिरं प्राह्ने प्रगे इत्येभ्य इत्यर्थः। कालवाचिभ्य इति। "कालाट्ठ"ञित्यतस्तदनुवृत्तेरिति भावः। तयोरिति। ठ्युठ्युलोरित्यर्थः। ननु "सायंतन"मित्यादौ कथं योरनादेशः। "युवोरनाकौ" इति ह्रङ्गाधिकारस्थम्। अङ्गात्परयोर्यु वु इत्येतयोरनाकौ विधीयेते। प्रकृते च अन्तरङ्गत्वात्तुटि"यु" इत्यस्य अङ्गात्परत्वाऽभावादनादेशो न संभवति। नच "तदागमास्तद्ग्रहणेन गृह्रन्ते" इति न्यायेन "त्यु" इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात्परत्वं निर्बाधमिति वाच्यं, "निर्दिश्यमानस्यादेशा भवन्ती"ति परिभाषया योरेवाऽनादेशप्राप्तेः, तस्य च तुटा व्यवहितत्वादङ्गात्परत्वाऽभावादित्यत आह--तुटः प्रागनादेश इति। कुत इत्यत आह--निर्देशादिति। आदिना "घकालतनेषु" इत्यत्र तनेति ग्राह्रम्। सायंतनमिति। "षो अन्तकर्मणि" इति धातोर्घञि सायशब्दो दिवसावसाने रूढः। तस्माट्ट()उट()उलौ, तयोरनादेशे तुट्, प्रकृतेर्मान्तत्वं निपात्यते। यत्तु सायमिति स्वरादिपठितमव्ययं, तस्याव्ययत्वादेव ट()उट()उलौ सिद्धौ। चिरंतनमिति। अत्रापि प्रकृतेर्मान्तत्वं निपात्यते। अस्मादेव लिङ्गाच्चिरमित्यस्याऽव्ययेषु पाठोऽप्राम#आणिक इति गम्यते। प्राह्णेतनमिति। प्राह्णः सोढोऽस्येति विग्रहः, "तदस्य सोढ"मित्यर्थस्य निर्देक्ष्यमाणत्वात्। प्राह्णे जात इत्याद्यर्थे तु "घकालतनेषु" इत्यलुकैव एदन्तत्वं सिद्धम्। प्रगेतनमिति। प्रगच्छतीति प्रगः, तस्मिन् जातादिरित्यर्थः। यत्तु "प्रगे" इत्यव्ययमेदन्तं प्रातरित्यर्थे, तस्यत्वव्ययत्वादेव सिद्धम्। अव्ययेभ्य उदाहरति दोषातनमिति। दोषेत्याकारान्तमव्ययं रात्रौ। दिवातनमिति। दिवेत्याकारान्तमव्ययमह्नि। चिरपरुदिति। चिर्, परुत्, परारि एब्यस्त्नप्रत्यय इत्यर्थः। चिरत्नमिति। ठ्युठ्युलोरेव प्राप्तयोर्वचनम्। त्नप्रत्ययपक्षे मान्तत्वं न भवति, ट()उट()उल्भ्यां तस्य संनियोगशिष्टत्वात्। "परु"दिति "परारी"ति चाव्ययं पूर्वस्मिन पूर्वतरे च वत्सरे क्रमाद्वर्तते।

अग्रादीति। वार्तिकमिदम्। अग्र, आदि, पश्चात् एभ्यो डिमच् स्यादित्यर्थः। पश्चिममिति। "अव्ययानां भमात्रे" इति टिलोपः।

अन्ताच्च। इदमपि वार्तिकम्।

बाल-मनोरमा
सिन्ध्वपकाराभ्यां कन् १३८४, ४।३।३२

सिन्ध्वपकराभ्यां कन्। सिन्धुक इति। सिन्धौ जात इत्यर्थः। कच्छादीति। "कच्छादिभ्यश्चे"त्यणि "मनुष्यतत्स्थयोश्चे"ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः। अपकरक इति। अपकरे जात इत्यर्थः। अणि प्राप्ते इति। "कन्विधि"रिति शेषः।

तत्त्व-बोधिनी
सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट�उट�उलौ तुट् च १०७९, ४।३।३२

सायंचिरं।नन्वन्तरङ्गत्वात्प्रथमं तुटि "मृत्यु"रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात्। न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह---तुटः प्रागिति। इत्यादिति। आदिशब्देन "घकालतनेषु"इति ग्राह्रम्। सायंतनमिति। स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम्।भाष्यकृतातु "मान्ताव्यय"मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम्। न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः। तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः।

चिरपुरुत्परारिभ्यस्त्नो वक्तव्यः। चिरंतनमिति। चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः। अत्र वदन्ति--स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम्। न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति। एदन्तत्वमिति। प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम्। तत्र हि सप्तमी नास्ति। जातार्थे "घकालतनेषु"इत्युलुकाऽपि सिद्धेः। चिरत्नमिति। सूत्रे चिरशब्दस्योपादानाट्ट()उट()उलावपि स्तः। न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव ट()उट()उल्विधौ तत्संभवात्। पुरुत्=पूर्वस्मिन्वत्सरे। परारि=पूर्वतरे। अग्रादि। डिमचो डित्त्वं स्पष्टार्थम्।