पूर्वम्: ४।३।५
अनन्तरम्: ४।३।७
 
सूत्रम्
दिक्पूर्वपदाट्ठञ् च॥ ४।३।६
काशिका-वृत्तिः
दिक्पूर्वपदाट् ठञ् च ४।३।६

दिक्पूर्वपदादर्धान्तात् प्रातिपदिकात् ठञ् प्रत्ययो भवति, चकाराद् यत् च शैषिकः। अणो ऽपवादः। पौर्वार्धिकम्। पूर्वार्ध्यम्। दाक्षिणार्धिकम्, दक्षिणार्ध्यम्। पदग्रहणं स्वरूपविधिनिवारणार्थम्।
न्यासः
दिक्पूर्वपदाट्ठञ्च। , ४।३।६

"पौर्वार्द्धिकम्" इति। पूर्वस्मिन्नर्थे जातः। " तद्धितार्थ" २।१।५० इत्यादिना समासः,ततस्तद्धितः। अथ पदग्रहणं किमर्थम्, दिक्पूर्वादित्येवोच्येत? इत्याह-- "पदग्रहणम्" इत्यादि। असति हि पदग्रहणे स्वरूपविधिः स्यात्, ततश्च दिगर्द्धे जात इत्यत्रैव स्यात्। पदग्रहणे तु सति यन्नाम किञ्चिद्()दिक्सम्बन्धिः पूर्वपदं तस्य ग्रहणमुपपन्नं भवति॥
बाल-मनोरमा
दिक्पूर्वपदाट्ठञ्च १३५६, ४।३।६

दिक्पूर्वपदायट्ठञ् च। अर्धादित्येव। परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात्।

तत्त्व-बोधिनी
दिक्पूर्वपदाट्ठञ्च १०६९, ४।३।६

दिक्। पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः।