पूर्वम्: ४।३।४
अनन्तरम्: ४।३।६
 
सूत्रम्
परावराधमोत्तमपूर्वाच्च॥ ४।३।५
काशिका-वृत्तिः
परावराधमौत्तमपूर्वाच् च ४।३।५

पर अवर अधम उत्तम इत्येवं पूर्वाच् च अर्धात् यत् प्रत्ययो भवति शैषिकः। परार्ध्यम्। अवरार्ध्यम्। अधमार्ध्यम्। उत्तमार्ध्यम्। पूर्वग्रहणं किम्? परावराधमौत्तमेभ्यः इत्येव उच्यते, अर्धातिति वर्तते, तस्य तत्पूर्वता विज्ञास्यते? परावरशब्दावदिग्ग्रहणावपि स्तः परं सुखम्, अवरम् सुखम् इति। तत्र कृतार्थत्वाद् दिक्शब्दपक्षे परेण ठञ्यतौ स्याताम्। अस्मात् पूर्वग्रहणाद् यत् प्रत्ययो भवति परार्ध्यम्, अवरार्ध्यम् इति।
न्यासः
परावराधमोत्तरमपूर्वाच्च। , ४।३।५

"ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति" (व्या।प।८९) इतितदन्तविधिप्रतिषेधात् पूर्वेणाप्राप्तावयमारम्भः। तत्राधमोत्तमशब्दौ निन्दाप्रशंसावचनौ, तत्पूर्वादणि प्राप्ते सत्यमारम्भः। परावरशब्दौ यावदिक्छब्दौ तत्पूर्वादप्यण्येव। यौ तु दिक्छब्दौ तत्पूर्वादुत्तरसूत्रेण ठञि यति च। कथं पुनः "परावराधमोत्तमेभ्यः" इत्युच्यमाने परावरादिपूर्वता शक्या विज्ञातुम्? इत्याह-- "अर्धादिति वत्र्तते" इत्यादि। इह हि पूर्वसूत्रादर्धादित्यनुवत्र्तते। तत्र परावराधमोत्तमेभ्यः परो योऽर्धशब्दः-- इत्येवं विशेषमाणेऽद्र्धशब्दसामथ्र्यादेव तस्य परावरादिपूर्वता विज्ञास्यते, त()त्क पूर्वग्रहणेन? "तत्र" इति। परावरयोरदिक्शब्दयोः। "परेण" इति। उत्तरसूत्रेण ठञ्यतौ स्यातामिति। यदि पूर्वग्रहणं न क्रियेतेत्यभिप्रायः। "अस्मात्" इत्यादि। परावरादिपूर्वादेव यथा स्यादित्येतदेव हि पूर्वग्रहणस्य प्रयोजनम्। तेन हि पूर्वं कार्यं भवति, न परमित्येषोऽर्थः सूच्यते। तस्मात् दिक्शब्दपक्षेऽपि परावरपूर्वाद्यदेव भवति॥
बाल-मनोरमा
परावराधमोत्तमपूर्वाच्च १३५५, ४।३।५

परावर "अर्धाद्य"दिति शेषः। अवरशब्दो दन्तोष्ठ()वकारमध्यः।