पूर्वम्: ४।३।८९
अनन्तरम्: ४।३।९१
 
सूत्रम्
अभिजनश्च॥ ४।३।९०
काशिका-वृत्तिः
अभिजनश् च ४।३।९०

सो ऽस्य इत्येव। स इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थम् अभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्सम्बन्धाद् देशो ऽपि अभिजनः इति उच्यते, यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यो, निवासप्रत्यासत्तेः। स्रुघ्नो ऽभिजनो ऽस्य स्रौघ्नः। माथुरः। राष्टियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सो ऽभिजनः। योगविभाग उत्तरार्थः।
न्यासः
अभिजनश्च। , ४।३।९०

"तत्सम्बन्धाद्देशोऽप्यभिजन उच्यते" इति। यथा यष्टीः प्रवेदशयेति यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वत्र्तते, तथाऽभिजनशब्दो देशे वत्र्तते। कः पुनरसौ योऽभिजनसम्बन्धादभिजन उच्यते? इत्यत आह-- "यस्मिन्" इत्यादि। "इह देशवाचिनः" इत्यादि। कथं पुनर्मुख्येऽभिजने गौणात् प्रत्ययो भवति? इत्याह-- "निवासप्रत्यासत्तेः" इति। निवासो ४।३।८९ऽनुकृष्यते तेनाभिजनो विशेष्यते निवासो योऽभिजन इति। तस्माद्देशवाचिन एव प्रत्ययो भवति, न बन्धुभ्यः ; तेषामनिवसत्वात्। निवासाभिजनयोः को विशेषः? नास्त्येव कश्चिद्विशेषः, अभिजनस्य निवासभूतत्वादिति मन्यते। "यत्र" इत्यादि। विशेषं दर्शयति। "योगविभाग उत्तरार्थः" इति। उत्तरेषु योगेष्वभिजनप्रत्यया यथा स्युः, निवासे मा भूवन्निति॥
बाल-मनोरमा
अभिजनश्च १४४९, ४।३।९०

अभिजनश्च। स इत्यनुवर्तते। पूर्ववद्व्याख्येयम्। "यत्र पूर्वैरुषितं सोऽभिजन" इति भाष्यम्। यत्र स्वयमिति। उदाह्मतभाष्यस्यायमर्थ इति भावः।

तत्त्व-बोधिनी
अभिजनश्च ११३६, ४।३।९०

अभिजनश्च। योगविभाग उत्तरार्थः। "अभिजनाः पूर्वबान्धवाः"इति वृत्तिः। अभिजायते येभ्य इति व्युत्पत्तेरिति भावः। पूर्वाबान्धवाः पित्रादयः। बन्धुशब्दः प्रज्ञादिः। पूर्वसूत्रादिह "निवासः"इत्यनुवृत्तम्। तत्सामानादिकरण्यादभिजनशब्दस्यतत्संबन्धिनि लक्षणा। एवं स्थिते फलितमाह---यत्र पूर्वैरिति।