पूर्वम्: ४।४।१३२
अनन्तरम्: ४।४।१३४
 
सूत्रम्
अद्भिः संस्कृतम्॥ ४।४।१३३
काशिका-वृत्तिः
अद्भिः संस्कृतम् ४।४।१३४

निर्देशादेव समर्थविभक्तिः। अप्शब्दात् तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। यस्य इदम् अप्यं हविः। अद्भिः संस्कृतम् इति।