पूर्वम्: ५।१।११२
अनन्तरम्: ५।१।११४
 
सूत्रम्
आकालिकडाद्यन्तवचने॥ ५।१।११३
काशिका-वृत्तिः
आकालिकडाद्यन्तवचने ५।१।११४

आकालिकटिति निपात्यते आद्यन्तवचने। समानकालशब्दस्य आकालशब्द आदेशः। आद्यन्तयोश्च एतद् विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समानकालौ आद्यन्तौ अस्य आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पादानन्तरं विनाशिनीत्यर्थः। आकालाट् ठंश्च। चात् ठञ् च। आकालिका विद्युत्। ठञः पूर्णो ऽवधिः।
न्यासः
आकालिकडद्येन्तवचने। , ५।१।११३

आदिः=जन्म, अन्तः=विनाशः, तयोर्वचनमाद्यन्तवचनम्()। तस्मिन्? सत्येतन्निपातनम्()। "समानकालावाद्यन्तावस्य" इति। ननु चोत्पदनविनाशयोरयौगपद्यात्? समनकालत्वं न सम्भवति, न ह्रनेन जन्मनाशयोरेककालता प्रतिपद्यते, किं तर्हि? विद्युदादेरनवस्थायित्वप्रदर्शनपरत्वादस्येत्यत आह--"उत्पादानन्तरं विनाशिनीत्यर्थः" इति। "आकालाट्ठंश्च" इति। यदा ठन्? तदा--आकालिका। यदा ठञ्? तदा--आकालिकी। आकालशब्दश्चायं "आङ्? मर्यादाभिविध्योः" २।१।१२ इत्यव्ययीभावः। आ कालादाकालम्()--"कुगतिप्रादयः" २।२।१८ इति, तत्पुरुषो वा--आवृत्तः काल आकाल इति॥
बाल-मनोरमा
आकालिकडाद्यन्तवचने ३६३, ५।१।११३

आकालिकट्। समानकालाविति बहुव्रीहिः। आद्यन्ताविति। उत्तपत्तिवनाशादित्यर्थः। समानकालस्येति। समानकालशब्दस्य इकप्रत्यये परे आकालादेशो निपात्यत इत्यर्थः ननूत्पत्तिविनाशयोकेककालिकत्वमसंभवपराहतमित्यत आह--आशु विनाशीति। लक्षणां विनैवाह--पूर्वदिने इति।

आकालाट्ठंश्चेति। आकालशब्दादाद्यन्तवचनाट्ठन्प्रत्ययश्च वक्तव्य इत्यर्थः। चाट्ठञ्। आकालिका विद्युदिति। ठनि टाप्। ठञि तु ङीप्। आकालिकी। अर्थः प्राग्वत्।

***** इति बालमनोरमायाम् प्राग्वतीयस्य ठञः पूर्णोऽवधिः। *****

तिङन्ते तुदादयः।

अथ शविकरणा धातवो निरूप्यन्ते। इतः षडिति। "ऋषी गतौ" इत्यतः प्रागित्यर्थः।

तत्त्व-बोधिनी
आकालिकडाद्यन्तवचने ३१७, ५।१।११३

आकाल आदेश इति। "निपात्यते"इति शेषः। आद्यन्तौ यस्येत्यादि। अस्येत्यधिकारात्षष्ठ()र्थे इकट् प्रत्ययो निपात्यत इति भावः।

आकालाट्ठंश्च। आकालाट्ठंश्चेति। वार्तिकमिदम्।

ठञः पूर्णोऽवधिः।

इति तत्त्वबोधिन्यां ठञधिकारः।

तिङन्ते तुदादयः।