पूर्वम्: ५।१।११६
अनन्तरम्: ५।१।११८
 
सूत्रम्
उपसर्गाच्छन्दसि धात्वर्थे॥ ५।१।११७
काशिका-वृत्तिः
उपसर्गाच् छन्दसि धात्वर्थे ५।१।११८

उपसर्गात् ससाधने धात्वर्थे वर्तमानात् स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये। यदुद्वतो निवतो यासि वप्सद्। उद्गतानि निगतानि च।
न्यासः
उपसर्गाच्छन्दसि धात्वर्थे। , ५।१।११७

उपसर्गाः प्रादयः, ते चैवमात्मकाः। यत्र क्रियावाची शब्दः प्रयुज्यते, तत्र क्रियाया विशेषका भवन्ति--आगच्छति, प्रगच्छतीति। यत्र न प्रयुज्यते, तत्र समाधनक्रियावाचकाः--सङ्कटः, उत्कट इति। क्रियावाची शब्दः प्रादीनां वत्यन्तानां प्रयोगे न प्रयुज्यते। तेन साधनो धात्वर्थेः स्वार्थः। तेन साधने धात्वर्थे वत्र्तमानादुपसर्गात्? प्रत्ययो विज्ञायति इत्याह--"समाधने धात्वर्थे" इति। यदि ह्रेवमात्मका उपसर्गाः, धात्वर्थग्रहणं न कत्र्तव्यम्()? सत्यमेतत्(); तत्? क्रियते विस्पष्टार्थम्()। "उद्वतः, निवतः" इति। उच्छब्दात्? निश्बदात् समाधने धात्वर्थे वतिः। ननु च वतेरव्ययसंज्ञकत्वाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्()। अनित्यत्वं तु तस्याः "सत्यमेतत्(); तत्? क्रियते विस्पष्टार्थम्()। "उद्वतः, निवतः" इति। उच्छब्दात्? निशब्दात्? समाधने धात्वर्थे वतिः। ननु च वतेरवययसंज्ञकतवाद्विभक्तेर्लुक्? प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्()। अनित्यत्वं तु तस्याः "सर्वमिदं काण्डं स्वरादावपिं पठ()ते" इत्यादिनाऽव्ययसंज्ञाप्रकरण एव प्रतिपादितम्॥