पूर्वम्: ५।१।११
अनन्तरम्: ५।१।१३
 
सूत्रम्
तदर्थं विकृतेः प्रकृतौ॥ ५।१।१२
काशिका-वृत्तिः
तदर्थं विकृतेः प्रकृतौ ५।१।१२

प्रकृतिः उपादानकारणं, तस्य एव उत्तरम् अवस्थान्तरं विकृतिः। विकृतिवाचिनः प्रातिपादिकात् प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति। तदर्थम् इति प्रत्ययार्थविशेषणम्। तदिति सर्वनाम्ना विकृतिः परामृश्यते। विकृत्यर्थायां प्रकृतौ प्रत्ययः। तदर्थग्रहणेन प्रकृतेरनन्यार्थता आख्यायते। न प्रकृतिविकारसम्भवम् आत्रे प्रत्ययः, किं तर्हि, प्रकृतेरनन्यार्थत्वे विवक्षिते। प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल् लभ्या चतुर्थी समर्थविभक्तिः। केचित् तु तस्मै हितम् ५।१।५ इत्यनुवर्तयन्ति। अङ्गारेभ्यो हितानि एतानि काष्ठानि अङ्गारीयाणि काष्ठानि। प्राकारीया इष्टकाः। शङ्कव्यं दारु। पिचव्यः कार्पासः। तदर्थम् इति किम्? यवानां धानाः। धानानां सक्तवः। प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यम् धानानां सक्तवः, न लाजानाम् इति। विकृतेः इति किम्? उदकार्थः कूपः। विकृतिग्रहणे ऽक्रियमाणे या काचित् प्रक्र्तिर् गृह्यते, न उपादानकारणम् एव। भवति च कूप उदकस्य प्रकृतिः, तत्र उत्पादनात्। न तु उदकं तस्यः विकृतिः, अत्यन्तभेदात् प्रकृतौ इति किम्? अस्यर्था कोशी। असिरयसो विकृतिर् भवति, न तु कोशी तस्य प्रकृतिर् भवति। द्वयोरपि प्रकृतिविकृत्योर् ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते।
न्यासः
तदर्थं विकृतेः प्रकृतौ। , ५।१।१२

तस्मै इदं तदर्थम्(), "चतुर्थी तदर्थ" २।१।३५ इत्यादिना समासः। एतदेव वचनं ज्ञापकम्()--अर्थोत्तरपदे समासे समुदायार्थस्य लिङ्गं भवति, न च परवल्लिङ्गतेतिं। एतेन यदुक्तं--"अर्थेन नित्यसमासः सर्वलिङ्गता च वक्तव्या" (वा।७८) इति सा सिद्धा भवति। "प्रकृतिरुपादानकारणम्()" इति। समानजातीयमभिन्नसन्तानवृत्ति कारणमुपादनकारणमित्युच्यते। उपादीयत इत्युपादानम्(), बहुलवचनात्? कर्मणि ल्युट्(), तस्य कारणमिति षष्ठीसमासः। "तस्यैव व" इत्यादि। तस्यैवोपादानकारणस्योत्तरभाव्यस्थाविशेषो विकृतिः। "विकृतिवाचिनः" इत्यादि। ननु च "समर्थानां प्रथमाद्वा" (४।१।८२) इति वचनात्तदर्थमिति प्रथमं निर्दिष्टत्वात्? प्रकृतेश्च तदर्थत्वात्? तद्वाचिन एव प्रत्ययः प्राप्नोति? नैष दोषः; प्रथमस्य चाप्रथमस्य च कार्यप्राप्तौ प्रथमादेव यथा स्यादित्येवमर्थं प्रथमग्रहणं नियमार्थं कृतम्()। इह तु प्रथमात्? प्राप्तिरेव नास्ति। "प्रकृतौ" इति। सप्तम्या प्रकृतेः प्रत्ययार्थत्वेन सम्पादितत्वात्()। "विकृतेः" इति। पञ्चम्या विकृतेः प्रकृतित्वेन तस्मान्नायमस्य विषय इति विकृतिवाचिन एव प्रत्ययो भवति। "विकृत्यर्थायाम्()" इति। अनेन तदर्थमित्यत्र सुब्व्यत्ययेन सप्तम्याः स्थाने प्रथमा, लिङ्गव्यत्ययेन च स्त्रीलिङ्गस्य स्थाने नपुंसकलिङ्गं कृतमिति दर्शयति। ननु च छन्दसि व्यत्यय उक्तः, नेदं छन्दः, तत्कुतो व्यत्ययः? "छन्दोवत्सूत्राणि भवन्ति" (म।भा।१।१।१) इत्यदोषः। "तदर्थग्रहणेन" इत्यादि। इह प्रकृत्यन्तरनिवृत्तिः--यवानां धानाः, धानानां सक्तव इति। क्वचिद्विकारस्य प्रकृतिसम्बन्धः--धानानां यवाः, सक्तूनां धाना इति। क्वचित्? प्रकृतेरनन्यार्थता, यथा--काष्ठानामङ्गाराः। प्रकृतेरनन्यार्थताख्यानार्थेन यदिष्टं सम्पद्यते, तद्दर्शयति--"प्रत्ययार्थस्य च" इत्यादि। इह विकृत्यर्थायां प्रकृतौ प्रत्यय उच्यते। तस्य तस्मात्? तादर्थ्ये चतुर्थ्येव शक्यते प्रतिबोधयितुम्()। अतः प्रत्ययार्थस्य तदर्थत्वेन सामथ्र्याच्चतुर्थी समर्थविभक्तिर्लभ्यते। "केचित्तु" इत्यादि। तेषां वचनलभ्यैवु चतुर्थी समर्थविभक्तिः। "तदर्थम्()" इति। किमिति षष्ठी प्रत्युदाह्यियते? षष्ठ()ति तादथ्र्यं ब्राऊते, यथा--गुरोरिदं गुर्वर्थमिति। तथा सति षष्ठ()पि समर्थविभक्तिर्भवति। अङ्गाराणां काष्ठानीति प्रत्युदाहरणं तु प्रकृत्यन्तरनिवृत्त्या, तया यवादेः समर्थ्येते। अङ्गारेभ्यः काष्ठानि, प्राकारेभ्य इष्टका इति। इदमसति तदर्थग्रहणे न ज्ञायते किमर्थं विवक्षितमिति। तस्मादनन्यार्थता प्रकृतेर्विवक्षितेति। एतत्? प्रयोजनं प्रतिपादयितुं तदर्थग्रहणं कृतमिति भावः। तथा च प्रकृत्यन्तरनिवृत्या प्रकृतिरेव सम्बध्यमाना व्यतिरिच्यत इति यवादेरेव व्यतिरेकविभक्तिर्भवति। ये तु चतुर्थींमनुवत्र्तयन्ति, तेषां तदरथग्रहणं चतर्थीविशेषणं विज्ञायते--तादर्थ्ये चतुर्थीति। तत्र मूत्राय कल्पते यवागूरिति प्रत्युदाहरणम्()। तेषां चतुथ्र्यनुवृत्तिरपार्थिका; तदर्थग्रहणेनैव गतार्थत्वात्()। तथा च या तादथ्र्यसमानार्था षष्ठी सा चासत्यां विशेष्यते। "या काचित्()" इतचि। न तूपादानकारणभूतापीत्यर्थः। स्यादेतत्()--कूपः प्रकृतिरुदकस्य न भवत्येव; ततस्तन्निवृत्त्यर्थं विकृतिग्रहणं न कत्र्तव्यमित्यत आह--"भवति च" इत्यादि। चशब्दोवधारणे। ननु चान्येभ्य एव स्वकारणेभ्य उदकमुत्पाद्यते, तत्कथं कूपस्तस्य प्रकृतिः? इत्याह--"तत्रोत्पादनात्()" इति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्त्याधारभूतौ दर्शपौर्णमासौ प्रकृतौ भवतः, एवमुदकस्योत्पत्त्याधारभूतत्वात्? कूपः प्रकृतिर्भवति। यद्येवम्(), उदकमपि तस्य विकृतिः? इत्याह--"ननु" इत्यादि। अत्रैवोपपत्तिमाह--"अत्यन्तभेदात्()" इति। विकारो हि प्रकृतेरुत्तरमवस्थान्तरमिति ततो नात्यन्तभिन्नो भवति, यथा--काष्ठानामङ्गाराः। ते हि पार्थिवेनाभिन्नसन्तानवर्त्तित्वेन काष्ठेभ्यो नात्यन्तं भिद्यन्ते। उदकं तु भिन्नस्वभावत्वाद्भिन्नसन्तानवर्त्तित्वाच्च कूपादत्यन्तं भिन्नम्()। अतो न तस्योत्तरमवस्तान्तरमिति न भवति विकृतिः। "न तु कोशी तस्य प्रकृतिः" इति। अतत्कारणत्वात्(), अनुत्पत्त्याधारभूतत्वाच्च। ननु च प्रकृतिर्विकृतिरिति सम्बन्धिशब्दावेतौ। सम्बन्धिशब्दश्च नियत एव प्रतियोगिनि प्रतीतिमुपजनयति, यथा हि--"मातरिवर्त्तितव्यम्()" इत्युक्ते न चोच्यते "स्वस्यां मातरि" इति, या यस्या माता तस्यामिति प्रतीयते। एवं सति कूपलक्षणायां प्रकृतौ विकृत्यर्थायां प्रत्ययार्थत्वेन विवक्षितायामसत्यपि विकृतग्रहणे तस्यैव कूपस्य या या विकृतिस्तत एव प्रत्ययो विज्ञायते। तथा च विकारवाचिनोऽसिशब्दात्? प्रत्यये विधित्सिते यस्यासौ प्रकृतिस्तस्यामेव तदर्थायां प्रकृतावसत्यपि प्रकृतिग्रहणे प्रत्ययो विज्ञायते। तस्मादन्यतरोपादानेऽपि सर्वमिष्टं सम्पद्यते। न किञ्चिदनिष्टमापद्यत इत्याह--"तदर्थं द्वयोरपि" इत्यादि। अनेनैवं मन्यते--स्यादेतदेव यदासौ प्रकृतिविकृतिशब्दौ नियोगतः सम्बन्धिशब्दौ, न चेमौ नियोगतः सम्बन्धिशब्दौ। तथा हिं, विपूर्वस्तावदयं करोतिंरस्त्येवापकारे--देवदत्तोऽस्थित्यै विकरोतीति; अस्ति चेष्टानानात्वे--विकुर्वते च्छात्रा इति; अस्त्यनौचित्ये--विकृतिरेषा स्त्रीणां यत्? स्वातन्त्र्यमिति। अस्ति कार्ये--तन्तुनां पटो विकार इति। तता प्रपूर्वोऽप्ययमस्ति कारणे--तन्तवः प्रकृतिः पटस्येति; अ()स्त चौदासीन्ये--सत्त्वानां प्रकृतिरिति। तान्युच्यन्ते यान्यनारम्भकाणि; अस्ति दोषापगमे--प्रकृतिस्तोऽयमिति। अस्ति स्वभ्वे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिस्थोऽयमिति। असति स्वभावे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिरिति। तदेवमर्थबहुत्वादनयोः सर्म्बान्धत्वमनैकान्तिकमिति, अतोऽन्यतरग्रहणे न सिध्यति। न चान्यतरेण शक्यते वक्तुं विवक्षितः प्रकृतिविकारभावः। अयमुपादानकारणस्य तदुत्तरावस्थाभूतस्य च यो विकारः स इह वेदितव्यः। यदि तु विपूर्वः करोतिरनेकार्थः, "तस्य विकारः" (४।३।१३४) इत्यत्रापि सन्देहापगमाय तर्हि प्रयतितव्यम्()? सत्यमेतत्(); शैलीयमाचार्यस्य यस्य क्वचिदभिधानमाश्रयति, क्वचन्न्यायम्(), क्वचिद्वचनमिति तत्? सर्वमुच्यते। तेन सर्वं प्रत्याय्यते॥
बाल-मनोरमा
तदर्थं विकृतेः प्रकृतौ १६५२, ५।१।१२

तदर्थं विकृतेः प्रकृतौ। तदर्थमिति "सामान्ये नपुंसकम्"। तस्मै इदं तदर्थम्। तच्छब्देन विकृतिः परामृश्यते। सप्तम्यर्थे प्रथमा। विकृत्यर्थायां प्रकृताविति लभ्यते। एवं च तच्छब्देन चतुथ्र्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते। तथा च चतुथ्र्यन्ताद्विकृतिवाचकादिति लभ्यते। तदाह--विकृतिवाचकादित्यादिना। प्रत्ययः स्यादिति। "यथाविहित"मिति शेषः। अङ्गारेब्य एतानीति। अङ्गारार्थानीत्यर्थः। अर्थेन नित्यसमासविधानादस्वपद विग्रहः। अत्र काण्ठानि प्रकृतिद्रव्याणि। अङ्गारा विकृतयः। तद्वाचकादङ्गारशब्दाच्छप्रत्यये "अङ्गारीयाणी"ति रूपम्। प्राकारीया इष्टका इतदि। प्राकारेभ्य इमा इति विग्रहः। प्राकारार्था इत्यर्थः। शङ्कव्यमिति। शङ्कवे इदमिति विग्रहः। शङ्क्वर्थमित्यर्थः। "उगवादिभ्यः" इति यत्।

तत्त्व-बोधिनी
तदर्थ विकृतेः प्रकृतौ १२७६, ५।१।१२

तदर्थ विकृतेः। "तस्मै हित"मित्यतस्तस्मा इत्यनुवर्तते। तदाह---चतुथ्र्यन्तादिति। "तदर्थ"मिति "सामान्ये नपुंसकं"। व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह--तदर्थायामिति। विकृत्यर्थायामित्यर्थः। "त"दिति सर्वनाम्ना हि विकृतिः परमृश्यते। एवं च विकृतिरेव प्रथमानिर्दिष्टेति "समर्थाना प्रथमा"दित्यधिकारोऽप्यत्र निर्बाध व। शङ्कव्यमिति। "उगवादिभ्यः" इति यत्।