पूर्वम्: ५।१।१२
अनन्तरम्: ५।१।१४
 
सूत्रम्
छदिरुपधिबलेः ढञ्॥ ५।१।१३
काशिका-वृत्तिः
छदिरुपधिबलेर् ढञ् ५।१।१३

छदिरादिभ्यः शब्देभ्यः ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ ५।१।१२ इत्येतस्मिन् विषये। छस्य अपवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयते इति उपधिः रथाङ्गं औपधेयम् अपि तदेव दारु।
न्यासः
छदिरुपधिबलेर्ढञ्?। , ५।१।१३

यदा छदिश्चर्मविकारो विवक्ष्यते तदापि ढञेवेष्यते--छादिषेयं चर्मेति। ननु च परत्वात्? "चर्मणोऽञ्()" (५।१।१५) इत्यञ्? प्राप्नोति? नैष दोषः; "चर्मणोऽञ्()" इत्यत्र छदिषो ढञनुवर्त्तिष्यते। यथा छदिःशब्दाद्वलिशब्दाच्चतुर्थीसमर्थात्? प्रकृतिविकारभावे प्रत्यय उपजायते, तथोपधिंशब्दादपि भवतिव्यमित्याशङ्क्याह--"उपधिशब्दात्()" इत्यादि। अत्र युक्तिमाह--"उपधीयते" इत्यादि। तेन "कर्मण्युपसर्गे घोः किः" इति दर्शयति। तेन च द्रव्यस्यानासादितोत्तरावस्थस्याभिधानम्()। यद्युपधिंशब्दाद्विकृतिवाचिनः स्यात्(), एवमर्थान्तरे स्यात्()। न चासौ प्रकृतिविशेषे भवति। न तूपधिशब्दाद्वाच्यस्य प्रत्यान्तरस्य प्रकृतिविकारभावोऽस्ति, अबेदात्()। तथा हि--यदेव रथाङ्गमुपधिशब्देनोच्यते तदेवानासादितोत्तरावस्थमौपधेयशब्देनापि। स्यादेतत्()--यदा भावसाधन उपधिंशब्द उपधानमुपधिरिति तदा नास्ति भेदः, क्रियाभिधानात्(); यदाप्युपधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदौपधेयशब्देन च तत्प्रकृति द्रव्यम्(), अतः प्रकृतिविशेषे परप्रत्ययौ भविष्यतीति? एतच्चायुक्तम्(); न हि क्रियाद्रव्यस्य विकारो युज्यते; अत्यन्तभेदात्()। तस्मात्? स्थार्थं एवोपधिंशब्दात्? प्रत्ययो विज्ञायते॥
बाल-मनोरमा
छदिरुपधिबलेर्ढञ् १६५३, ५।१।१३

छदिरुपधिबलेर्ढञ्। छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम्। एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः। छादिषेयाणीति। छदिस्तृणपटलः। तस्मै इमानीति विग्रहः। छदिरर्थानीत्यर्थः। ढञि एयादेशे षात्परत्वाण्णत्वम्। बालेयास्तण्डुला इति। बलये इमे इति विग्रहः। बल्यर्था इत्यर्थः। "करोपहारयोः पुंसि बलि"रित्यमरः। "भागधेयः करो वलि"रिति च।

उपधिशब्दादिति। वार्तिकमिदम्। उपधीयते इति। अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः। "उपसर्गे घोः किः" इति धाञः किप्रत्ययः। "आता लोप इटि चे"त्याल्लोपः। उपधी रथाङ्गमिति। तथा भाष्यादिति भावः।

तत्त्व-बोधिनी
छदिरुपधिबलेर्ढञ् १२७७, ५।१।१३

छदिरुपधि। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। छस्यापवादोऽयम्। छादिषेयाणीति। छाद्यतेऽनेनेति छदिः। "अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः"। "इस्मन्त्रन्क्विषु च"इति ह्यस्वत्वम्। यदा तु चर्मविकारश्छदिस्तदा परत्वात् "चर्मणोऽ"ञित्यञ् प्राप्नोति। पूर्वविप्रतिषेधेन तु ढञेवेष्यते। छादिषेयं चर्म। आह च "यञ्ञ्यावञः पूर्वविप्रतिषिद्धम्" "ढञ् चे"ति। यत उदाहरणं स्त[स]नङ्गव्यं। स्त[स]नङ्गुश्चर्मविकारस्तदर्थं चर्म। "उगवादिभ्यः"इति यत्। ञ्यस्योदाहरणमौपानह्रमिति अनुपदं वक्ष्यति। बालेया इति। "करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्तरिया"मित्यमरः।

उपधिशब्दात्स्वार्थे इष्यते। उपधिरिति। "उपसर्गे घोः कि"रिति धाञःकिः।"आतो लोप इति चे"त्यलोपः विप्रतिषेधेनेति। "यञ्ञ्यावञ"इत्यादिवार्तिकेनेत्यर्थः। ननु ढञ्विधौ छदिरित्यस्य, ञ्यविधौ उपानहश्च विशिष्य ग्रहणेन "प्रतिपदोक्तं बलीयः"इति सिद्धे किमनेन पूर्वविप्रतिषेधेन()। अत्राहुः--"निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकं", न तु सावकाशत्वे"इत्यनेन मुनिवचनेनाऽनुमीयते। तेन "स्वम्पि तडाकानि"इत्येव युक्तं, परत्वान्नुम्प्वृत्तेः। प्रतिपदोक्तत्वाद्दीर्घमाश्रित्य "स्वाम्पि तडाकानी"ति मतं दुर्बलम्। "अप्तृन्" इति दीर्घस्य "आपस्तिष्ठन्ती"

त्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याऽबलीयस्त्वादिति।