पूर्वम्: ५।१।७४
अनन्तरम्: ५।१।७६
 
सूत्रम्
पन्थो ण नित्यम्॥ ५।१।७५
काशिका-वृत्तिः
पन्थो ण नित्यम् ५।१।७६

नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययम् आदेशो भवति णश्च प्रत्ययो नित्यं गच्छति इत्यस्मिन् विषये। पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते। नित्यम् इति किम्? पथिकः।
न्यासः
पन्थो ण नित्यम्?। , ५।१।७५

"नित्यग्रहणम्()" इत्यादि। अथ वाक्यनिवृत्त्यर्थं कस्मान्न भवति? पन्थशब्दस्य वाक्यासमवायित्वात्()। स हि प्रत्ययसन्नियोगेन विधीयते, न वाक्येन समवैति। ननु च पथिन्शब्देन वाक्यं मा भूदित्येवमर्थं नित्यग्रहणं स्यात्()? नैतदस्ति; यदि तदेवमर्थं स्यात्? पूर्वसूत्र एव कृतं स्यात्()--यत्र पथिन्शब्दः श्रुयते। इह तु करणे प्रत्ययार्थविशेषणं विज्ञायते॥
बाल-मनोरमा
पन्थो ण नित्यम् १७१७, ५।१।७५

पन्थो ण नित्यम्। पथ इत्यनुवर्तते, गच्छतीति च। नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्यमेव, नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम्। द्वितीयान्तात्पथिन्शब्दान्नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात्, प्रकृतेः पन्थादेशश्चेत्यर्थः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम्।

तत्त्व-बोधिनी
पन्थो ण नित्यम् १३२६, ५।१।७५

पन्थो ण। पथः "पन्थ"इत्ययमादेशः स्याण्णश्च प्रत्ययः। नित्यग्रहणमिह प्रत्ययार्थविशेषणं , न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह---नित्यं गच्छतीति। नित्यमिति किम्()। पथिकः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम्। इहं हि भाष्याशयः---नित्यं पन्थानं गच्छतीत्यर्थोऽत्र यद्यपि संभवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते, कदाचिद्गच्छत्यपि तत्प्रयोगात्। न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्क्यम्। शिष्टप्रयोगे विग्रहवाक्यस्य दर्शनादिति। उत्तरपथेन। चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते।