पूर्वम्: ५।२।१०६
अनन्तरम्: ५।२।१०८
 
सूत्रम्
द्युद्रुभ्यां मः॥ ५।२।१०७
काशिका-वृत्तिः
द्युद्रुभ्यां मः ५।२।१०८

द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दौ एतौ। रूढिषु मतुप् पुनर् न विकल्प्यते।
न्यासः
द्युद्रुभ्यां मः। , ५।२।१०७

द्यौश्च द्रुश्च द्युद्रू, ताभ्यां मतुपि प्राप्ते मो विधीयते। धौरस्यास्तीति द्युमः, "दिव उत्()" ६।१।१२७ इत्युत्त्वम्()। केचित्()--"द्युशब्द प्रकृत्यन्तरमह्नो नामधेयम्(), तत इदं प्रत्ययविधानम्()" इत्याहुः। "रूढिषु मतुप्? पुनर्न विकल्प्यते" इति। रूढिशब्दार्थस्य मतुपाऽनभिधानात्()॥
बाल-मनोरमा
द्युद्रुभ्यां मः १८८९, ५।२।१०७

द्युद्रुभ्यां मः। "दिव उ"दिति कृतोत्वस्य दिव्शब्दस्य "द्यु" इति निर्देशः। दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः। द्युमः द्रुम इति। रूढशब्दावेतौ।

तत्त्व-बोधिनी
द्युद्रुभ्यां मः १४५४, ५।२।१०७

द्युद्रुभ्यां मः। द्युम इति। द्यौरस्यास्ति। "दिव उ"दित्युत्वम्। द्रुर्वृक्षः सोऽस्यास्ति जनकतयेति"द्रुमोऽपि वृक्ष एव। "पलाशी द्रुद्रुमाऽगमाः"इत्यमरः। इह सर्वत्र समुच्चीयमानोऽपि मतुब्राऊढशब्देषु नेष्यते, तदर्थस्य मतुपा अभिधातुमशक्यत्वात्। दृश्यत इति। "व"इत्यनुवर्तते।

अर्णसो लोपश्च। अर्णव इति। अर्तेरसुन्, नुट्च। अर्णः=जलं, तद्वान्।