पूर्वम्: ५।२।११०
अनन्तरम्: ५।२।११२
 
सूत्रम्
रजःकृष्यासुतिपरिषदो वलच्॥ ५।२।१११
काशिका-वृत्तिः
रजःकृष्यासुतिपरिषदो वलच् ५।२।११२

रजःप्रभृतिभ्यः प्रातिपदिकेभ्यः वलच् प्रत्ययो भवति मत्वर्थे। रजस्वलास्त्री। कृषीवलः कुटुम्बी। आसुतीवलः शौण्दिकः। परिषद्वलो राजा। वले ६।३।११७ इति दीर्घत्वम्। इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते। तेन इह न भवति, रजो ऽस्मिन् ग्रामे विद्यते इति। वलच्प्रकरणे ऽन्येभ्यो ऽपि दृश्यत इति वक्तव्यम्। भ्रातृवलः। पुत्रवलः। उत्साहवलः।
न्यासः
रजः कृष्यासुतिपरिषदो वलच्?। , ५।२।१११

रजःशब्दात्? "अस्मायामेधारुआजो विनिः" ५।२।१२० इति विनौ प्राप्ते, इतरेभ्यस्तु मतुपि वलज्विधीयते। "वलच्प्रकरणे" इत्यादि। वप्रत्ययस्य व्याख्यानेनेदमपि व्याख्यातप्रायम्()। अत्र "वले" (६।३।११८) इति दीर्घत्वं कस्मान्न भवति? "वनगिर्योः संज्ञायाम्()" ६।३।११६ इत्यतः संज्ञाग्रहणानुवृत्तेः॥
बाल-मनोरमा
रजःकृष्यासुतिपरिषदो बलच् १८९३, ५।२।१११

रजःकृषि। रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः। आसुतीवल इति। "षुञ् अभिषवे"। आङ्पूर्वात्स्त्रियां क्तिन्। "वले" इति दीर्घः।

अन्येभ्योऽपीति। वार्तिकमिदम्। "रजः कृषी"त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः। भ्रातृवलः। "ढ्रलोपे" इत्यतोऽण इत्यनुत्तेः "वले" इति न दीर्घः। पुत्रवल इत्यादौ "वले" इति दीर्घमाशङ्क्याह--वले इत्यत्रेति।

तत्त्व-बोधिनी
रजःकृष्यासुतिपरिषदो बलच् १४५६, ५।२।१११

आसुतीवल इति। "षुञ् अभिषवे"। क्तिन्। आसुतिरभिषवः। परिषद्वल इति। परितः सीदतीति परिषत्। "सत्सूद्विषे"त्यादिना क्विप्। "सदिरप्रते"रिति षत्वम्। पाठान्तरमिति। "शृ()दृ()भसोऽदिः"इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति। तथा च भाष्यं-----"पार्षदकृतिरेषा तत्रभवतां" "सर्ववेदपार्षदं हीदं शास्त्र"मिति च। भट्टिस्त्वाह---"पर्षद्बलान्महाब्राहृऐराट नैकटिकाश्रमा"निति। "पर्षदेषा दसावरे"ति मनुः।

अन्येभ्योऽपि दृश्यते। भ्रातृवल इति। "वले" इत्यत्राऽण्ग्रहणानुवृत्तेर्नेह दीर्घः। पुत्रवलादौ तु स्यात्तत्राह---संज्ञायामित्यनुवृत्तेरिति। "वनगिर्यो "रिति सूत्रादिति भावः।