पूर्वम्: ५।२।१२८
अनन्तरम्: ५।२।१३०
 
सूत्रम्
वयसि पूरणात्॥ ५।२।१२९
काशिका-वृत्तिः
वयसि पूरणात् ५।२।१३०

इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकातिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमो ऽस्य अस्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम्, इनिरेव भवति, ठन् न भवति इति। वयसि इति किम्? पञ्चमवान् ग्रामरागः।
न्यासः
वयसि पूरणात्?। , ५।२।१२९

"वयसि द्योत्ये" इति। कथं पुनर्वयो द्योत्यते, यदि पञ्चमादयः शब्दाः काले वत्र्तमानाः प्रत्ययमुत्पादयन्ति। अत एव तेषां काले वृतिं()त दर्शयितुमाह--"पञ्चमो मासोऽस्यास्ति" इति। "सिद्धे सति" इत्यादि। पूरणप्रत्ययानामकारन्तत्वादिनिः सिद्ध एव, तस्मिन्? सिद्धे पुनरिवं वचनं नियमार्थं ज्ञायत इति। "इनिरेव भवति" इति। नियमस्य स्वरूपं दर्शयति॥
बाल-मनोरमा
वयसि पूरणात् १९१०, ५।२।१२९

वयसि पूरणात्। "अत इनिठना"वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह--ठनादिबाधनार्थमिति।