पूर्वम्: ५।२।२४
अनन्तरम्: ५।२।२६
 
सूत्रम्
पक्षात्तिः॥ ५।२।२५
काशिका-वृत्तिः
पक्षात् तिः ५।२।२५

तस्य इत्येव। तस्य इति षष्ठीसमर्थात् पक्षशब्दात् मूले ऽभिधेये तिः प्रत्ययो भवति। मूलग्रहणम् अनुवर्तते, न पाक्षग्रहणम्। एकयोगनिर्दिष्टानाम् अप्येकदेशो ऽनुवर्तते इति। पक्षस्य मूलं पक्षतिः प्रतिपत्।
न्यासः
पक्षात्तिः। , ५।२।२५

"एकयोगनिर्दिष्टानाम्()" इति। स्वरितत्वेनादिशब्दानामनुवृत्तिर्भवति। स्वरितत्वप्रतिज्ञाप्रतिबद्धत्वात्()। एकयोगनिर्दिष्टानामपि यत्र प्रतिज्ञायते स्वरितत्वं तत्रैव भवति, नान्यत्र। तेनैकयोगनिर्दिष्टनामप्येकदेशस्यानुवृत्तिरुपपद्यते॥
बाल-मनोरमा
पक्षात्तिः १८०३, ५।२।२५

पक्षात्तिः। मूलग्रहणमात्रमिति। पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः। तस्येत्यप्यनुवर्तते। पक्षशब्दात् षष्ठ()न्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः।

तत्त्व-बोधिनी
पक्षात्तिः १३९२, ५।२।२५

पक्षतिरिति। प्रतिवत्, पक्षिणां, पक्षमूलं च।