पूर्वम्: ५।२।२६
अनन्तरम्: ५।२।२८
 
सूत्रम्
विनञ्भ्यां नानाञौ नसह॥ ५।२।२७
काशिका-वृत्तिः
विनञ्भ्यां नानाञौ नसह ५।२।२७

वि नञित्येताभ्यां यथासङ्ख्यं ना नाञित्येतौ प्रत्ययौ भवतः। नसह इति प्रकृतिविशेषणम्। असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां सवार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना।
न्यासः
विनञ्भ्यां नानाञौ नसह। , ५।२।२७

"स्वार्थे नानाञौ प्रत्ययौ भवतः" इति। "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (सी।प। १२५) इति कृत्वा। ञकारस्त्वाद्युदात्तार्थः॥
बाल-मनोरमा
विनञ्भ्यां नानाञौ नसह १८०५, ५।२।२७

विनञ्भ्यां। "नसहे"ति सङ्घातः पृथक्त्वे वर्तते। प्रकृतिविशेषणमिदम्। तदाह--असहार्थे इति। तस्य विवरणं--पृथग्भावे इति। वर्तमानाभ्यामित्यनन्तरं "विनञ्भ्या"मिति शेषः। स्वार्थ इति। प्रत्ययार्थस्य अनिर्देशादिति भावः। प्रत्ययाविति। "यथासङ्ख्यं नानाञा"विति शेषः। विनेति। वेर्नाप्रत्यये रूपम्। पृथगित्यर्थः। नानेति। नञो नाञि आदिवृद्धौ रूपम्। पृथगित्यर्थः। "नसहे"त्यस्य प्रत्ययार्थत्वे तु नेत्यनेन न सहेति गम्येत। एवं सति नाना न न सह, किंतु सहैवेत्यर्थः स्यात्, "द्वौ नञौ" प्रकृतमर्थं गमयतः" इति न्यायादिति भाष्ये स्पष्टम्।

बाल-मनोरमा
वेः विनञ्भ्यां नानाञौ नसह १८०६, ५।२।२७

वैः शालच्छङ्कटचौ। क्रियाविशिष्टेति। क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत्। इदं च भाष्ये स्पष्यटम्।

तत्त्व-बोधिनी
विनञ्भ्यां नानाञौ नसह १३९४, ५।२।२७

नानाञाविति। नाञो ञकारो वृद्द्यर्थः, स्वरार्थश्च। "न सहे"ति प्रकृतिविशेषणं, न प्रत्ययार्थ इत्यादशयेनाह---असहार्थ इत्यादि। यदि प्रत्ययार्थः स्यात्ततो "द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः"इति सहार्थो गन्येत "न न सह=अपि तु सहैवे"ति। तस्मात्प्रकृतिविशेषणम्। एतच्च व्याख्यानाल्लभ्यते। यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु विनञोः प्रतिषेधार्थत्वादिष्टसिद्धेः "विगार्दभरथकः"इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिद्र्दष्टैवेति। सत्यम्। क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत,---विगतेन सह, विकृतेन सहेति। सत्याद्यथोक्तमेव न्याय्यम्। एतच्च हरदत्तग्रन्थे स्पष्टम्। स्वार्थ इति। अनिर्दिष्टार्थत्वादिति भावः।