पूर्वम्: ५।२।३१
अनन्तरम्: ५।२।३३
 
सूत्रम्
नेर्बिडज्बिरीसचौ॥ ५।२।३२
काशिका-वृत्तिः
नेर्बिडज्बिरीसचौ ५।२।३२

नते नासिकायाः इत्यनुवर्तते, संज्ञायाम् इति च। निशब्दान् नासिकाया नते ऽभिधेये बिडच् बिरीसचित्येतौ प्रत्ययौ भवतः। निबिडम्, निबिरीसम्। तद्योगात् नासिका ऽपि। पुरुषो ऽपि, निबिडः, निबिरीसः। कथं निबिडाः केशाः, निबिडं वस्त्रम्? उपमानाद् भविष्यति।
न्यासः
नेर्बिडज्बिरीसचौ। , ५।२।३२

"कथं निबिडाः" इति। तद्योगोऽत्र नास्ति। अतस्तद्योगाभावात्? तथाभिधानं नोपपद्यत इत्यभिप्रायः। "उपमानाद्भविष्यति" इति। निविडतया नासिकया तुल्याः केशा वस्त्राणि च निबिडतया। तेनोपमानात्? तदुभयं निबिडशब्दवाच्यं भविष्यति॥
बाल-मनोरमा
नेर्बिडज्विरीसचौ १८१०, ५।२।३२

नेर्बिडज्विरीसचौ। "नते नासिकायाः संज्ञाया"मित्यनुवर्तते। नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः। "निबिडा वृक्षा" इति तु उपमानादित्याहुः।