पूर्वम्: ५।२।३३
अनन्तरम्: ५।२।३५
 
सूत्रम्
उपाधिभ्यां त्यकन्नासन्नारूढयोः॥ ५।२।३४
काशिका-वृत्तिः
उपाधिभ्यां त्यकन्नासन्नाऽरूढयोः ५।२।३४

उप अधि इत्येताभ्यां यथासङ्ख्यम् आसन्नारूढयोर् वर्तमानाभ्ह्यां स्वार्थे त्यकन् प्रत्ययो भवति। संज्ञाधिकाराच् च नियतविषयम् आसन्नारूढं गम्यते। पर्वतस्य आसन्नम् उपत्यका। तस्य एस्व आरूढम् अधित्यका। प्रत्ययस्थात् कात्पूर्वस्य इति इत्वम् अत्र न भवति, संज्ञाधिकारादेव।
तत्त्व-बोधिनी
उपाधिभ्यां त्यकन्नासन्नारूढयोः १३९७, ५।२।३४

उपाधिभ्याम्। संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्रत इत्याशयेनाह---पर्वतस्येति। आसन्नं=समीपम्। आरूढम्---उच्चस्थानम्। उपत्यकेति। "प्रत्ययस्था"दितीत्त्वं तु न भवति, "त्यकनश्च निषेधः" इत्युक्तत्वात्।