पूर्वम्: ५।२।३६
अनन्तरम्: ५।२।३८
 
सूत्रम्
प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ ५।२।३७
काशिका-वृत्तिः
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ५।२।३७

तदस्य इत्यनुवर्तते। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रचित्येते प्रत्यया भवन्ति यत् तत् प्रथमासमर्थं प्रमाणं चेत् तद् भवति। ऊरुः प्रमाणम् अस्य ऊरुद्वयसम्, ऊरुदघ्नम्, ऊरुमात्रम्। जानुद्वयसम्। जानुदघ्नम्। जानुमात्रम्। प्रथमश्च द्वितियश्च ऊर्ध्वमाने मतौ मम। ऊरुद्वयसम् उदकम्। ऊरुदघ्नम् उदकम्। मात्रच् पुनरविशेषेण, प्रस्थमात्रम् इत्यपि भवति। प्रमाणे लो वक्तव्यः। प्रमाणशब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग् भवति। शमः प्रमाणमस्य शमः। दिष्टिः। वितस्तिः। द्विगोर् नित्यम्। द्वौ शमौ प्रमाणम् अस्य द्विशमः। त्रिशमः। द्विवितस्तिः। नित्यग्रहणं किम्? संशये श्राविणं वक्ष्यति, तत्र अपि द्विगोर् लुगेव यथा स्यात्। द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः। डिट् स्तोमे वक्तव्यः। पञ्चदशः स्तोमः। पञ्चदशी रात्रिः। टित्त्वाद् ङीप्। शन्शतोर्डिनिर्वक्तव्यः। पञ्चदशिनो ऽर्धमासाः, त्रिंशिनो मासाः। विंशतेश्चेति वक्तव्यम्। विंशिनो ऽङ्गिरसः। प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्च अपि संशये मात्रच् वक्तव्यः। शममात्रम्। दिष्टिमात्रम्। प्रस्थमात्रम्। कुडवमात्रम्। पञ्चमात्रम्। दशमात्रा गावः। वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम्। तावदेव तावद्द्वयसम्, तावन्मात्रम्। एतावद्द्वयसम्, एतावन्मात्रम्। यावद्द्वयसम्, यावन्मात्रम्।
लघु-सिद्धान्त-कौमुदी
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ११७१, ५।२।३७

तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥
न्यासः
प्रमाणे द्वयसज्दध्नञ्मात्रचः। , ५।२।३७

प्रमाणशब्दस्य सम्बन्धिशब्दत्वात्प्रत्ययार्थो विज्ञायते। "प्रथमश्च द्वितीयश्च" इत्यादि। द्वयसज्दध्नचौ ऊध्र्वमान इष्येते। उपरि निक्षिप्य यत्र मीयते, न तिय्र्यक्? समन्ततो वा, तदूध्र्वमानम्()। "अविशेषेण" इति। प्रमाणे परिमाण उन्माने वाऽविशेषेण सर्वत्र मात्रज्भवतीति। "प्रस्थमात्रमित्यपि भवति" इति। अपिशब्दाद्वितस्तिमात्रमित्यपि भवतीति। "प्रमाणे लोः" इति। लुकश्चायं पूर्वाचार्यविहिता संज्ञा। अयं मात्रच उत्पन्नस्य लुगुच्यते; न द्वयसज्दध्नयोः। तयोरूध्र्वमाने विधानात्()। अस्मिन्नर्थ उत्पत्तिरपि नास्ति। "द्विगोर्नित्यम्()" इति। द्विगोरप्रमाणत्वात्()। सत्यपि च प्रमाणान्तत्वे तदन्तविदेरभावात्()। पूर्वेण प्राप्त एव लुगुच्यते। "नित्यग्रहणं किम्()" इति। न हि विकल्पः प्रकृतो यन्निवृत्त्यर्थं नित्यग्रहणं क्रियते। न च पूर्वस्य विधेर्विकल्पेन प्रवृतिं()त ज्ञापयितुमिह नित्यग्रहणं कर्तुं युक्तम्()। न ह्रसौ विबाषयेष्यत इत्यभिप्रायः। "संशये", इत्यादिना नित्यग्रहणस्य प्रयोजनमाह। श्रवणं प्रादः, "कृत्वल्युटो बहुलम्()" ३।३।११३ इति भावे घञ्()" श्रावोऽस्यास्तीति श्रावी, स पुनर्वक्ष्यमाणो मात्रच्प्रत्ययः प्रमाणसम्बन्धेनोच्यते। "स्तोमे डट्()" इत्यादि। पञ्चदशाहानि परिमाणमस्य यज्ञस्य "पञ्चदशः"। "पञ्चदशी" इति। टित्त्वान्ङीप्()। "शन्शतोर्डिनिः" इति। स्तोमे चान्यत्राविशेषेणायं विधिः। "विं शिनः" इति। डिनिः, "ति विंशतेर्डिति" ६।४।१४२ इति तिलोपः, यस्येति लोपश्च। "शममात्रं दिष्टिमात्रमिति। प्रमाणस्योदाहरणद्वयम्()। "प्रस्थामात्रम्(), कुडवमात्रमिति" परिमाणस्य। पञ्चमात्रम्(), दशमात्रमिति संख्यायाः। यत्रैतन्न निर्णीयते शमं स्याद्वा न वेति तत्र शममात्रमिति प्रयुच्यते। एवमन्यत्रापि यथायोगं वेदितव्यम्()॥
बाल-मनोरमा
प्रमाणे द्वयसज्दघ्नञ्मात्रचः १८१४, ५।२।३७

प्रमाणे। अनुवर्तत इति। ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद्द्वयसच्, दघ्नच्, मात्रच् एते प्रत्ययाः स्युः। प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम्। तत्र "प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे"ति भाष्ये उक्तम्। प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच्। प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः ष। वस्तुतस्तु "यत्तदेतेभ्यः" इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणमिति शब्देन्दुशेखरे विस्तरः।

प्रमाणे ल इति। लुको "ल" इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा। प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः। शमो दिष्टिर्वितस्तिरिति। रामः प्रमाणमस्येत्यादिविग्रहः। शमादयोऽनूद्र्धमानविशेषाः, तेभ्यो मात्रचो लुक्, इतरयोरसंभवात्। अत्र "आयामस्तु प्रमाणं स्यादि"त्येव गृह्रते। एवंच ऊरुद्वयसमित्यादौ न लुक्।

द्विगोर्नित्यमिति। प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः। प्माणान्तस्य द्विगोः प्रमाणाऽवृत्तित्वात्सामथ्र्यादिह तदन्तविधिः। पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाऽभावात्। द्विशममिति। तद्धितार्थे द्विगुः। ततो मात्रचोऽनेन लुक्। विकल्पस्याऽप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम्। अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच न लुप्येतेति भाष्ये स्पष्टम्।

प्रमाणेति। प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावाचिनश्य संशये मात्रज्वक्तव्य इत्यर्थः। अत्र प्रमाणमायाम एव गृह्रते, "आयामस्तु प्रमाणं स्यादि"ति वचनात्। अत एव परिमाणग्रहणमर्थवत्। शममात्रमित्यादि। शमः स्यान्न वेत्यादिर्गविग्रहः।

वत्वन्तादिति। वार्तिकमिदम्। पुरुषहस्तिभ्यामण् च। "उक्तविषये" इति शेषः। चाद्द्वयसजादयस्त्रयः।

तत्त्व-बोधिनी
प्रमाणे द्वयसज्?दघ्नञ्?मात्रचः १४००, ५।२।३७

प्रमाणे द्वयसज्। प्रमाणे विद्यमाननात्प्रथमान्तात् "अस्ये"ति निर्दिष्टे प्रमेयेऽर्थे त्रयः प्रत्ययाः स्युः। प्रमाणमिह परिच्छेदकमात्रम्। तत्र मात्रच्। द्वयसच्()दघ्नचौ तूध्र्वमान एव भवतः, "प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे"ति भाष्यात्। ऊध्र्वावस्थितेन येन मीयते तदूध्र्वमानम्---ऊर्वादि। तेन तिर्यङ्भानादौ "दण्डज्वयसं क्षेत्र"मित्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात्। अतएव "द्विकाण्डा क्षेत्रभक्ति"रित्यत्र "द्वयसचोलु"गिति प्राचोक्तं नादर्तव्यमित्यवोचाम।

प्रमाणे लः। प्रमाणो ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति--शमः दिष्टिः वितस्तिरिति। शमः प्रमाणस्येत्यादिविग्रहः। एषु मात्रचो लुक्, इतरयोरसंभवात्। शमादीनामनूध्र्वमानत्वात्।

द्विगोर्नित्यम्। द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वात्तदन्तविध्यभावाच्च पूर्वेणाऽप्राप्तो लुग्विधीयते। ननु विकल्पस्याऽप्रकृतत्वान्नित्यग्रहणमिह निरर्थकमिति चेत्। अत्राहुः----अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यते "प्रमाणे लः"इत्यस्य "प्रमाणे द्वयस"जिति यः पूर्वविधिस्तद्विषयत्वात्,---एवं द्विगोरपि न लुप्येत। इष्यते च लुक्। द्वौ शमौ स्यातां न वा द्विशम इति। तथा चाऽधिकसङ्ग्रहार्थं नित्यग्रहणभिति। अत्र केचित्---द्विगोर्लः"इत्युक्तेऽपि पुनर्लग्रहणं नित्यार्थमधिसङ्ग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थं नित्यग्रहणमित्याहुः।

प्रमाणपरिमाणाभ्यां सङ्ख्यायास्तपि संशये मात्रज्वक्तव्यः। शममात्रमित्यादि। शमः स्यान्न वेत्यादिविग्रहः।