पूर्वम्: ५।२।३५
अनन्तरम्: ५।२।३७
 
सूत्रम्
तदस्य संजातं तारकाऽ‌ऽदिभ्य इतच्॥ ५।२।३६
काशिका-वृत्तिः
तदस्य सञ्जातं तारकाऽअदिभ्य इतच् ५।२।३६

तदिति प्रथमासमर्थेभ्यस् तारकाऽअदिभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे इतच् प्रत्ययो भवति। सञ्जातग्रहणं प्रकृतिविशेषणम्। तारकाः सञ्जाता अस्य नभसः तारकितं नभः। पुष्पितो वृक्षः। तारका। पुष्प। मुकुल। कण्टक। पिपासा। सुख। दुःख। ऋजीष। कुड्मल। सूचक। रोग। विचार। व्याधि। निष्क्रमण। मूत्र। पुरीष। किसलय। कुसुम। प्रचार। तन्द्रा। वेग। पुक्षा। श्रद्धा। उत्कण्ठा। भर। द्रोह। गर्भादप्राणिनि। तारकादिराकृतिगणः।
लघु-सिद्धान्त-कौमुदी
तदस्य संजातं तारकादिभ्य इतच् ११७०, ५।२।३६

तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणोऽयम्॥
न्यासः
तदस्य सञ्जातं तारकादिभ्य इतच्?। , ५।२।३६

तारकादिषु "बुभुक्षापिपासा" शब्दौ पठ()एते, तयोः किमर्थः पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो देवदत्त इति भवति? सत्यम्(); भूते विधानाद्वत्र्तमाने न सिध्यति। अनेन तु वत्र्तमानेऽपि सिध्यति। तस्माद्युक्तस्तयोः पाठः। "गर्भादप्राणिनि" इति। गर्भशब्दादप्राणिन्यभिधेय इतच्प्रत्ययो भवति। गर्भिताः शालयः। अप्राणिनीति किम्()? गर्भः सञ्जातोऽस्या गर्भिणी गौः॥
बाल-मनोरमा
तदस्य संजातं तारकादिभ्य इतच् १८१३, ५।२।३६

तदस्य। प्रथमान्तेभ्यस्तारकादिभ्योऽस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः। तारकितं नभ इति। संजातनक्षत्रमित्यर्थः। आकृतिगणोऽयमिति। तेन "पुष्पितो वृक्षः""फलित" इत्यादिसंग्रहः।

तत्त्व-बोधिनी
तदस्य संजातं तारकादिभ्य इतच् १३९९, ५।२।३६

तारकितमिति। एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्याद्युदाहार्यम्।