पूर्वम्: ५।२।३
अनन्तरम्: ५।२।५
 
सूत्रम्
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः॥ ५।२।४
काशिका-वृत्तिः
विभाषा तिलमाषौमाभङ्गाऽणुभ्यः ५।२।४

तिल माष उमा भङ्गा अणु इत्येतेभ्यः विभाषा यत् प्रत्ययो भवति भवने क्षेत्रे ऽभिधेये। खञि प्राप्ते वचनं, पक्षे सो ऽपि भवति। उमाभङ्गयोरपि धान्यत्वम् आश्रितम् एव। तिलानां भवनं क्षेत्रम् तिल्यम्, तैलीनम्। माष्यम्, माषीणम्। उम्यम्, औमीनम्। भङ्ग्यम्, भाङ्गीनम्। अणव्यम्, अणवीनम्।
न्यासः
विभाषा तिलमाषोमाभङ्गाणुभ्यः। , ५।२।४

"खञि प्राप्ते वचनम्(), पक्षे सोऽपि भवति" इति। युक्तं यत्? पक्षे तिलमाषाणुभ्यः खञ्? भवतीति; तेषां धान्यत्वात्()। उमाभङ्गयोस्त्वधान्यत्वात्? खञ्? पाक्षिको न युक्तः। यदेव हि "तिलाश्च मे यवाश्च मे" इत्यादिषु वेदवाक्येषु पठ()ते तदेव धान्यम्()। यावादय एवु मन्त्रे पठ()न्ते, नोमाभङ्गे। यदि तयोरपि धान्यत्वं स्यात्? ते अपि पठ()याताम्(), ततोऽवगम्यते न तयोर्दान्यत्वाम्, एवञ्च न खञस्ताभ्यां प्राप्तिरस्ति, यतः सोऽपि पक्षे स्यादित्येवाह--"उमाभङ्गयोः" इत्यादि। शणसप्तदशमुद्गानि धान्यानीति स्मृतिः। तत्र शणादिषु मध्य उमाभङ्गे अपि धान्यत्वेन संख्यायेते इति तयोर्धान्यत्वमाश्रितमेव। यस्तु पुनर्वेदे तयोरपाठः; स वैदिककर्मण्यनुपयोगात्()। अतो न तत्रापाठादधान्यत्वमित्यभिप्रायः॥
बाल-मनोरमा
विभाषा तिलमाषोमाभङ्गाणुभ्यः। १७८२, ५।२।४

विभाषा तिस। "तिल, माष, उमा, भङ्ग, अणु-एभ्यो धान्यविसेषवाचिभ्यः षष्ठ()न्तेभ्यो यद्वा स्यादित्यर्थः। "उमाभङ्गौ धान्यविशेषौ" इति भाष्यम्। "उमा स्यादतसी क्षुमा" इत्यमरः। अणव्यमिति। अणुर्धान्यविशेषः। यति "ओर्गुणः" "वान्तो यी"त्यवादेशः।