पूर्वम्: ५।२।४०
अनन्तरम्: ५।२।४२
 
सूत्रम्
किमः संख्यापरिमाणे डति च॥ ५।२।४१
काशिका-वृत्तिः
किमः सङ्ख्यापरिमाणे डति च ५।२।४१

सङ्ख्यायाः परिमाणं सङ्ख्यापरिच्छेदः इत्यर्थः। सङ्ख्यापरिमाणे वर्तमानात् किमः प्रथमासमर्थादस्य इति षष्ठ्यर्थे डतिः प्रत्ययो भवति, चकाराद् वतुप्। तस्य च वकारस्य घादेशो भवति। पृच्छ्यमानत्वात् परिच्छेदोपाधिकायां सङ्ख्यायां वर्तमानात् किमः प्रत्ययो विज्ञायते। का सङ्ख्या परिमाणम् एषां ब्राह्मणानाम् कति ब्राह्मणाः, कियन्तो ब्राह्मणाः। अथ वा सङ्ख्या एव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते, का सङ्ख्या परिमाणं येषां इति। ननु च सङ्ख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते? यत्र अपरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति। क्षेपे हि परिच्छेदो न अस्ति, केयम् एषां सङ्ख्या दशानाम् इति।
न्यासः
किमः संख्यापरिमाणे डति च। , ५।२।४१

"संख्यायाः परिमाणम्()" इति। कृद्योगलक्षणा कर्मणि षष्ठी। परिमितिः परिमाणम्()। संख्यापरिच्छेद इत्यर्थः। परिच्छेद ति भावे घञ्()। "संख्यापरिच्छेदे वत्र्तमानात्()" इति। परिच्छेदोपाधिकायां संख्यायां वत्र्तमानादित्येषोऽर्थो विवक्षितः। यथा ह्रयमेवार्थोऽस्य वचनस्योत्तरत्र तथा व्यक्तीकरिष्यते। तस्य वकारस्य घत्वमिति; "वो घः" इत्यनुवृत्तेः। "पृच्छ्यमानत्वात्()" इति। यदा संख्यायाः परिच्छेदे किंशब्दो वत्र्तते। कदा च वत्र्तते? यदा संख्या परिपृच्छ्यमाना भवति। न ह्रपरिपृच्छ्यमानायाः परिच्छेद उपपद्यते। यदा च परिपृटच्छ्यमाना भवति, तदा च किंशब्दः परिच्छेदविशिष्टायां वत्र्तत इति पृच्छ्यमानत्वात्? "परिच्छेदोपादिकायां संख्यायां वत्र्तमानात्? किमः प्रत्ययो भवतीति विज्ञायते। परिच्छेद उपाधिविशेषणभूतो यस्याः सा परिच्छेदोपाधिका। परिचछेदविशेषणेति यावत्()। तदनेन संक्यापरिच्छेदे वत्र्तमानात्? किम इत्यस्य योऽर्थोऽभिमतः स व्यक्तीकृतः। "कति" इति। जसः "षड्भ्यो लुक्()" ७।१।२२ इति लुक्()। "अथ वा" इत्यादि। अत्र च व्याख्याने "संख्यापरिमाणे" इति कर्मधारयः, निपातनादुपसर्जनस्यायं परनिपातः। परिमाणशब्दश्च परिमीयतेऽनेनेति करणसाधनः। "एवमात्मिकैव" इति। अस्यार्थं परिच्छेदस्वभावेत्यनेन विस्पष्टीकरोति। परिच्छिद्यतेऽनेनेति परिच्छेदः, स स्वभावो यस्याः सा तथोक्ता। "यत्र" इत्यादिना यदर्थं परिमाणग्रहणेन संख्या विशेष्यते तद्दर्शयति। स्यादेतत्()--नास्त्येव स विशेषो यत्र संख्यायाः परिच्छेदस्वभावो नास्ति, तदपार्थकं विशेषणमिति? अत आह--"क्षेपे हि" इत्यादि। "केयमेषां संख्या दशानाम्()" इति। नात्र संख्या परिच्छेदकत्वेन विवक्षिता। न ह्रत्र परिच्छेदोऽस्ति; क्षेपपरत्वाद्वाक्यस्य। किंशब्दोऽत्र क्षेपे वत्र्तते, न प्रश्ने॥
बाल-मनोरमा
किमः सङ्ख्यापरिमाणे डति च १८१८, ५।२।४१

किमः सङ्ख्या। तदस्येत्यनुवर्तते। सङ्ख्यायाः परिमाणं=परिच्छेदः। किंशब्दःप्रश्ने वर्तते। का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमाना()त्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः। कतीति। का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति, "अस्ये"त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात्। का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात्। उक्तं च भाष्ये--"न द्व्येकयोः प्रश्नोऽस्ती"ति। ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दो "डति चे"ति षट्संज्ञकत्वात् "षड्भ्यो लु"गिति जश्शसोर्वुक्। कियन्त इति। कियानितिवत्प्रक्रिया। बहुवचने विशेषः। "सङ्ख्यापरिमाणे" इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति। का सङ्ख्या एषां दशानामिति। "दशाऽवरा परिष"दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म्। सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते, "अव्रतानाममत्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्त्वं न विद्यते।" इति स्मरणात्।

तत्त्व-बोधिनी
किमः सङ्ख्यापरिमाणे डति च १४०४, ५।२।४१

किमः सङ्ख्या। "तदस्ये"त्यनुवर्तत एव। संख्यायाः परिमाणं=परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठ()र्थे डतिः स्यात्। सङ्ख्यापरिमाणे किम्()। क्षेपे माभूत्। का सङ्ख्येयमेषां दशानाम्। "अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्त्वं न विद्यते इत्येवं सङ्ख्येयद्वारेणाऽत्र संख्यायां कुत्सा बोध्या।