पूर्वम्: ५।२।५१
अनन्तरम्: ५।२।५३
 
सूत्रम्
बहुपूगगणसंघस्य तिथुक्॥ ५।२।५२
काशिका-वृत्तिः
बहुपूगगणसङ्घस्य तिथुक् ५।२।५२

डटित्येव। बहु पूग गन सङ्घ इत्येतेषां डटि परतः तिथुगागमो भवति। पूगसङ्घशब्दयोरसङ्ख्यात्वादिदम् एव ज्ञापकं डटो भावस्य। बहूनां पूरणः बहुतिथः। पूगतिथः। गणतिथः। सङ्घतिथः।
काशिका-वृत्तिः
वतोरिथुक् ५।२।५३

डटित्येव। वतोर् डटि परतः इथुगागमो भवति। वत्वन्तस्य संख्यात्वात् पूर्वेण डड् विहितः, तस्मिन्नयम् आगमः विधीयते। यावतां पूरणः यावतिथः। तावतिथः। एतावतिथः।
न्यासः
बहुपूगगणसङ्खसय तिथुक्?। , ५।२।५२

"पूगसङ्घयोरसंख्यात्वात्()" इति। अत्र कथं प्रत्यय इति, पूगसङ्घशब्दौ हि न लौकिकी संख्या, नापि शास्त्रीया, तत्कथं ताभ्यां डट्प्रत्ययः, यत्र परतस्तयोस्तिथुग्विधीयते, डटि च विधानम्()? अथात्रोत्तरमाह--"इदमेव" इत्यादि। यदेतड्डटि परतस्तयोस्तिथुको विधानमेतदेव ज्ञापयति--भवति ताभ्यां डट्प्रत्यय इति। न ह्रसतस्तिथुगागमं प्रति निमित्तभाव उपपद्यते॥
न्यासः
वतोरथुक्?। , ५।२।५२

"यावतिथः" इति। "यत्तदेतेभ्यः परिमाणे वतुप्()" ५।२।३९, "आ सर्वनाम्नः" ६।३।९०
बाल-मनोरमा
बहुपूगगणसङ्घस्य तिथुक् १८२८, ५।२।५२

बहुपूगगण। बहु, पूग, गण, सङ्घ एषां डटि तिथुगागमः स्यादित्यर्थः। ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्त्यादचः परः। इत्यादीति। पूगतिथः गणतिथः, सङ्घतिथः।

बाल-मनोरमा
वतोरिथुक् १८२९, ५।२।५२

वतोरिथुक्। डटीत्येवेति। वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः। यावतिथ इति। यावतां पूरण इति विग्रहः। "बहुगणे"ति सङ्ख्यात्वात् "तस्य पूरणे" इति डेटि प्रकृतेरिथुक्।