पूर्वम्: ६।३।८८
अनन्तरम्: ६।३।९०
 
सूत्रम्
इदङ्किमोरीश्की॥ ६।३।८९
काशिका-वृत्तिः
इदं किमोरीश्की ६।३।९०

इदं किम् इत्येतयोरीश् की इत्येतौ यथासङ्ख्यम् आदेशौ भवतो दृग्दृशवतुषु। ईदृक्। ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। किमिंदंभ्यां वो घः ५।२।४० इति वतुप्। दृक्षे चेति वक्तव्यम्। ईदृक्षः। कीदृक्षः।
लघु-सिद्धान्त-कौमुदी
इदंकिमोरीश्की ११७४, ६।३।८९

दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥
न्यासः
इदंकिमोरीश्की। , ६।३।८९

शकारः सर्वादेशार्थः। इदमिव पश्यतीति "ईदृक्? इदृशः"। पूर्ववत्? कञ्किवनौ। किमिव यश्यतीति "कीदृक्? कीदृशः"। व्युत्पत्तिमात्रार्थो विग्रहः कृतः। नात्रावयवार्थो विग्रहवाक्योपदर्शितो विद्यते। तथा हीदृग्? ईदृश इत्यनेन तुल्य इत्येषोऽर्थः समुदायादेव प्रतीयते। कीदृक्(), कीदृश इत्यत्रापि केन तुल्य इति। किं परिमाणमस्येति "कयान"। इदं परिमाणमस्येति "इयान्()"। "किमिदंभ्यां वो घः" ५।२।४० इति वतुपो घत्वम्(), तस्येयादेशे कृते "यस्येति च" ६।४।१४८ इतीकारलोपः। ननु च वतुपो वकारस्येयादेशोऽनेन विधीयते, न तु वतुप्? किमिदंभ्यां विधीयते? एवं मन्यते--वतुबस्मादादेशवचनाद्विज्ञायते, न ह्रन्यद्वतुपो लक्षणमस्ति। न चासतो वतुपो घादेशः शक्यो विज्ञातुमिति॥
बाल-मनोरमा
इदङ्किमोरीश्?की १००३, ६।३।८९

इदंकिमोरीश्की। "ईश्" "की"ति द्वे पदे। ईदृक् ईदृश इति। "इदमिव दृश्यते" इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ। ईशः शित्त्वं सर्वादेशत्वाय। वक्ष्यत इति। तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः।

दृक्षे चेति। इदंकिमोरीश्की वक्तव्यौ" इति शेषः।आ सर्वनाम्न इति। "आ" इति लुप्तप्रथमाकम्। तादृक् तादृश इति। तदिव दृश्यत इत्यर्थे "त्यदादिषु दृशः" इति क्विन्कञौ। तदो दकारस्य आत्वे सवर्णदीर्घः। तावानिति। तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य" इतिं वतुप्। तादृक्ष इति। तदिव दृश्यते इति विग्रहः। अमूदृगित्यत्र प्रक्रियां दर्शयति--दीर्घ इति। अदस आत्त्वे कृते सवर्णदीर्घः। तत ऊत्त्वमत्वे इत्यर्थः। "अः से"रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे।